All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
नानालिङ्गाध्यायः (15/18)
टकसंज्ञे जनपदे वाहिकं तु नपुंसकम् ।तुलासंज्ञोन्मानभेदादृक्षं दशगुणं स्मृतम् ॥ १६८१ ॥
4.1681 · p. 194
अनुष्टुप्
वृद्ध्या दशगुणं तस्मात् स्थितेष्वाचितकादिषु ।अष्टासु परिमाणेषु षट्के स्यात् परिमाणके ॥ १६८२ ॥
4.1682 · p. 194
अनुष्टुप्
वाहकस्तु द्वयोः सर्षप्रभेदेऽजगराह्वये ।ना त्वग्नौ सुनिषण्णाख्यशाके च जलनिर्गमे ॥ १६८३ ॥
4.1683 · p. 194
अनुष्टुप्
भेद्यलिङ्गस्तु वहनकर्माजीवे बुधैः स्मृतः ।वारङ्गस्तु द्वयोर्ज्ञेयः शकुनौ पुंसि तु स्मृतः ॥ १६८४ ॥
4.1684 · p. 194
अनुष्टुप्
खड्गैकदेशे वाराहं पुनः सामसु केषुचित् ।क्लीबं वराहमुनिना पुनर्ग्रन्थे कृते त्रिषु ॥ १६८५ ॥
4.1685 · p. 194
अनुष्टुप्
वराहसम्बन्धिनि च वाराही तु स्त्रियामियम् ।विष्वक्सेनप्रियानामन्योषधौ च लतान्तरे ॥ १६८६ ॥
4.1686 · p. 194
अनुष्टुप्
वाराहकन्दसंज्ञे स्यादन्यस्यां क्वापि चौषधौ ।सप्तानां चैव मातृणामेकस्यामपि मातरि ॥ १६८७ ॥
4.1687 · p. 194
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 तृ (wrong syllable)
वाशु(क?र)स्तु द्वयोर्ज्ञेयः शकुनौ स्त्री तु वाशुरा ।रात्रौ क्लीबं तु वादित्रं वाद्यनिर्घोषवाद्ययोः ॥ १६८८ ॥
4.1688 · p. 194
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 वा (syllables merged)
वदितुस्तु त्रि सम्बन्धिन्यथ स्याद्वादना न ना ।अर्थे वादयतेः क्ली तु वाद्यनिर्घोष ईरितम् ॥ १६८९ ॥
4.1689 · p. 194
अनुष्टुप्
वाद्ये तु वादिकं क्लीबं भेद्यलिङ्गं तु कर्तरि ।अण्यन्तवदतेर्ण्यन्तवदतेः कर्म यः स्मृतः ॥ १६९० ॥
4.1690 · p. 194
अनुष्टुप्
वासना तु न ना गन्धधूपाद्यैर्भावनाविधौ ।तथा निवासयत्यर्थे वस्तेर्हेतुकृतावपि ॥ १६९१ ॥
4.1691 · p. 195
अनुष्टुप्
वासनस्तु पुमान् गेहावयवे बिन्दुसंज्ञके ।वासनासाधने तु त्रि स्त्रीलिङ्गा तु स्मृता बुधैः ॥ १६९२ ॥
4.1692 · p. 195
अनुष्टुप्
वार्धुषिस्त्वृणवृद्धौ स्त्री वृद्ध्याजीवे तु भेद्यवत् ।वारिणिस्तु पशौ द्वे स्यात् पशुवृत्त्यां तु सा स्त्रियाम् ॥ १६९३ ॥
4.1693 · p. 195
अनुष्टुप्
विजयस्तु जये पुंसि तथा मध्यमपाण्डवे ।खड्गे च स्त्री तु विजया हरीतक्यामथ त्रिषु ॥ १६९४ ॥
4.1694 · p. 195
अनुष्टुप्
विबुधो विदुषि द्वे तु देवेऽथो पुन्नपुंसकम् ।विलग्नं मध्यसंज्ञे स्याच्छरीरावयवे त्रि तु ॥ १६९५ ॥
4.1695 · p. 195
अनुष्टुप्
सक्तेऽथ विरलं त्रि स्यादघने विरला त्वियम् ।स्त्रियां गृध्रनखीसंज्ञलताजातावथ स्त्रियाम् ॥ १६९६ ॥
4.1696 · p. 195
अनुष्टुप्
विशल्याग्निशिखानाम्न्यामोषधौ स्यात् तथैव सा ।दन्तिकायां गुडूच्यां च निश्शल्ये त्वभिधेयवत् ॥ १६९७ ॥
4.1697 · p. 195
अनुष्टुप्
विशिखस्तु पुमान् बाणे विशिखा तु स्त्रियामियम् ।रथ्यायां रभसस्त्वेनां खनित्र्यामिति चोक्तवान् ॥ १६९८ ॥
4.1698 · p. 195
अनुष्टुप्
भगवद्यादवोक्तं तु चेतसि क्लीबलिङ्गकम् ।निश्शिखे तु त्रिषु स्त्री तु विशाखा तारकान्तरे ॥ १६९९ ॥
4.1699 · p. 195
अनुष्टुप्
धारासंज्ञे पादपस्यावयवान्तर एव च ।ना तु देवविशेषे स्यात् स्कन्ददेवस्य पृष्ठजे ॥ १७०० ॥
4.1700 · p. 195
अनुष्टुप्
स्कन्ददेवे वदन्त्यन्ये विशाखाकालजे पुनः ।भेद्यवत् स्याद्विषाणा तु पशुशृङ्गेभदन्तयोः ॥ १७०१ ॥
4.1701 · p. 195
अनुष्टुप्
लिङ्गत्रये स्त्रियां तु स्यादजशृङ्गीति विश्रुते ।लताभेदे विषाणीति ङ्यन्ता स्त्री तु विषध्न्यसौ ॥ १७०२ ॥
4.1702 · p. 195
अनुष्टुप्
गुलूच्यां वृश्चिकाल्यां च भार्ङ्गीनाम्नि च भेषजे ।त्रिवृतासंज्ञवल्ल्यां च शिरीषे तु पुमानयम् ॥ १७०३ ॥
4.1703 · p. 196
अनुष्टुप्
श्लेष्मातकाख्ये च तरौ विषघ्नस्त्रि तु हन्तरि ।अमनुष्ये विषस्य स्याद् विनयस्तु शमे भवेत् ॥ १७०४ ॥
4.1704 · p. 196
अनुष्टुप्
त्रि तु वीतनये स्त्री तु बलायां विनयाथ सः ।विहणो भेद्यलिङ्गः स्याच्छठे स तु नृलिङ्गकः ॥ १७०५ ॥
4.1705 · p. 196
अनुष्टुप्
ऋषिभेदे भवेन्ना तु विपक्षः शात्रवे तथा ।पक्षिपक्षे भेद्यवत् तु वीतपक्षे पुमान् पुनः ॥ १७०६ ॥
4.1706 · p. 196
अनुष्टुप्
वितर्क आशङ्कायां स्याद् वीततर्के तु भेद्यवत् ।विपिनं क्ली वने हर्षनन्दी तु विवृणोत्यदः ॥ १७०७ ॥
4.1707 · p. 196
अनुष्टुप्
जलदुर्गे भेघवत् तु गहने विप्रियं तु नप् ।अपराधे भेद्यवत् तु विज्ञेयं विगतप्रिये ॥ १७०८ ॥
4.1708 · p. 196
अनुष्टुप्
विष्किरस्तु द्वयोः पक्षिमात्रे कुक्कुटपक्षिणि ।मयूरे च विरागस्तु वैराग्ये ना त्रिषु त्वयन् ॥ १७०९ ॥
4.1709 · p. 196
अनुष्टुप्
वीतरागे विषादस्तु विषस्यात्तरि भेद्यवत् ।चित्तावसादे तु पुमान् विश्वस्ता तु स्त्रियामियम् ॥ १७१० ॥
4.1710 · p. 196
अनुष्टुप्
विधवायां शाश्वतस्तु त्रिषु विश्वासयोग्यके ।विपन्नस्तु द्वयोः सर्पे भेद्यवत् तु विपद्गते ॥ १७११ ॥
4.1711 · p. 196
अनुष्टुप्
अथो वितुन्नमानूपशाकस्तम्बे नपुंसकम् ।सुनिषण्णाह्वये तुत्थाञ्जनाख्ये चाञ्जनान्तरे ॥ १७१२ ॥
4.1712 · p. 196
अनुष्टुप्
तामलक्यां तु ना ना तु विदण्डो मार्गरोधिनि ।अर्गलासंज्ञकाष्ठे च वीतदण्डे तु भेद्यवत् ॥ १७१३ ॥
4.1713 · p. 196
अनुष्टुप्
विलेपस्तु पुमाञ्ज्ञेयः स्यात् क्रियायां विलिम्पतेः ।तथानुलेपनद्रव्ये विलेपी तु स्त्रियामियम् ॥ १७१४ ॥
4.1714 · p. 197
अनुष्टुप्
घनद्रवायां विज्ञेया यवाग्वामथ सा स्त्रियाम् ।घनद्रवयवाग्वां स्याद् विलेप्या भेद्यवत् पुनः ॥ १७१५ ॥
4.1715 · p. 197
अनुष्टुप्
विलेप्तव्ये विशेषस्तु ना भेदेऽतिशये त्रि तु ।वीतशेषे पक्षिमात्रशेषेऽप्यथ नृभूमनि ॥ १७१६ ॥
4.1716 · p. 197
अनुष्टुप्
विदेहास्तीरभुक्त्याख्यनीवृद्भेदे त्रिषु त्वयम् ।वीतदेहे विद्रुतं तु क्लीबं विद्रवणे त्रि तु ॥ १७१७ ॥
4.1717 · p. 197
अनुष्टुप्
पलायिते विलीने च विकृतं तु नपुंसकम् ।वैजयन्त्यां तु पुंस्याह बीभत्साख्ये रसे त्रि तु ॥ १७१८ ॥
4.1718 · p. 197
अनुष्टुप्
तद्वत्यर्थे पक्षिकृतविकारापन्नयोरपि ।तथा वीतकृतेऽपि स्याद् रोगिदूरूपयोरपि ॥ १७१९ ॥
4.1719 · p. 197
अनुष्टुप्
नानाविधक्रिये चाथ क्लीबं नानाविधे कृते ।विकृतौ चोचितस्यापि लज्जादिभिरभाषणे ॥ १७२० ॥
4.1720 · p. 197
अनुष्टुप्
स्त्रीणां भावप्रभेदेऽथ विभ्रमः संशये पुमान् ।शृङ्गारचेष्टाभेदे च द्राग्विपर्यासरूपके ॥ १७२१ ॥
4.1721 · p. 197
अनुष्टुप्
शोभायामपि च भ्रान्तौ वेर्भ्रमे च त्रिषु त्वयम् ।वीतभ्रमे विग्रहस्तु विस्तारे युद्धदेहयोः ॥ १७२२ ॥
4.1722 · p. 197
अनुष्टुप्
वेर्ग्रहे चाजयस्त्वाह विस्तारात् पृथगेव वै ।वाक्यप्रभेदेऽप्येतत् तु केचिन्नेच्छन्ति सूरयः ॥ १७२३ ॥
4.1723 · p. 197
अनुष्टुप्
विस्तारेण गतार्थत्वात् त्रि तु स्याद्विगतग्रहे ।विभूतिस्तु स्त्रियामूतौ विभोरैश्वर्यसम्पदोः ॥ १७२४ ॥
4.1724 · p. 197
अनुष्टुप्
भेद्यलिङ्गा तु कथिता शब्दागमविचक्षणैः ।वीतभूतौ विभक्तिस्तु स्त्री विभागेऽपि सुप्तिङोः ॥ १७२५ ॥
4.1725 · p. 197
अनुष्टुप्
प्राग्दिशीयप्रत्यये च वीतभक्तौ तु भेद्यवत् ।विट्पतिस्तु द्वयोर्देवे ना तु जामातरि त्रि तु ॥ १७२६ ॥
4.1726 · p. 198
अनुष्टुप्
विशां पत्यौ विधाता तु विरिञ्चे (तु ? ना) त्रिषु त्वयम् ।कर्तृमेधाविनोः स्यात् तु विषुवन्नृनपोरयम् ॥ १७२७ ॥
4.1727 · p. 198
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
समरात्रिन्दिवे काले क्रतुभेदे तु पुंस्ययम् ।विवस्वांस्तु पुमान् सूर्ये द्वे तु देवे नरेऽपि च ॥ १७२८ ॥
4.1728 · p. 198
अनुष्टुप्
वायुदिग्गजहस्तिन्यां पुनः स्त्री स्याद्विवस्वती ।विश्वात्मा तु पुमान् सूर्ये विरिञ्चेऽप्यथ भेद्यवत् ॥ १७२९ ॥
4.1729 · p. 198
अनुष्टुप्
बहुव्रीहौ विजन्मा तु मर्त्यजात्यन्तरे द्वयोः ।शूद्रपूर्वकवैश्यायां व्रात्याज्जाते त्रिषु त्वयम् ॥ १७३० ॥
4.1730 · p. 198
अनुष्टुप्
(सूर्ये ?) जन्मन्यथो पुंसि विरोधी शात्रवे त्रि तु ।विरोद्धरि विपाकी तु यवक्षारे पुमांस्त्रि तु ॥ १७३१ ॥
4.1731 · p. 198
अनुष्टुप्metre not read in every line
विपाकवति ना तु स्याद् विषाणी वृषभे गजे ।विषाणवति तु त्रि स्याद् विषयी तु महीपतौ ॥ १७३२ ॥
4.1732 · p. 198
अनुष्टुप्
विषयस्थजने पुंसि मन्मथेऽप्यथ भेद्यवत् ।विज्ञेयो विषयोपेते ब्रूते त्वजय ईदृशम् ॥ १७३३ ॥
4.1733 · p. 198
अनुष्टुप्
विषयासक्तपुरुष इति न त्विन्द्रियेऽथ ना ।विधर्मा ह्यहिते हर्षनन्दी त्वाह महामतिः ॥ १७३४ ॥
4.1734 · p. 198
अनुष्टुप्
व्यतीचार इति त्रिस्तु भवेद्विगतधर्मके ।सामप्रभेदे तु क्लीबं पुन्नपुंसकयोः पुनः ॥ १७३५ ॥
4.1735 · p. 198
अनुष्टुप्
विहाया वियति द्वे तु विहगे महति त्रिषु ।स्तेने च ना तु वीरोज्झो योऽग्निहोत्रं स्वयं नहि ॥ १७३६ ॥
4.1736 · p. 198
अनुष्टुप्
अग्निहोत्री जुहोत्यब्दं तञ्मिन्(?) वीरस्य तूज्झके ।भेद्यवद्वीरहा तु स्यादुत्सन्नाग्न्यग्निहोत्रिणि ॥ १७३७ ॥
4.1737 · p. 199
अनुष्टुप्
पुमांस्त्रिषु तु वीरस्य हन्तरि स्यादथ द्वयोः ।वृषलो (द्वे ? ऽश्वे) भवेच्छूद्रे वृषभे तु पुमांस्त्रि तु ॥ १७३८ ॥
4.1738 · p. 199
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्याल्लातरि वृषार्थस्य वृजिनं तु बले नपि ।पापे च ना तु केशे स्यात् कुटिले त्वभिधेयवत् ॥ १७३९ ॥
4.1739 · p. 199
अनुष्टुप्
वृश्चिकस्तु द्वयोः क्षुद्रजन्तौ द्रुण इति श्रुते ।पुच्छकण्टकसंयुक्ते तथा स्याच्छूककीटके ॥ १७४० ॥
4.1740 · p. 199
अनुष्टुप्
स्त्रीपुंसयोस्तु खर्जूरसंज्ञके विपकीटके ।द्राघिष्ठे वृश्चिका ना तु राशिभेदेऽपि चाष्टमे ॥ १७४१ ॥
4.1741 · p. 199
अनुष्टुप्
भौमाय सूर्यदत्ते स्याद् या तु श्वेता पुनर्नवा ।तस्यां च वेदना तु स्याज्ज्ञानेऽनुभवपीडयोः ॥ १७४२ ॥
4.1742 · p. 199
अनुष्टुप्
अना क्लीबं तु सत्तायां भवेल्लाभविचारयोः ।वेणुकं गजतोत्रे क्ली वेणुका तु स्त्रियामियम् ॥ १७४३ ॥
4.1743 · p. 199
अनुष्टुप्
वाद्यभेदे वंशसंज्ञे मर्त्यजात्यन्तरे पुनः ।द्वे निषादीक्षत्त्रियजे वेजनस्तु पुमानयम् ॥ १७४४ ॥
4.1744 · p. 199
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 क्ष (wrong syllable)
भवेत् सप्तदशारत्नेर्यूपस्यारत्निके तथा ।मूलात् सप्तदशे क्ली तु भये च चलनेऽपि च ॥ १७४५ ॥
4.1745 · p. 199
अनुष्टुप्
अना तु वेजयत्यर्थे वेधकं तु नपुंसकम् ।लवणे सैन्धवाभिख्ये त्रि तु व्यद्धरि नप् पुनः ॥ १७४६ ॥
4.1746 · p. 199
अनुष्टुप्
वेधनं व्यधने स्त्री तु वेधनी या तु विश्रुता ।आस्फोटनीति तत्र स्याद् वेत्रवांस्त्वभिधेयवत् ॥ १७४७ ॥
4.1747 · p. 199
अनुष्टुप्
वेत्रयुक्ते वेत्रवती पुनः स्त्री निम्नगान्तरे ।वैदर्भी तू स्त्रियां काव्यरीतिभेदे दुरालभा ॥ १७४८ ॥
4.1748 · p. 200
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वे (wrong syllable)
इति प्रतीतस्तम्बे च वैदर्भं त्वभिधेयवत् ।विदर्भदेशसम्बन्धे वैदेही तु स्त्रियामियम् ॥ १७४९ ॥
4.1749 · p. 200
अनुष्टुप्
रोचनायामपि प्राह रभसः शब्दवित्तमः ।मैथिल्यामपि पिप्पल्यां स्याद्विदेहनृपे तु ना ॥ १७५० ॥
4.1750 · p. 200
अनुष्टुप्
मर्त्यजात्यन्तरे तु द्वे वैश्यायां शूद्रजे तथा ।ब्राह्मण्यां वैश्यजाते च वैतसस्तु पुमानयम् ॥ १७५१ ॥
4.1751 · p. 200
अनुष्टुप्
स्यात् पुंस्प्रजनने त्रिस्तु विकारे वेतसस्य हि ।वैदिकस्तु पुमान् ब्रह्मचारिणि स्यादधीतवान् ॥ १७५२ ॥
4.1752 · p. 200
अनुष्टुप्
यो वेदं तत्र वेदे तु भवे स्याद्भेद्यलिङ्गकः ।वैशाखस्तु पुमान् मन्थदण्डे माधवमासि च ॥ १७५३ ॥
4.1753 · p. 200
अनुष्टुप्
अस्त्री तु धानुष्काणां स्यात् स्थितिभेदे स चेदृशः ।त्रिवितस्त्यन्तरौ पादौ यत्र तत्र स्त्रियां पुनः ॥ १७५४ ॥
4.1754 · p. 200
अनुष्टुप्
पौर्णमास्यां विशाखाख्यनक्षत्रयुजि सा तथा ।गजस्य पूर्वपादस्य नखादूर्ध्वं हि सप्तधा ॥ १७५५ ॥
4.1755 · p. 200
अनुष्टुप्
कृतस्योर्ध्वस्थभागे च भेद्यलिङ्गं तु वैष्णवम् ।विष्णुभक्ते तथा विष्णुदेवते विष्णुयोगिनि ॥ १७५६ ॥
4.1756 · p. 200
अनुष्टुप्
ना तु सप्तदशारत्नेर्यूपस्यारभ्य मूलतः ।ज्ञेयस्त्रयोदशेऽरत्नौ वैष्णवी तु स्त्रियामियम् ॥ १७५७ ॥
4.1757 · p. 200
अनुष्टुप्
सप्तानामपि मातृणामेकस्यां स्यात् तथैव सा ।नवानां विष्णुशक्तीनामेकस्यामपि नप् पुनः ॥ १७५८ ॥
4.1758 · p. 200
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 तृ (wrong syllable)
तवाहंसोमवर्गस्य साम्नोः प्रथमयोः स्मृतम् ।वैणवस्तु द्वयोर्मर्त्यजातिभेदे यदुद्भवः ॥ १७५९ ॥
4.1759 · p. 200
अनुष्टुप्
ब्राह्मण्यां तत्र माहिष्यात् त्रिस्तु वेणुविकारके ।क्ली तु स्वर्णविशेषे स्याद् वेणूतटसमुद्भवे ॥ १७६० ॥
4.1760 · p. 201
अनुष्टुप्
कर्णिकारंप्रभेऽथो ना शम्बरो गिरिमेघयोः ।दैत्यभेदे च विज्ञेयो यो बिभर्त्युरसा स्त्रियम् ॥ १७६१ ॥
4.1761 · p. 201
अनुष्टुप्
द्वे तु स्यान्मृगभेदेऽल्पहरिणे मत्स्य एव च ।क्लीबं तु सलिले बौद्धव्रतभेदे बलेऽप्यथ ॥ १७६२ ॥
4.1762 · p. 201
अनुष्टुप्
शबरो मर्त्यजातेर्द्वे प्रभेदे यस्य सम्भवः ।शूद्राद्भिल्लस्त्रियां स्त्री तु शबरी तापसस्त्रियाम् ॥ १७६३ ॥
4.1763 · p. 201
अनुष्टुप्
रामायणप्रसिद्धायां पुल्लिँङ्गस्तु महेश्वरे ।नपुंसकं तु सलिले शबलस्तु नृलिङ्गकः ॥ १७६४ ॥
4.1764 · p. 201
अनुष्टुप्
चित्रवर्णवृषे चित्रवर्णे च त्रि तु तद्वति ।शवली तु स्त्रियां चित्रवर्णगव्यामथ द्वयोः ॥ १७६५ ॥
4.1765 · p. 201
अनुष्टुप्
शफरो मत्स्यभेदे स्यात् प्रोष्ठीसंज्ञे स्त्रियां पुनः ।शफरी वृक्षभेदे स्यादश्मन्तक इति श्रुते ॥ १७६६ ॥
4.1766 · p. 201
अनुष्टुप्
शलली नप्स्त्रियोः श्वाविल्लोम्नि श्वाविधि तु द्वयोः ।शण्डिलस्त्वृषिभेदे ना पार्वत्यां शण्डिली स्त्रियाम् ॥ १७६७ ॥
4.1767 · p. 201
अनुष्टुप्
जलशुक्तौ तु शम्बूको द्वे शम्बूका तु सा स्त्रियाम् ।गजस्य मुखमध्यस्य पार्श्वाधोदेशयोरथ ॥ १७६८ ॥
4.1768 · p. 201
अनुष्टुप्
ना सूक्ष्मे तण्डुलकणे तण्डुलस्य मलेऽपि च ।शल्यकस्तु पुमाञ्छ्वेतखदिरे कदराह्वये ॥ १७६९ ॥
4.1769 · p. 201
अनुष्टुप्
शल्यकी तु द्वयोर्ज्ञेया मृगभेदेऽथ शस्त्रकः ।पुंसि स्याट्टङ्कणक्षारे क्ली त्वयस्यथ स द्वयोः ॥ १७७० ॥
4.1770 · p. 201
अनुष्टुप्
शरभः सिंहशत्रौ स्यादष्टपात्संज्ञके मृगे ।मृगान्तरे च रभसः करभे चोक्तवानमुम् ॥ १७७१ ॥
4.1771 · p. 201
अनुष्टुप्
स्त्रियां तु शरभा कन्यास्वविवाह्यासु कुत्रचित् ।विशीर्णाङ्ग्यां द्वयोस्तु स्याच्छकुलो मत्स्यभेदके ॥ १७७२ ॥
4.1772 · p. 202
अनुष्टुप्
स्त्री तु कूश्माण्डवल्ल्यां स्याच्छकुला शमनस्तु ना ।यमे क्लीबं तु शान्तौ स्यादना तु शमना भवेत् ॥ १७७३ ॥
4.1773 · p. 202
अनुष्टुप्
वधेऽपि शमयत्यर्थे त्रि तु स्याच्छान्तिसाधने ।श्वसनस्तु पुमान् वायौ मदनाख्ये च पादपे ॥ १७७४ ॥
4.1774 · p. 202
अनुष्टुप्
क्ली तु श्वासक्रियायां स्याच्छ्वपचस्तु द्वयोरयम् ।मर्त्यजात्यन्तरे विप्राचण्डालप्रभवे तथा ॥ १७७५ ॥
4.1775 · p. 202
अनुष्टुप्
निष्ठ्यादनन्यपूर्वायां किरात्यां जनिते त्रि तु ।शुनः पक्तर्यथ द्वे स्याच्छ्वपाको मनुजान्तरे ॥ १७७६ ॥
4.1776 · p. 202
अनुष्टुप्
विप्र्यामम्बष्ठजे क्षत्तुर्जाते चोग्रस्त्रियामथ ।उग्रात् क्षत्त्रस्त्रियां जात इति केचित् पुमान् पुनः ॥ १७७७ ॥
4.1777 · p. 202
अनुष्टुप्
शुनः पाके पुमांस्तु स्याच्छ्वशुरो जनके भवेत् ।भार्या(मातरि ? या अपि) पत्युश्च रभसस्त्वत्र भाषते ॥ १७७८ ॥
4.1778 · p. 202
अनुष्टुप्metre not read in every line
स्त्रीलिङ्गा श्वशुरा ब्राह्म्यामित्येवं शब्दकोविदः ।देवरे तु श्वशुर्यो ना द्वे तु स्याले पुमान् पुनः ॥ १७७९ ॥
4.1779 · p. 202
अनुष्टुप्
शशाङ्के शयुनः स्वप्ने द्वयोस्त्वजगरेऽथ ना ।प्रदोषे शयथो मृत्यौ मत्स्ये त्वजगरे द्वयोः ॥ १७८० ॥
4.1780 · p. 202
अनुष्टुप्
भेद्यलिङ्गस्तु निद्रालौ शयनं तु नृशण्डयोः ।शय्यायां क्ली तु सुरते सावेशे शरठं तु नप् ॥ १७८१ ॥
4.1781 · p. 202
अनुष्टुप्
आयुधे चैव चापे च क्रीडाशीले तु भेद्यवत् ।शकलस्त्वृषिभेदे ना खण्डे तु नरशण्डयोः ॥ १७८२ ॥
4.1782 · p. 202
अनुष्टुप्
रागद्रव्यविशेषे च वल्कलेऽप्यथ भेद्यवत् ।शकलो मूर्खधनिनोर्नीवृद्भेदे नृभूमनि ॥ १७८३ ॥
4.1783 · p. 202
अनुष्टुप्
शकुटस्तु पुमाञ्छाकस्तम्बभेदे स्त्रियां पुनः ।हस्तिनः पश्चिमं भागं विभज्य दशधोर्ध्वतः ॥ १७८४ ॥
4.1784 · p. 203
अनुष्टुप्
आरभ्य पञ्चमे भागे शकुटाथ शकोटवाक् ।बाहौ ना भेद्यवच्छक्ते शताङ्गस्तु रथे पुमान् ॥ १७८५ ॥
4.1785 · p. 203
अनुष्टुप्
पूर्ववत् स्यात् समासादि श्रपणा तु न पुंस्यसौ ।धातोः श्रपयतेरर्थे श्रपणी तु स्त्रियामियम् ॥ १७८६ ॥
4.1786 · p. 203
अनुष्टुप्
स्यात् स्रुग्विशेषेऽग्निहोत्रहवणीसंज्ञकेऽथ नप् ।श्रान्तौ स्याच्छ्रमणं स्त्री तु श्रमणी मुण्डिकाह्वये ॥ १७८७ ॥
4.1787 · p. 203
अनुष्टुप्
भैषज्यस्तम्बभेदे स्याद् रभसस्त्वाह शब्दवित् ।दध्याल्याख्यलतायां च द्वे तु क्षपणकेऽथ नप् ॥ १७८८ ॥
4.1788 · p. 203
अनुष्टुप्
श्रवणं स्याच्छृणोत्यर्थे श्रोत्रे चाथ नृलिङ्गकः ।विष्णुदेवतनक्षत्रे तद्युक्ते कालमात्रके ॥ १७८९ ॥
4.1789 · p. 203
अनुष्टुप्
श्रवणा तु स्त्रियां रात्रिविशेषे पूर्णिमान्तरे ।प्राणिभेदे पुनर्द्वे स्याच्छ्रविष्ठा तु स्त्रियामियम् ॥ १७९० ॥
4.1790 · p. 203
अनुष्टुप्
वसुदेवतनक्षत्रे तद्युक्ते कालमात्रके ।जाते तु तत्र त्रिरथो शत्रुघ्नो ना कनीयसि ॥ १७९१ ॥
4.1791 · p. 203
अनुष्टुप्
काकुत्स्थस्य सुमित्राजे त्रिस्तु शत्रोर्निहन्तरि ।शर्वरो ना महादेवे चन्द्रे च तमसि त्वदः ॥ १७९२ ॥
4.1792 · p. 203
अनुष्टुप्
क्ली स्त्री तु शर्वरी रात्रौ सन्ध्यायामपि योषिति ।अथ स्त्री शमिता चूर्णे गोधूमस्येति यादवः ॥ १७९३ ॥
4.1793 · p. 203
अनुष्टुप्
असाध्विव तदाभाति शब्दज्ञानां यदग्रणीः ।गोधूमचूर्णे समिधं धान्तं पुल्लिँङ्गमुक्तवान् ॥ १७९४ ॥
4.1794 · p. 203
अनुष्टुप्
शाकटायन आचार्यस्तस्यापभ्रंश इत्ययम् ।भासते सापि साध्वी चेदीप्स्ये शमयतेस्त्रिषु ॥ १७९५ ॥
4.1795 · p. 203
अनुष्टुप्
शकुन्तस्तु द्वयोः पक्षिमात्रे भासाख्यपक्षिणि ।शकुनस्तु विहङ्गे द्वे पुंसि त्वजय उक्तवान् ॥ १७९६ ॥
4.1796 · p. 204
अनुष्टुप्
मित्रे क्ली तु निमित्ताख्ये शुभादेः सूचकेऽथ ना ।शकुनिर्धृतराष्ट्रस्य पक्ष्ये पूर्वनृपान्तरे ॥ १७९७ ॥
4.1797 · p. 204
अनुष्टुप्
द्वे तु पक्षिणि चिल्लाख्ये पक्षिमात्रेऽप्यथ द्वयोः ।शयालुः क्रोष्टरि त्रिस्तु निद्रालावथ पुंस्ययम् ॥ १७९८ ॥
4.1798 · p. 204
अनुष्टुप्
उदुम्बरद्रुमे ज्ञेयः शयालुरपरे पुनः ।वृक्षावयवभेदे च क्ली तूदुम्बरजे फले ॥ १७९९ ॥
4.1799 · p. 204
अनुष्टुप्
गन्धद्रव्यविशेषे च फले त्वामे त्रि शाखिनाम् ।श्रद्धालुस्तु त्रिषु श्रद्धाशीले स्त्रीलिङ्गवाक् पुनः ॥ १८०० ॥
4.1800 · p. 204
अनुष्टुप्