All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
हान्ताः · हार्धश्लोकः
॥ हार्धश्लोकः ॥
बर्हं मयूरपुच्छेऽपि बर्हं पत्रकमिष्यते ।अहिर्वृत्रासुरे सर्पेऽप्यतिक्रूरेऽप्यहिः स्मृतः ॥
32.2.1 · p. 227
अनुष्टुप्
प्रोहो नैपुणतर्के स्यात्प्रोहो गजाङ्घ्रिपर्वणि ।व्यूहः स्याद्बलविन्यासे व्यूहस्तर्कसमूहयोः ॥
32.2.2 · p. 228
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
बहुशब्दस्तु विपुले त्र्यादिसंख्यास्वपि स्मृतः ।लोहश्चागुरुसारः स्यादयः सर्वं च तैजसम् ॥
32.2.3 · p. 228
अनुष्टुप्
गुहा दरी पृश्निपर्णी कार्तिकेयो गुहो मतः ।मही नदी मही भूमिर्मह उत्सवतेजसोः ॥
32.2.4 · p. 228
अनुष्टुप्
बाहा स्मृता भुजायां तु बाहो मानतुरंगयोः ।कुहूः स्यात्कोकिलालापो नष्टकलाप्यमावसी ॥
32.2.5 · p. 228
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
संग्रहो बृहदुत्तुङ्गे मुष्टिसंक्षेपयोरपि ।निग्रहो भर्त्सनाभिख्यो मर्यादां निग्रहं विदुः ॥
32.2.6 · p. 228
अनुष्टुप्
विग्रहो विस्तरः प्रोक्तो विग्रहः काययुद्धयोः ।आग्रहोऽनुग्रहो दृष्ट आसङ्गे ग्रहणेऽपि च ॥
32.2.7 · p. 229
अनुष्टुप्
प्रग्रहः स्यात्तुलासूत्रे हयरश्मौ च कीर्तितः ।नवाहः स्यान्नवाहनि नवाहः प्रतिपत्तिथिः ॥
32.2.8 · p. 229
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ह (wrong syllable)
प्रवाहो जलवेगेऽपि पारम्पर्यानुवर्तने ।वराहः शूकरे विष्णौ मानभेदेऽम्बुदे गिरौ ॥
32.2.9 · p. 229
अनुष्टुप्
आरोहो जघने दैर्ध्ये पादपाङ्गे निषादिनि ।विदेहो मैथिले ख्यातो देहशून्ये च कीर्तितः ॥
32.2.10 · p. 229
अनुष्टुप्
निर्व्यूहः शेखरे द्वारे निर्व्यूहो नागदन्तकः ।दात्यूहश्चातकः प्रोक्तो दात्यूहः कालकण्टकः ॥
32.2.11 · p. 229
अनुष्टुप्
अवरोहोऽवतरणे [108] पादपाङ्गे लतोद्भवे ।परिबर्हस्तु [राजाहवस्तु?]न्यथ परिच्छदे ॥
32.2.12 · p. 229
अनुष्टुप्
परिवाहो जलोच्छ्वासे नृपयोग्ये च वस्तुनि ।उपानहो व्रणालेपपिण्डे वीणानिबन्धने ॥
32.2.13 · p. 230
अनुष्टुप्
गन्धवहः स्मृतो वाते नासा गन्धवहा स्मृता ।पितमहाः पितृपिता परमेष्ठी पितामहः ॥
32.2.14 · p. 230
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable); pāda 3, syllable 3 म (wrong syllable)
तमोपहो दिवानाथनिशानाथकृशानुषु ।उपग्रहाख्यं द्वितयं स्याद्बन्दिरनुकूलकम् ॥
32.2.15 · p. 230
अनुष्टुप्
अवग्रहः प्रतिबन्धे प्रतिबोधे गजालिके ।अवग्राहोऽपि वृष्टीनां बोधे हस्तिललाटके ॥
32.2.16 · p. 230
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)