कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वासना

vāsanāस्त्री · fem.

In 9 kośas: 7 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1373 · p. 52
वासना भावना संस्कारोऽनुभूताद्यविस्मृतिः ॥ १३७३ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह धीवर्गः Amarakośa 1.5.2
विमर्शो भावना चैव वासना च निगद्यते ॥ २ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.780 · p. 89
उपजापो भवेद्भेदः साम सान्त्वमिति स्मृतम् ।तथेति प्रत्ययः श्रद्धा संस्कारो वासना स्मृता ॥ ७८० ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.5 · p. 53
उपज्ञा ज्ञानमाद्यं स्याद्वासना-भावने स्त्रियौ ।अनुभूताविस्मृतिः स्यात्संस्कारो नाथ निर्णयः ॥ ५ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.264 · p. 85
आरेकद्वापरे तुल्ये संख्योहा चर्चया सह ।आद्यज्ञानमुपज्ञा स्यात्संस्कारो वासना मता ॥ २६४ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2496 · p. 404
पूर्वाऽनुभूतस्मरणे वासना भावना भवेत् ।संस्कारोऽप्यनुभूतार्थस्मरणेऽत्र प्रयुज्यते ॥ २४९६ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.158 · p. 171
रचना स्यात् परिस्कन्धो भावना वासना समे ।अथोपकरणं सर्वं परिबर्हः परिच्छदः ॥ १५८ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1691 · p. 195
वासना तु न ना गन्धधूपाद्यैर्भावनाविधौ ।तथा निवासयत्यर्थे वस्तेर्हेतुकृतावपि ॥ १६९१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.75 · p. 241
वासनं वसने वारिधान्यां धूपनवासयोः ।क्लीबं स्त्रियान्तु प्रत्याशाज्ञानयोरपि वासना ॥
अनुष्टुप्