कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

चेतना

cetanāस्त्री · fem.

In 15 kośas: 15 synonym verses, 3 as a nānārtha head word, 10 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.309 · p. 16
मतिर्मनीषा बुद्धिर्धीर्धिषणाज्ञप्तिचेतनाः ॥ ३०८ ॥प्रतिभाप्रतिपत्प्रज्ञाप्रेक्षाचिदुपलब्धयः ।संवित्तिः शेमुषी दृष्टिः सा मेधा धारणक्षमा ॥ ३०९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह धीवर्गः Amarakośa 1.5.1
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षष्ठोपदेशः Bālaprabodhikā 6.87 · p. 74
बुद्धिर्मनीषा धिषणा चेतना शेमुषी मतिः ।विदा बुधा धीख्याती च ज्ञप्तिसंवित्तिरित्यपि ॥ ८७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.142 · p. 432
मनीषा धिषणा श्रीश्चिच्चेतना शेमुषी चिदा ।प्रज्ञा संज्ञा चितिर्द्धामा विज्ञानं ज्ञानमित्यपि ॥ १४२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.1 · p. 52
बुद्धिः श्रद्धा प्रतिपदपि चिच्चेतना चोपलब्धिर्-ज्ञप्तिः प्रज्ञा भवति धिषणा शेमुषी धीर्मनीषा ।प्रेक्षा दृष्टिर्मतिरपि धरा वेदना विच्च संवित्प्रज्ञानं तु स्फुरति चरमेऽथाऽव्ययं स्याद्विषा च ॥ १ ॥
मन्दाक्रान्ता
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.51 · p. 164
* * * * * * * * * धुरा शृङ्गरीटिका ।ऋद्धिः सिद्धिस्तुष्टिराशीश्चेतना च यशस्विनी ॥ ५१ ॥
metre not recognised
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.58 · p. 101
ह्रादिनी स्वेदनी कर्तनी काकिनीदामनी शिञ्जिनी वर्तनी कामिनी ।नीलिनी मालिनी चेतना भावनासामिधेनी तथा मातुलानी भवेत् ॥ ५८ ॥
स्रग्विणी
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.205 · p. 30
बुद्धिः प्रज्ञा मतिर्मेधा मनीषा धिषणा च धीः ।चेतना प्रतिभा ज्ञप्तिशेमुषीदृष्टयस्तथा ॥ २०५ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.136 · p. 33
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.454 · p. 57
ज्ञप्तिश्चित् चेतना प्रज्ञा प्रेक्षा च प्रतिभा तथा ।उपलब्धिश्च संवित्तिः दृष्टिश्च शेमुषी तथा ॥ ४५४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.316 · p. 22
बुद्धि प्रज्ञा मनीषा धीः शेमुषी धिषणा मतिः ।चित् सम्बित् चेतना प्रेक्षा संज्ञोपलब्धिरात्मजा ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.120 · p. 187
शमथोऽप्यथ रोमाञ्चे पुलकः पुलसंयुतः ।बाष्पेऽश्वस्रू अस्रमश्रं, चित् तान्ता चेतना मतौ ॥ १२० ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.264 · p. 36
चेतश्चित्तं हृदयमनसी स्वान्तहृन्मानसानिप्रज्ञा बुद्धिः प्रतिपदुपलब्धिः प्रतीतिर्मनीषा ।दृष्टिः संविच्चिदपि धिषणा चेतना शेमुषी धी-र्ज्ञप्तिः प्रेक्षा मतिरपि गतव्यापिनी धीः स्मृतिः स्यात् ॥ २६४ ॥
मन्दाक्रान्ता
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1476 · p. 178
ऋद्धिराश्वासना सिद्धिर्जीवनी चेतना लघुः ।प्राणदा बोधना लक्ष्मीः सुवृद्धिस्तु तदर्थकाः(थिका?) ।रोमाह्वया लता रोमा तरुणी बस्तगन्धिका ॥ १४७६ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.163 · p. 96
महांस्तु लैंगिको ब्रह्मा लिंगज्येष्ठश्च चेतना ।मनीषा शेमुषी बुद्धिर्धीः पूः ख्यातिर्विदा बुधा ॥ १६३ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.37 · p. 115
चेतनो ज्ञानवान्प्राणी चेतना बुद्धिरिष्यते ।गायनो मुखरे प्रोक्तो गीतोपजीवकेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.1 · p. 261
ईर्ष्यायां कुहना च दम्भचरणेऽथो पूतना राक्षसी-भेदे किं च हरीतकीभिदि विदि त्वाहुः स्त्रियां चेतनाम् ।वाच्ये[20a]प्राणिनि सा मताथ पृतना स्यात्सैन्यमात्रे चमू-भेदे चाथ वराङ्गनासु ललना जिह्वाशिराभेदयोः ।स्त्रियां प्रसन्ना मदिरासु वाच्येप्रसादयुक्तेऽथ फणिज्जमल्ल्योः ।कम्पिल्लके च प्रमदासलिङ्गंश्लेष्मघ्नमुक्तं कफहृत्सुभेद्ये ॥ १ ॥
शार्दूलविक्रीडितम्two metres in one verse
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.55 · p. 237
ग्रावा स्यात्पुंसि पाषाणे दृढे पृथ्वीधरेऽपि च ।गृञ्जनो ना रसोने स्त्री निषाक्तपशुमांसके ॥गोस्तनो ना हारभेदे द्राक्षायां स्त्री च गोस्तनी ।गोमी पुंसि जम्बुके स्याद्गोमत्युपासके त्रिषु ॥चलनं भ्रमणे कम्पे क्लीबं कम्पयुते त्रिषु ।चलनी वस्त्रविधिन्यां वारीभेदे च कुत्रचित् ॥चक्री काककुलालाजग्रामजालिकसूचके ।सर्पे तैलिकभेदे स्याद्वासुदेवे च पुंस्ययम् ॥चर्मी भृङ्गरिटौ भूर्जे मोचाफलकहस्तयोः ।चर्म क्लीबन्तु फलके कृत्तौ त्वचि तु कुत्रचित् ॥चेतनो वाच्यवत् प्राणयुक्ते च संविदि स्त्रियाम् ।छर्दनं वमने क्लीबं पुंसि निम्बेऽप्यलम्बुषे ॥छदनं चलने पक्षे पिधानेऽपि नपुंसकम् ।छेदनन्तु द्विधा कार्ये कर्त्रनेऽपि च न द्वयोः ॥जवनस्तु रये वेगिहये वेगवति त्रिषु ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 सि (wrong syllable); pāda 4, syllable 3 त्यु (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)

चेतना as a meaning in nānārtha verses