करटिन्
karaṭinपुं · masc.In 9 kośas: 9 synonym verses.
हस्ती मतङ्गजगजद्विपकर्यनेकपा मातङ्गवारणमहामृगसामयोनयः ।स्तम्बेरमद्विरदसिन्धुरनागदन्तिनो दन्तावलः करटिकुञ्जरकुम्भिपीलवः ॥ १२१७ ॥इभः करेणुर्गर्जोऽस्य स्त्री धेनुका वशापि च ।
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 नु (wrong syllable)
genderपुंmasc.
निर्लूनः करटी नाग इभः स्तम्बेरमो गजः ।करी मतङ्गजः पद्मी शूर्पकर्णो लतारतः ॥ १४४ ॥
अनुष्टुप्
genderपुंmasc.
हस्तीभो द्विपिबो द्विपो द्विरदनो नागः करी [111b] पुष्करीपद्मी पेचकि-पीलु-कुम्भि-करटि-स्तम्बेरमानेकपाः ।मातङ्गश्च मतङ्गजः सुरगजो दन्ती च दन्तावलोवेतण्डश्च मितंगमोऽपि जलकाङ्क्षः सिन्धुरश्चन्दिरः ॥ ८३ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
गजो द्विपस्तथेभोऽसौ कुम्भिकुञ्जरपीलवः ।करटी सिन्धुरो दन्ती दन्तावलमहामृगौ ॥ १३४ ॥
अनुष्टुप्
genderपुंmasc.
अनेकपश्च करटी करेणुः पीलुवारणौ ।घोटकस्तुरगो वाजी तुरंगोऽश्वस्तुरंगमः ॥ १५५ ॥
अनुष्टुप्
genderपुंmasc.
पीलुर्विलोमजिह्वश्च करिश्च करटी करी ।द्विरदः सामयोनिश्च नामानीति गजस्य वै ॥ २२०२ ॥
अनुष्टुप्
genderपुंmasc.
विलोमजिह्वः करटी पिण्डपादो महामदः ।पेटकी कटकी कुम्भी निर्लुवः स्यादनेकपः ॥
अनुष्टुप्
genderपुंmasc.
मातङ्गः करटीभवारणकरिस्तम्बेरमानेकपाःशुण्डालद्विपहस्तिनागमदमुक्शूर्पश्रवःकुजराः ।वेतण्डद्विरदौ महाबलगजौ दन्तावलः सिन्धुरःपद्मी सामभवो रदी च करिणः कुम्भौ शिरःपिण्डकौ ॥ ६९८ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 17 कु (wrong syllable)
genderपुंmasc.
हस्ती महामृगः पीलुः सिन्धुरो दीर्घमारुतः ।राजीवो जलकाङ्क्षश्च निर्झरः करटी कटी ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.