विकल्प
vikalpaपुं · masc.In 12 kośas: 7 synonym verses, 3 as a nānārtha head word, 26 as a meaning of another word.
genderपुंmasc.
शङ्का वितर्कः सन्देहः संशयारेकविभ्रमाः ।विचिकित्सा विकल्पश्च भ्रान्तिरेकार्थवाचकाः ॥ ६९१ ॥
अनुष्टुप्
genderपुंmasc.
स्याद्वितर्को विकल्पोऽपि ह्यत्याधानमतिक्रमः ।वीप्सा क्रमोऽथ प्लवनं प्लवोऽथाप्यवसन्नता ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
विचिकित्सा द्वापरोऽस्त्री रेक-संदेह-संशयाः ।विकल्पो विशयः शङ्का वितर्क्को युतकं नयुक् ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
पोषकर्तानुपशयः संप्राप्तिर्जातिरागतिः ।दोषाणां समवेतानां विकल्पोंऽशांशकल्पना ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
एतन्नामानि चित्तस्य मन्यन्ते च मनीषिभिः ।मानसं कर्म सङ्कल्पो विकल्पोऽपि भिदा भवेत् ॥ २४९० ॥
अनुष्टुप्
genderपुंmasc.
अर्थना तु धनाया स्यादीहनं चेष्टनं समे ।वितर्कस्तु विकल्पः स्यादत्यायानमतिक्रमः ॥ १८५७ ॥
अनुष्टुप्
genderपुंmasc.
भ्रान्तौ च पक्षे च विकल्पमाहु-र्मल्लस्य बन्धान्तरके तु कूर्मे ।स्यात्कच्छपः स्त्री तु डुलौ च वीणा-भेदे तथा स्यात्पिटिकान्तरेऽपि ।कलाप उक्तो हरिभूषणे नातूणीरसंघातकवत्सरेषु ॥ १६ ॥
इन्द्रवज्राtwo metres in one verse
विकल्प as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् उतप्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः । Amarakośa 3.3.474
- नामलिङ्गानुशासनम् नुनु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु । Amarakośa 3.3.484
- नामलिङ्गानुशासनम् वाउपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते ॥ २५० ॥ Amarakośa 3.3.250
- हलायुधकोशः (अभिधानरत्नमाला) वाचिराय चिररात्राय दीर्घकाले प्रयुज्यते । चिरं चिराच्चिरेणेति वा विकल्पोपमानयोः ॥ ८७३ ॥ Abhidhānaratnamālā (Halāyudha) 5.873
- धरणिकोश उतउत्प्रश्ने च वितर्के स्यादुताप्यर्थविकल्पयोः । पश्चादनन्तरार्थे स्यात्प्रतीच्यां चरमेऽपि च ॥ Dharaṇikośa 34.7.5
- धरणिकोश वावशब्द उपमाने स्याद्वरुणे च त्वनव्ययम् । वा समुच्चयोपमयोर्वा विकल्पेऽवधारणे ॥ Dharaṇikośa 34.13.1
- धरणिकोश विभाषाविभाषा स्याद्विकल्पार्थः क्वचित्समुच्चयार्थकः । अनव्ययाव्ययं सद्भिरव्ययं च प्रकीर्तितम् ॥ Dharaṇikośa 34.19.3
- कोषकल्पतरु उतयावत्तावत्सीम्नि माने साकल्ये चावधारणे । वाक्यालंकरणेऽपि स्तोऽथोताप्यर्थविकल्पयोः ॥ ९० ॥ Koṣakalpataru 5.1.90
- कोषकल्पतरु वाव स्यादपूर्तावुपमार्थके च विकल्पसादृश्यसमुच्चये वा । वि तु प्रशस्ये विशयेऽप्यतीते प्रसादसंबोधनपूरणे वै ॥ १९ ॥ Koṣakalpataru 5.1.19
- नानार्थार्णवसंक्षेप कल्पविभीतके विकल्पे च संवर्ते ब्रह्मणो दिने । शास्त्रजातिविशेषे च सामर्थ्ये वर्णने तथा ॥ २३ ॥ Nānārthārṇavasaṃkṣepa 2.2.23
- परमानन्दीयनाममाला नुअस्मानस्मभ्यमप्येवं नुः स्तवे न्वव्ययं पुनः । विकल्पप्रश्नयोस्तर्के निर्भरेऽनुशये नये? ॥ २८ ॥ Paramānandīyanāmamālā 1.28
- शब्दरत्नावली उतनिदर्शनसमाप्त्योश्च प्रकारे च प्रकाशने । उत प्रश्ने वितर्के च विकल्पे पादपूरणे ॥ Śabdaratnāvalī 8.1.24
- शब्दरत्नावली नेत्जात्वसम्भावितार्थे च गर्हा कदाचिदर्थयोः । निद्विकल्पे निषेधे च प्रतिज्ञालङ्घनेऽपि च ॥ प्रति प्रतिनिधौ वीप्सेत्थम्भूताख्यानलक्षणे । प्रतिदाने चाभिमुख्ये स्वभावमात्रयोरपि ॥ हन्त हर्षार्त्तिवादेषु वाक्यारम्भे च सम्भ्रमे । पश्यत स्यात्प्रशंसायां विस्मयाक्षेपभाषणे ॥ बत हर्षामन्त्रणयोः खेदानुक्रोशविस्मये । स्वस्ति स्यान्मङ्गलाशसापुण्यसन्तोषणेषु च ॥ Śabdaratnāvalī 8.1.26
- शब्दरत्नावली अथोअथो अथ समारम्भे सत्ये कल्याणकार्स्त्थयोः । विकल्पानन्तरप्रश्नेष्वधिकारे समुच्चये ॥ Śabdaratnāvalī 8.1.34
- शब्दरत्नावली यदितदप्रकाशे विभागे च शक्तौ प्राधान्यबन्धयोः । भावे मोक्षे च लाभे च स्यादाबद्धोर्द्ध्वकर्मणोः (?) ॥ यद्गर्हायामधृतौ च हेतावपि निगद्यते । यदि स्यात्तु विगर्हायां विकल्पे विस्मयेपि च ॥ Śabdaratnāvalī 8.1.37
- शब्दरत्नावली मामा विकल्पे वारणे स्यात्स्मातीते पादपूरणे ॥ मा स्म स्यान्मङ्गले तथ्ये वारणेऽन्यकृतावपि । अमासहार्थे रश्म्यर्थे निकरार्थे रसार्थके ॥ अज्ञाते विस्मये स्मृत्यामुद्यमार्थे निगद्यते । उं प्रश्ने चाभ्युपगमे क्रोधे च कोपगर्जिते ॥ ऊं पृच्छायामपक्रोशे रोषोक्तौ दम्भभाषिते । उमङ्गीकारकल्याणप्रणवोपक्रताह्वये ॥ Śabdaratnāvalī 8.1.48
- शब्दरत्नावली ?किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50
- शब्दरत्नाकर किम्प्रश्ने क्षेपे विकल्पे किं कुः पापेऽल्पार्थकुत्सयोः । चान्वाचये समाहारे मिथोयोगे समुच्चये ॥ २२५२ ॥ Śabdaratnākara 5.1.2252
- शब्दरत्नाकर नुनाभावान्यविरोधेषु निर्निश्चयनिषेधयोः । प्रश्ने विकल्प नु स्विच्च प्रादौ यात्राप्रकृष्टयोः ॥ २२५४ ॥ Śabdaratnākara 5.1.2254
- शब्दरत्नाकर वावि निषेधे पृथग्भावे वा विकल्पोपमानयोः । समुच्चये च वै पापे वाक्यारम्भप्रसिद्धयोः ॥ २२५५ ॥ Śabdaratnākara 5.1.2255
- शब्दरत्नाकर किमुकिमु प्रश्ने विकल्पे च कुतः प्रश्ने च निह्नवे । निषेधवाक्यालंकारजिज्ञासानुनये खलु ॥ २२६७ ॥ Śabdaratnākara 5.2.2267
- वैजयन्ती कल्पविकल्पेऽपि च कक्षस्तु गुल्मे स्पर्धापदे तृणे । काम्यस्पृहास्मराः कामाः कलहेऽन्त्ययुगे कलिः ॥ १७ ॥ Vaijayantī 6.1.17
- वैजयन्ती किम्ओं स्याद्ब्रह्मण्यनुज्ञायां के सुखेंऽभसि मूर्ध्नि च । प्रश्ने क्षेपे विकल्पे किं कु पापेऽल्पार्थकुत्सयोः ॥ ३ ॥ Vaijayantī 8.7.3
- वैजयन्ती नुप्रश्ने विकल्पे नु स्विच्च प्रादौ यात्राप्रकृष्टयोः । वि निषेधे पृथग्भावे वा विकल्पोपमानयोः ॥ ६ ॥ Vaijayantī 8.7.6
- वैजयन्ती अथअपि संभावनाप्रश्नगर्हाशङ्कासमुच्चये । अथाथोऽनन्तराप्यर्थविकल्पारंभमंगले ॥ १४ ॥ Vaijayantī 8.7.14
- वैजयन्ती उतउपाधिकेऽन्तिके हीनेऽप्युत प्रश्नविकल्पयोः । समुच्चयेऽनुमत्यां चाप्येव साम्येऽवधारणे ॥ १८ ॥ Vaijayantī 8.7.18