All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
नानार्थस्कन्धः · हान्ताः
सान्ताः ।
एकहाः ।
द्विहाः ।
स्त्री मुद्गपर्णिकायां[सहदेवायां] [92a]कुमार्यां च ।भूमौ नखभेषजके ग्रहः पुनः पूतनाह्वादौ ॥ ३५ ॥
6.32.35 · p. 385
metre not recognised
ना राहावुपरागे निर्बन्धेऽनुग्रहे ग्रहणे ।समरोद्यमेऽथ वृषभस्कन्धे वायौ वहो माने ॥ ३६ ॥
6.32.36 · p. 386
metre not recognised
न स्त्री बर्हं पत्रे मयूर पिच्छे परिच्छदे पुंसि ।पुंसि क्लीबे च गृहाः पत्न्यां प्रायो बहुत्वे स्युः ॥ ३७ ॥
6.32.37 · p. 386
metre not recognised
गेहेऽथ ग्राहः स्यादवहारे स्याद्ग्रहे पुंसि ।नाहः कूटे बन्धे स्नेहोऽस्त्री सौहृदे तैले ।स्नेहुश्चन्द्रे रोगेऽथ रणे प्राह प्रहारे च ॥ ३८ ॥
6.32.38 · p. 386
metre not recognised
सूर्ये च नैपुणेऽथ प्रोहो हस्त्यङ्घ्रिपर्वार्थः ।अविवेके मोहः स्यान्मूर्छायां चाथ लोहोऽस्त्री ॥ ३९ ॥
6.32.39 · p. 386
metre not recognised
सर्वत्र तैजसे स्यादयसि च शस्त्रेऽगरुद्रुमे तद्वत् ।व्यूहो बलविन्यासे निर्माणे तर्कसंहत्योः ॥ ४० ॥
6.32.40 · p. 386
आर्या
सिंहः स्यात्पञ्चास्ये राशौ श्रेष्ठे स उत्तरपदगतः ।स्त्री राहुमातृवासाबृहती द्वैद्वे( ? )बुधैः कथितः ॥ ४१ ॥
6.32.41 · p. 386
आर्या
विपुले त्र्यादिकसंख्यार्थको बहुः स्याद्विशेष्यघ्नः ।वृत्रासुरेऽहिराद्ये वप्रे द्वंद्वे तु सर्पे स्यात् ॥ ४२ ॥
6.32.42 · p. 386
metre not recognised
ईहा द्वयोरुद्यमवाञ्छ[92b]योः स्या-त्स्कन्दे गुहो योषिति सिंहपुच्छ्याम् ।दर्यां च वाहो मिथुने भुजायांना मानबाह्वश्ववृषेषु दिष्टा ॥ ४३ ॥
6.32.43 · p. 386
इन्द्रवज्राmetre not read in every line
त्रिहाः ।
ना खड्गकोशे कलहोऽपि राटौयुद्धे तथा भण्डनवाचकश्च ।स्यात्प्रग्रहोऽश्वादिकरज्जुरश्मि-भुजेषु वन्द्यां नियमे हरिद्रौ ॥ ४५ ॥
6.32.45 · p. 387
उपजातिः
सूत्रे तुलाया नरि तद्वदेवप्रग्राह आद्येऽप्यथ भर्त्सने स्यात् ।बन्धेऽवधौ चाथ रणे शरीरेस्याद्विग्रहो विस्तरणे विभागे ॥ ४६ ॥
6.32.46 · p. 387
इन्द्रवज्रा
उद्रङ्गसंक्षेपकमुष्टिषु स्या-न्ना संग्रहोऽथाग्रह आक्रमेऽपि ।आसञ्जनानुग्रहणग्रहेषुप्रग्राह उक्तश्च धटस्य सूत्रे ॥ ४७ ॥
6.32.47 · p. 387
इन्द्रवज्रा
अर्वादिकप्रग्रहवाचकोऽथअब्दे वराहोऽच्युतपोत्रिणोश्च ।स्यान्मानके भूधरमुस्तयोश्चनवाह उक्तः प्रतिपत्तिथौ ना ॥ ४८ ॥
6.32.48 · p. 387
उपजातिः
नवे दिने च व्यवहारवाचीप्रवाह उक्तोऽम्बुसृतौ[93a]स्वतोऽपि ।त्रये कटाहो धृततैलपात्रेस्यात्पाकपात्रेऽपि च कर्परेऽपि ॥ ४९ ॥
6.32.49 · p. 387
उपजातिःmetre not read in every line
शूर्पे तथा स्यात्कमठस्य पृष्ठेस्यात्कोटरे ना महिषीशिशौ च ।उत्साह उक्तो नरि चोद्यमे ऽपिप्रचक्षते तं सुधियश्च सूत्रे ॥ ५० ॥
6.32.50 · p. 387
उपजातिः
आरोह उच्छ्रायनिषादिनोः स्या-द्दैर्घ्ये च माने वनितानितम्बे ।निर्यूह उक्तो नरि शेखरे चनिर्यासकद्वारकनागदन्ते ॥ ५१ ॥
6.32.51 · p. 387
इन्द्रवज्रा
विदेह उक्तस्त्रिषु देहशून्येपुंसि प्रभौ स्यान्मिथिलानगर्याः ।तर्के निरूहो नरि निश्चितेऽपिवस्तिप्रभेदेऽपि भिषग्भिरुक्तः ॥ ५२ ॥
6.32.52 · p. 388
उपजातिः
दात्यूहः स्याच्चातके कालकण्ठेऽथात्यूहा स्यात्केकिनी स्त्री तु नील्याम् ।स्याद्वैदेही जानकीवाणिजस्त्री-पिप्पल्यर्था रोचनायां तथैव ॥ ५३ ॥
6.32.53 · p. 388
शालिनी
गृष्ट्यौषधेऽपि मातृप्रभेद उक्ता च वाराही ।एलापर्ण्यां सुवहा गोधापद्यां च शल्लक्याम् ॥ ५४ ॥
6.32.54 · p. 388
metre not recognised
वीणाशेफालिकयो रास्नायां स्यादथो परवत् ।सम्यग्वहेऽथ शत्रौ कल्लोहः कुत्सिते लोहे ॥ ५५ ॥
6.32.55 · p. 388
metre not recognised
चतुर्हाः ।
[93b]अवग्रहो गजालिके निरोधवृष्टिरोधयोः ।स्वतन्त्रतानिषेधने विपश्चितः प्रचक्षते ॥ ५६ ॥
6.32.56 · p. 388
पञ्चचामरम्
उरीकृतौ पतद्ग्रहेऽप्यवग्रहान्तरे तथाद्विजार्थदेयवस्तुनि प्रतिग्रहश्च तद्गृहे ॥ ५७ ॥
6.32.57 · p. 388
पञ्चचामरम्
बलस्य पृष्ठभागके परिग्रहस्तु कीर्तितःकुटुम्बके कलत्रके ग्रहे च मूलशापयोः ॥ ५८ ॥
6.32.58 · p. 388
पञ्चचामरम्
स्यात्पारिबर्हः क्षितिपालयोग्य-वस्तुन्यपि स्याच्च परिच्छदेऽपि ।वीणानिबन्धेऽप्युपनाह उक्तःपिण्डे व्रणालेपनके तथैव ॥ ६० ॥
6.32.60 · p. 388
इन्द्रवज्रा
पितामहो ब्रह्मणि ताततातेतमोपहोऽर्केन्दुजिनेषु वह्नौ ।तनूरुहोऽस्त्री गरुतीह लोम्निसमीरणे गन्धवहो नसि स्त्री ॥ ६१ ॥
6.32.61 · p. 389
उपेन्द्रवज्रा
राजार्हवस्तुनि स्यात्सलिलोच्छ्वासे परीवाहः ।हस्त्यारोहे च तथावरोहणे स्याद्वरारोहः ॥ ६२ ॥
6.32.62 · p. 389
metre not recognised
स्त्री वरनारीश्रोण्योरवरोहः स्यात्तरंगे[94a]ऽपि ।वल्ल्युद्गमेऽवतारेऽथाश्वारोहोऽश्ववारके पुंसि ॥ ६३ ॥
6.32.63 · p. 389
metre not recognised
योषिति तुरंगगन्धावाचक उक्तो विपश्चिद्भिः ।अम्लाने तु प्रथिता महासहा माषपर्ण्यां च ॥ ६४ ॥
6.32.64 · p. 389
metre not recognised
देहसहस्त्रिषु भिक्षायुक्ते दण्डोत्पलायां स्त्री ।प्रपितामहो विरञ्चौ पितामहे स्यात्पितुः स्वस्य ॥ ६५ ॥
6.32.65 · p. 389
metre not recognised
आम्नातमत्र नाम्नि कविमुखधाम्नां हि दिङ्मात्रम् ।यत्पदपद्मविभूत्या तं गुरुमत्यादराद्वन्दे ॥ ६६ ॥
6.32.66 · p. 389
metre not recognised