कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

यदि

yadiअ · indecl.

In 10 kośas: 10 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य अव्ययवर्गः Abhidhānacintāmaṇi 7.30 · p. 58
ननुच स्याद्विरोधोक्तौ पक्षान्तरे तु चेद्यदि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)
genderअindecl.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह अव्ययवर्गः Amarakośa 3.4.21
पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम् ।
अनुष्टुप्
genderअindecl.
कल्पद्रुकोशः Kalpadrukośa · केशव अव्ययप्रकाण्डः Kalpadrukośa 3.4.16 · p. 459
पक्षान्तरे तु यदि चेदद्धा तत्त्वेञ्जसापि च ।प्राकाश्ये प्रादुराविः स्याद्विरोधोक्तौ ननु स्मृतम् ॥ १६ ॥
अनुष्टुप्
genderअindecl.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.20 · p. 121
यत्रैवानवक्लृप्तौ स्तो यदि चेत्त्वन्यपक्षके ।तत्त्वे त्वद्धाञ्जसा चान्यतरस्यां च विभाषिते ॥ २० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
genderअindecl.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अव्ययप्रकरणम् Suśīlanāmamālā 8.2807 · p. 458
अस्ति सत्त्वे तथा दुष्ठु निन्दने हि निगद्यते ।स्यान्ननुच विरोधोक्तौ पक्षान्तरे तु चेद्यदि ॥ २८०७ ॥
अनुष्टुप्metre not read in every line
genderअindecl.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश एकार्थवर्गः Śabdaratnāvalī 8.2.12 · p. 306
स्वाहा स्वधा वषट् वौषट् श्रोषट् दावे दिवौकसाम् ।मनाक् किञ्चिदीषदल्पे स्यादहो ही च विस्मये ॥जन्मान्तरेऽपि च प्रेत्यामुत्र चेति द्वयं भवेत् ।साम्ये यथा तथा चैवं वद्वा स्यादेव चेत्यपि ॥स्थाने च साम्प्रतं युक्ते सद्यः सपदि तत्क्षणे ।शं जोषमुपजोषञ्च शुभं दिष्ट्याभिनन्दने ॥भवेन्मध्ये च त्रितयं अन्तरेणान्तरान्तरे ।प्रसह्य तु बलात्कारे भवेत्पक्षान्तरे यदि ॥निषेधे मास्म मालं स्यादभावे नह्यनो नना ।अद्धाऽञ्जसा च सत्ये स्यात्प्रासाद्धवाचिः (?) प्रकाशिते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ञ्चि (wrong syllable)nearly अनुष्टुप्
genderअindecl.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.103 · p. 258
नुवै नु नुकं किंस्वित् स्विदाऽहोस्विदुताहो च ।आ हौ, हेतौ यद्यतो येन यदि तेन च तत् ततः ॥ १०३ ॥
अनुष्टुप्metre not read in every line
genderअindecl.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अव्ययाध्यायः Śabdaratnākara 6.2299 · p. 279
नह्य नो नाप्यभावेऽथ शीघ्रेऽरं स्वयमात्मना ।पक्षान्तरे चेद्यदि चाभीक्ष्णं शश्वदनारते ॥ २२९९ ॥
अनुष्टुप्
genderअindecl.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव अव्ययवर्गः Trikāṇḍaśeṣa 3.4.5 · p. 265
अस्त्याह कालसामान्ये तिङन्तप्रतिरूपकम् ।सज्जं सहार्थे नेत्याह निषेधे यदि शेषगीः ॥ ५ ॥
अनुष्टुप्
genderअindecl.
वैजयन्ती Vaijayantī · यादवप्रकाश अव्ययपर्यायाध्यायः Vaijayantī 8.8.14 · p. 288
मतप्रदाने यदि चेद्यथास्वं तु यथायथम् ।युक्ते स्थाने रुषोक्ताबूम्बहिर्बाह्ये नमो नतौ ॥ १४ ॥
अनुष्टुप्
genderअindecl.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नानार्थवर्गः Śabdaratnāvalī 8.1.37 · p. 302
तदप्रकाशे विभागे च शक्तौ प्राधान्यबन्धयोः ।भावे मोक्षे च लाभे च स्यादाबद्धोर्द्ध्वकर्मणोः (?) ॥यद्गर्हायामधृतौ च हेतावपि निगद्यते ।यदि स्यात्तु विगर्हायां विकल्पे विस्मयेपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्nearly अनुष्टुप्: pāda 1, syllable 6 धृ (wrong syllable)