जोषम्
joṣamअ · indecl.In 10 kośas: 8 synonym verses, 5 as a nānārtha head word.
तूष्णीं तूष्णीकां जोषं च मौनं दिष्ट्या तु सम्मदे ॥ १५२८ ॥
अनुष्टुप्metre not read in every line
genderअindecl.
तूष्णीं जोषं भवेन्मौने स्म स्यात्संस्मरणादिषु ।अङ्गेत्यामन्त्रणे हं हो भो भो इति च कथ्यते ॥ ८८३ ॥
अनुष्टुप्
genderअindecl.
रिष्टं हितं शर्म सुखं प्रियं चजोषं च कं शं मतमव्ययाह्वम् ।त्रिष्वानु[5a]कूल्येन सुखादिकारीप्रियाकरोऽसौ च सुखाकरश्च ॥ ४५ ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 प्रि (wrong syllable)
genderअindecl.
मौने तूष्णीं च तूष्णीकां जोषं समुपजोषकम् ।ऋधग्यथातथं सत्येऽनृते मिथ्या मृषा तथा ॥ १० ॥
अनुष्टुप्
genderअindecl.
तूष्णीं तथैव तूष्णीकां जोषं मौने हि मन्यते ।दिष्ट्या समुपजोषं वै सम्मदे कथ्यते द्वयम् ॥ २७८७ ॥
अनुष्टुप्
genderअindecl.
स्वाहा स्वधा वषट् वौषट् श्रोषट् दावे दिवौकसाम् ।मनाक् किञ्चिदीषदल्पे स्यादहो ही च विस्मये ॥जन्मान्तरेऽपि च प्रेत्यामुत्र चेति द्वयं भवेत् ।साम्ये यथा तथा चैवं वद्वा स्यादेव चेत्यपि ॥स्थाने च साम्प्रतं युक्ते सद्यः सपदि तत्क्षणे ।शं जोषमुपजोषञ्च शुभं दिष्ट्याभिनन्दने ॥भवेन्मध्ये च त्रितयं अन्तरेणान्तरान्तरे ।प्रसह्य तु बलात्कारे भवेत्पक्षान्तरे यदि ॥निषेधे मास्म मालं स्यादभावे नह्यनो नना ।अद्धाऽञ्जसा च सत्ये स्यात्प्रासाद्धवाचिः (?) प्रकाशिते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ञ्चि (wrong syllable)nearly अनुष्टुप्
genderअindecl.
कान्तं जान्तं च मौने तु तूष्णीकं तूष्णीमित्यपि ।जोषं जोष्यं च सौख्येऽपि आनन्दे द्वयमिष्यते ॥ ९४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ष्णी (wrong syllable)
genderअindecl.
स्वाहा स्वधा क्रमाज्जोषं दिष्ट्या शं च सुखार्थके ।अतर्किते तु सहसा सद्यः सपदि तत्क्षणे ॥ २२८८ ॥
अनुष्टुप्
genderअindecl.
प्रबाहुकं स्यात्समकाल ऊर्द्ध्वेप्रकारसादृश्यसमार्थमेवम् ।जोषं तु तूष्णींभवने सुखे[स्या]-दमा सहार्थे निकटार्थके च ॥ ७ ॥
उपजातिः
तूष्णीमर्थे सुखे जोषं तर्हि स्यात् प्रश्न उत्तरे ।तथा समुच्चये साम्ये परमार्थाभ्यनुज्ञयोः ॥ २२६८ ॥
अनुष्टुप्