कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रोह

prohaपुं · masc.

In 8 kośas: 8 synonym verses, 3 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.179 · p. 108
शङ्खः कूटो दन्तमध्यं प्रोहश्चरणपर्वणि ।अपस्कारः प्रजङ्घाग्रे नाली नात्रापरे न ना ॥ १७९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.63 · p. 216
उपस्थोऽथ कटिप्रोथः प्रोह-स्फिजौ स्त्रियौ युतम् ।क्लीबे स्फिगं तदूर्ध्वं तु[84b] कटीक-तरुणे उभे ॥ ६३ ॥
metre not recognised
genderस्त्रीfem.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.172 · p. 29
कूर्मः संदानभागश्च प्रोह उत्सङ्ग इत्यपि ।विशेषभागो वैशाखी तद्गात्रेषु च पाकलः ॥ १७२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.238 · p. 127
वंशिके जानुनीख्याते सन्धानं जानुनोरधः ।अयस्कारस्तु जङ्घाग्रे प्रोहश्चरणपर्वणि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.705 · p. 90
कूर्मः सन्दानभागश्च प्रोह उत्सङ्ग इत्यपि ।अधोऽधः पश्चिमस्याङ्घ्रेर्मूलादानखरावधेः ॥ ७०५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.706 · p. 90
प्रदेशाः स्युः कलाभागः क्रमाज्जघनपिण्डिका ।मण्डूका शकुटा पार्ष्णिस्तलः प्रोहश्च कूर्मकः ॥ ७०६ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.38 · p. 67
शङ्खः कटो दन्तमध्ये प्रवेष्टः पृष्ठतल्पने ।आयस्कारः प्रजङ्घाग्रे प्रोहश्चरणपर्वणि ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.76 · p. 110
कूर्मः सन्दानभागश्च प्रोह उत्संग इत्यपि ।विशेषभागो जघनभागो वैशाख्यपि क्रमात् ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास हार्धश्लोकः Dharaṇikośa 32.2.2 · p. 228
प्रोहो नैपुणतर्के स्यात्प्रोहो गजाङ्घ्रिपर्वणि ।व्यूहः स्याद्बलविन्यासे व्यूहस्तर्कसमूहयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ हान्ताः Koṣakalpataru 6.32.39 · p. 386
सूर्ये च नैपुणेऽथ प्रोहो हस्त्यङ्घ्रिपर्वार्थः ।अविवेके मोहः स्यान्मूर्छायां चाथ लोहोऽस्त्री ॥ ३९ ॥
metre not recognised
शब्दरत्नावली Śabdaratnāvalī · मथुरेश हान्ताः Śabdaratnāvalī 7.33.8 · p. 298
प्रोहस्तु निपुणे तर्के गजानां पादपर्वणि ।बहुस्त्रित्वादिसंख्यासु तथा सुविपुले त्रिषु ॥
अनुष्टुप्