कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उताहो

utāhoअ · indecl.

In 10 kośas: 10 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य अव्ययवर्गः Abhidhānacintāmaṇi 7.1536 · p. 57
आहो उताहो किमुत वितर्के किं किमूत च ॥ १५३६ ॥
अनुष्टुप्
genderअindecl.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह अव्ययवर्गः Amarakośa 3.4.9
आहो उताहो किमुत विकल्पे किं किमूत च ।
अनुष्टुप्
genderअindecl.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.880 · p. 100
आहो उताहो सन्देहे नु स्वित्प्रश्नवितर्कयोः ।वर्तमाने च युक्ते च साम्प्रतं सम्प्रचक्षते ॥ ८८० ॥
अनुष्टुप्
genderअindecl.
कल्पद्रुकोशः Kalpadrukośa · केशव अव्ययप्रकाण्डः Kalpadrukośa 3.4.6 · p. 458
उताहो किं किमूताहो विकल्पे किमुतापि च ।मिताक्षरग्रन्थजाते तु हि च स्म ह वै किमीम् ॥ ६ ॥
अनुष्टुप्
genderअindecl.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.17 · p. 121
आनुकूल्ये प्राध्वमथ प्रसह्यार्यहलं हठे ।निःषमं दुःषमं दुष्ठु दुर्दुरोऽपष्ठु निन्दिते ।क्व धिगादह हुं कु अवकीक्र(?)च कुत्सन[238a]वाचिनः ।रुषोक्तौ कुं मुं च रोषे त्वा आं स्यात्तुंकृतौ तु तुम् ।चटु चाटु प्रिये ********** ।तु-पुनर्वैवमेवाद्धा षण्निर्द्धारणवाचकाः ।शङ्के मन्ये तु कं हुं स्वित्किं किमूतापि च ध्रुवम् ।आहो उताहो आहोस्वित्किमुतोत तथा किमु ॥ १७ ॥
अनुष्टुप्metre not read in every line
genderअindecl.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अव्ययप्रकरणम् Suśīlanāmamālā 8.2798 · p. 456
ईषत् किञ्चिन् मनागऽल्पे किञ्चन कथ्यते पुनः ।उताहो किमुताऽऽहो च किमुत किं वितर्कके ॥ २७९८ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable); pāda 4, syllable 3 त (wrong syllable)
genderअindecl.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश एकार्थवर्गः Śabdaratnāvalī 8.2.8 · p. 305
तु हि च स्म हवै षट्कं श्लोकानां पादपूरणे ।अहो आहो उताहो किं किमुत च वितर्कणे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 मु (wrong syllable)
genderअindecl.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.103 · p. 258
नुवै नु नुकं किंस्वित् स्विदाऽहोस्विदुताहो च ।आ हौ, हेतौ यद्यतो येन यदि तेन च तत् ततः ॥ १०३ ॥
अनुष्टुप्metre not read in every line
genderअindecl.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अव्ययाध्यायः Śabdaratnākara 6.2280 · p. 277
मुहुर्भूयः पुनः शश्वदभीक्ष्णमसकृत्समाः ।आहो उताहो किमुत विकल्पे किं किमूत च ॥ २२८० ॥
अनुष्टुप्
genderअindecl.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव अव्ययवर्गः Trikāṇḍaśeṣa 3.4.4 · p. 264
उताहो यदिवा यद्वा किं वा नेति समा इमे ।किन्त्वर्थेऽपितु यद्यर्थे सचेत्प्रात्क्वादिवाचकम् ॥ ४ ॥
अनुष्टुप्
genderअindecl.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.29 · p. 134
आह क्षेपनियोगयोरथ मतावाहो उताहो उभौपृच्छायां च विचारणेऽप्यथ परिक्लेशे प्रकर्षेऽह हा ।हिंसोपक्रमकुत्सनेषु विबुधाः संकीर्तयन्त्यादहप्रोक्तं मंक्षु विचक्षणे अति[246b]शये तत्त्वे तथाति द्रुते ॥ २९ ॥
शार्दूलविक्रीडितम्metre not read in every line
meanings
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नानार्थवर्गः Śabdaratnāvalī 8.1.66 · p. 305
आहो प्रश्ने विचारे च उताह प्रश्नचिन्तयोः ।सह साकल्य-सामर्थ्य-विद्यमान-समृद्धिषु ॥सम्बन्धे यौगपद्ये च साहाय्ये च निगद्यते ।हीही हास्ये विस्मये च हेहै सम्बोधनाख्ययोः ॥
अनुष्टुप्