कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भावना

bhāvanāस्त्री · fem.

In 7 kośas: 6 synonym verses, 4 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1373 · p. 52
वासना भावना संस्कारोऽनुभूताद्यविस्मृतिः ॥ १३७३ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह धीवर्गः Amarakośa 1.5.2
विमर्शो भावना चैव वासना च निगद्यते ॥ २ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.5 · p. 53
उपज्ञा ज्ञानमाद्यं स्याद्वासना-भावने स्त्रियौ ।अनुभूताविस्मृतिः स्यात्संस्कारो नाथ निर्णयः ॥ ५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.58 · p. 101
ह्रादिनी स्वेदनी कर्तनी काकिनीदामनी शिञ्जिनी वर्तनी कामिनी ।नीलिनी मालिनी चेतना भावनासामिधेनी तथा मातुलानी भवेत् ॥ ५८ ॥
स्रग्विणी
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2496 · p. 404
पूर्वाऽनुभूतस्मरणे वासना भावना भवेत् ।संस्कारोऽप्यनुभूतार्थस्मरणेऽत्र प्रयुज्यते ॥ २४९६ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.158 · p. 171
रचना स्यात् परिस्कन्धो भावना वासना समे ।अथोपकरणं सर्वं परिबर्हः परिच्छदः ॥ १५८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.99 · p. 261
अर्शोघ्नोऽथ करञ्जशस्त्रकभिदोः स्याद्वृश्चिकाल्यां शत-घ्नी चावृद्धबधूपुरप्रसृमरप्रेष्या त्वसिक्नी ध्वनो(?) ।दृष्टौ च व्यस(ध)ने वधेऽप्यभिनये संसूचने सूचनाध्याने लेपन(?)वेदना मतिगता दुःखे तथा भावना ॥ ९९ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1295 · p. 160
द्वयोः स्याद्भावना तु स्त्रीनपोरुत्पादने तथा ।गन्धाधिवासनायां च भाट्टास्तु प्रतिजानते ॥ १२९५ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1296 · p. 160
प्रवर्तनायां भावज्ञः पुनस्त्रीर्भाववेदिनि ।प्रियङ्गुसंज्ञवृक्षे तु भावज्ञा स्त्री द्वयोः पुनः ॥ १२९६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.66 · p. 239
भावना स्यान्न ना ध्यानपर्यालोचाधिवासने ।भुवनं गगणे नीरे पिष्टपे च जनेऽपि च ॥
अनुष्टुप्

भावना as a meaning in nānārtha verses

  • नानार्थार्णवसंक्षेप वासनावासना तु न ना गन्धधूपाद्यैर्भावनाविधौ । तथा निवासयत्यर्थे वस्तेर्हेतुकृतावपि ॥ १६९१ ॥ Nānārthārṇavasaṃkṣepa 4.1691
  • शब्दरत्नावली इःसु भृशार्थे चानुमतौ समृद्धिपूजयोरपि । आः पीडायां स्मृतौ कोपे साटोपतर्जनेऽपि च ॥ इः कोपेऽपि च सन्तापे दुःखभावनयोरपि । निः साकल्ये चोभयार्थे निषेधे निश्चयेऽपि च ॥ दुः गतौ दूषणेऽपि स्याल्लज्जासम्भावनेऽपि च ॥ Śabdaratnāvalī 8.1.59