द्विप
dvipaपुं · masc.In 18 kośas: 18 synonym verses, 2 as a nānārtha head word, 6 as a meaning of another word.
हस्ती मतङ्गजगजद्विपकर्यनेकपा मातङ्गवारणमहामृगसामयोनयः ।स्तम्बेरमद्विरदसिन्धुरनागदन्तिनो दन्तावलः करटिकुञ्जरकुम्भिपीलवः ॥ १२१७ ॥इभः करेणुर्गर्जोऽस्य स्त्री धेनुका वशापि च ।
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 नु (wrong syllable)
genderपुंmasc.
दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः ।मतङ्गजो गजो नागः कुञ्जरो वारणः करी ॥ ३४ ॥इभः स्तम्बेरमः पद्मी यूथनाथस्तु यूथपः ।
अनुष्टुप्
genderपुंmasc.
मातङ्गद्विरदद्विपाः करिगजस्तम्बेरमानेकपाः,कुम्भीकुञ्जरवारणेभरदिनः सामोद्भवः सिन्धुरः ।तुल्यार्थाः कथिता हरिर्मृगपतिः पञ्चाननः केसरी,हर्यक्षो नखरायुधो मृगरिपुः सिंहश्च कण्ठीरवः ॥ २१४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
मातङ्गो राजिलः पीलुर्जलकान्तो महामृगः ।मतङ्गः सामजः कुम्भी कुञ्जरोऽनेकपो द्विपः ॥ १४३ ॥
अनुष्टुप्
genderपुंmasc.
द्विपः पञ्चशिखश्चाथ नादेऽप्यस्य मरुत्प्लवः ।टक्कारोऽपि च चुत्कार स्त्रियां क्ष्वेडाऽथ भीरुकः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
वोलप्रवालमुरजद्विपानामभ्रपङ्कयोः ।सेवध्यम्बुधिमन्थानां विषयस्याशुगस्य च ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
हस्तीभो द्विपिबो द्विपो द्विरदनो नागः करी [111b] पुष्करीपद्मी पेचकि-पीलु-कुम्भि-करटि-स्तम्बेरमानेकपाः ।मातङ्गश्च मतङ्गजः सुरगजो दन्ती च दन्तावलोवेतण्डश्च मितंगमोऽपि जलकाङ्क्षः सिन्धुरश्चन्दिरः ॥ ८३ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
दर्वीसहो दुष्प्ररोहश्चाम्पेयः स्कन्धभूषणः ।नागपुष्पः कुम्भफलो हेमसर्पद्विपाह्वयः ॥ ११ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 कु (wrong syllable)
genderपुंmasc.
स्तम्बेरमो गजो गर्जो द्विरदोऽनेकपो द्विपः ।दन्तावलो महाकायो वारणः कुञ्जरोऽसुरः ॥ १६५ ॥
अनुष्टुप्
genderपुंmasc.
शुण्डालः सामजो नागो मातङ्गः पुष्करी द्विपः ।करेणुः सिन्धुरः तेषु यन्ता याता निषाद्यपि ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
गजो द्विपस्तथेभोऽसौ कुम्भिकुञ्जरपीलवः ।करटी सिन्धुरो दन्ती दन्तावलमहामृगौ ॥ १३४ ॥
अनुष्टुप्
genderपुंmasc.
कुञ्जरो वारणो नागो हस्ति स्तम्बेरमो द्विपः ।इभः पद्मी सामयोनिः पीलुः कुम्भी महामृगः ॥ १२७ ॥
अनुष्टुप्
genderपुंmasc.
दन्तावलो मतङ्गश्च दन्ती कुम्भी करी दरी ।मदावलो महाकायो द्विरदोऽनेकपो द्विपः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
इभः स्तम्बेरमः कुम्भी दन्ती दन्तावलो द्विपः ।द्विरदः सिन्धुरो नागः सामयोनिर्महामृगः ॥ १५४ ॥
अनुष्टुप्
genderपुंmasc.
द्विपश्चाऽनेकपः पद्मी पुष्करी पेचकी कपिः ।पेचिलः सूर्पकर्णश्च करेणुः सूचिकाधरः ॥ २२०० ॥
अनुष्टुप्
genderपुंmasc.
हस्तिनोऽश्वाः रथाः पत्तिव्रजाः सेनाङ्गमुच्यते ।हस्तीमतङ्गमातङ्गमतङ्गजगजद्विपाः ॥
अनुष्टुप्
genderपुंmasc.
मातङ्गः करटीभवारणकरिस्तम्बेरमानेकपाःशुण्डालद्विपहस्तिनागमदमुक्शूर्पश्रवःकुजराः ।वेतण्डद्विरदौ महाबलगजौ दन्तावलः सिन्धुरःपद्मी सामभवो रदी च करिणः कुम्भौ शिरःपिण्डकौ ॥ ६९८ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 17 कु (wrong syllable)
genderपुंmasc.
इभो मतंगजो हस्ती दन्ती कुंभी करी रदी ।स्तंबेरमो गजो गर्जो द्विरदोऽनेकपो द्विपः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
सङ्ख्याभेदे तु शङ्खस्य शस्त्रस्यायसि लक्षयेत् ।अपराधे तु रन्ध्रस्य व्याधेः कुष्ठाख्यभेषजे ॥ ८ ॥
अनुष्टुप्
meaningsसंख्याभेद
doubtful
धनुर्मकरकुंभानां क्रमाद्द्वादशराशिषु ।सर्पस्य सीसके नागकेसरे द्विपसर्पयोः ॥ १५ ॥
अनुष्टुप्
meaningsअगरु
द्विप as a meaning in nānārtha verses
- धरणिकोश मातंगमृदङ्गो घोषके वाद्ये प्रियङ्गुः कङ्गुवृक्षयोः । भुजंगौ षिङ्गभुजगौ मातंगौ श्वपचद्विपौ ॥ Dharaṇikośa 3.1.4
- कोषकल्पतरु अङ्गजपुंसि द्विपे च तनये केशेऽथाश्वे च पुंनागे । काम्बोजः सितखदिरे माषदलायां तु हिङ्गुपत्र्यां स्त्री ॥ ३९ ॥ Koṣakalpataru 6.7.39
- कोषकल्पतरु महानादसारीणां फलके तथा च कनकेऽप्यष्टापदो न स्त्रियां पुंसि स्याच्छरभे गिरावपि कपौ लूतेन्दुमल्ल्योस्तथा । लङ्केशात्मजतन्दुलीयवरुणे स्यान्मेघनादो महा- नादस्तु द्विपवर्षुकाम्बुदशयुष्वत्रोदितः पण्डितैः ॥ ४४ ॥ Koṣakalpataru 6.19.44
- नानार्थार्णवसंक्षेप मारीचआर्ये स्यादथ मारीचः काकोले याजके द्विपे । रक्षोभेदे मासरस्तु भक्तमण्डे तथैव च ॥ १७५ ॥ Nānārthārṇavasaṃkṣepa 3.2.175
- परमानन्दीयनाममाला हरिलोकान्तरे द्विपे वह्नौ हारो मुक्तागणे स्मृतः । संग्रामेऽथ मतो हीरो रुद्रे वज्रेऽपि कथ्यते ॥ ३७३ ॥ Paramānandīyanāmamālā 5.28.373
- शब्दरत्नावली लघुकर्णलेलिहानो महादेवे भक्षके दनुजेऽपि च । लघुकर्णश्छागले स्यादङ्कोठे राक्षसे द्विपे ॥ Śabdaratnāvalī 7.15.89