कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पण्डित

paṇḍitaपुं · masc.

In 19 kośas: 18 synonym verses, 3 as a nānārtha head word, 39 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.6 · p. 18
विद्वान्सुधीः कविविचक्षणलब्धवर्णा ज्ञः प्राप्तरूपकृतिकृष्ट्यभिरूपधीराः ।मेधाविकोविदविशारदसूरिदोषज्ञाः प्राज्ञपण्डितमनीषिबुधप्रबुद्धाः ॥ ३४१ ॥व्यक्तो विपश्चित्संख्यावान्सन्प्रवीणे तु शिक्षितः ।निष्णातो निपुणो दक्षः कर्महस्तमुखाः कृतात् ॥ ३४२ ॥कुशलश्चतुरोऽभिज्ञविज्ञवैज्ञानिकाः पटुः ।
वसन्ततिलका
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.5
विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः ।धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.332 · p. 39
धीरो धीमान् लब्धवर्णो विपश्चिद्,वृद्धो विद्वान् प्राप्तरूपोऽभिरूपः ।सूरिः प्राज्ञः पण्डितः सन्मनीषी,ज्ञो दोषज्ञः कोविदः स्यात्प्रबुद्धः ॥ ३३२ ॥
शालिनी
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षोडशोपदेशः Bālaprabodhikā 16.333 · p. 96
सुधीर्विपश्चित्सङ्ख्यावान्प्राज्ञो धीमान्विचक्षणः ।विद्वान् सन्कोविदः सूरिः मेधावी पण्डितो बुधः ॥ ३३३ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम मनुष्याधिकारः पञ्चमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 5.4 · p. 27
तद्भेदे राहुतश्च स्याद्दुनेदारस्तु भूपतिः ।विद्वान् सन् कोविदः सूरिर्मेधावी पण्डितो बुधः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.48 · p. 74
धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः ।धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.14 · p. 54
दूरदर्शी दीर्घदर्शी विचक्षण-विपश्चितौ ।बुधानः कोविदो वृद्धः पण्डितः स्याद्विशारदः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.148 · p. 27
द्राविलः पक्षिलः स्वामी मल्लनागोऽङ्गुलोऽपि च ।विद्वान्सन्कोविदः सूरिर्मेधावी पण्डितो बुधः ॥ १४८ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 111 · p. 55
प्राज्ञमेधाविनौ विद्वानभिरूपो विचक्षणः ।पण्डितः सूरिराचार्यो वाग्मी नैयायिकः स्मृतः ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.6 · p. 102
पण्डितः कोविदो विद्वान्कृष्टिर्व्यक्तः कृती कविः ।मेधावी सूरिदोषज्ञा ज्ञः प्राज्ञो निपुणः पटुः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.44 · p. 30
पादवक्त्रश्वेतमृगे पण्डितः कमलोऽरुणे ।मुखश्वेते पृषत्कोणः कण्ठिकः कमलोदरः ॥ ४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्वे (wrong syllable)
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.204 · p. 51
पण्डिते तु कृती कृष्टिर्लब्धवर्णो विचक्षणः ।दूरदर्शी दीर्घदर्शी प्रदर्श्यतिदृगित्यपि ॥ २०४ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.678 · p. 115
उल्बणे प्रकटश्चोग्र उद्भटश्चोत्कटप्रकौ ।उद्धतः पण्डितश्चण्डः प्रलयश्च प्रतापवान् ॥ ६७८ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.114 · p. 31
पण्डितः कोविदः प्राज्ञो धीमान्विद्वान्बुधः सुधीः ।कृती मनीषी मेधावी कविः सूरिर्विशारदः ॥ ११४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.502 · p. 64
पण्डितः प्राप्तरूपश्च विद्वान् सुधीः कविः कृती ॥ ५०२ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.9 · p. 111
अध्यापनश्चेति षड्भिः षट्कर्मा ब्राह्मणः युतः ।पण्डितः कोविदो विद्वान् विदग्धो दूरदृग्बुधः ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.267 · p. 36
विद्वान्सूरिर्लब्धवर्णो विपश्चित्प्राज्ञो धीरः पण्डितः प्राप्तरूपः ।धीमान्कृष्टिर्दीर्घदर्शी कविर्ज्ञो दोषज्ञः सन् दूरदर्शी मनीषी ॥ २६७ ॥
शालिनी
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.234 · p. 102
विद्वान् सन् कोविदः सूरिर्मेधावी पण्डितो बुधः ।सुधीर्विपश्चित् संख्यावान् प्राज्ञो धीमान्विचक्षणः ॥ २३४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.4 · p. 218
पिण्डितं गणितसान्द्रयोर्भवेत्पण्डितस्तु कविसिह्लकार्थकः ।पुंसि बिन्दुषु मृगेऽश्वरोहितेवाच्यवत्तु पृषतोऽब्दबिन्दुनि ॥ ४ ॥
रथोद्धता
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1083 · p. 142
भवेद्दारुहरिद्रायामाढकीसंज्ञमृद्यपि ।पण्डितस्तु द्वयोर्ज्ञेयः स्यान्मृगे सूकराकृतौ ॥ १०८३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1084 · p. 142
रभसस्तु नरि प्राह निर्यासे सिल्हकाह्वये ।त्रि तु स्याद्विदुषि स्त्री तु पतिघ्नी कन्यकान्तरे ॥ १०८४ ॥
अनुष्टुप्
doubtful

पण्डित as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् बुधबुधवृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च ॥ १०० ॥ Amarakośa 3.3.100
  • धरणिकोश सुमुखसुमुखो नागभेदे स्यात्पण्डिते गरुडात्मजे । दुर्मुखो मुखरे प्रोक्तो वाजिनागविशेषयोः ॥ Dharaṇikośa 2.2.7
  • धरणिकोश ज्ञज्ञः स्याद्ब्रह्मणि सौम्ये च पण्डिते च महीसुते । Dharaṇikośa 9.2.1
  • धरणिकोश प्रज्ञप्रज्ञा मतिस्तद्युक्ता च प्रज्ञः पण्डित इष्यते । प्रज्ञः स्यात्प्रज्ञुना सार्धं ख्यातः प्रगतजानुके ॥ Dharaṇikośa 9.3.1
  • धरणिकोश संख्यावत्गरुत्मान्विहगे तार्क्षे विवस्वांस्त्रिदशेश्वरे । भगवांस्त्वागते पूज्ये संख्यावान्पण्डिते मिते ॥ Dharaṇikośa 15.1.27
  • धरणिकोश अभिजातप्रतिक्षिप्तं प्रहिते च प्रतिक्षिप्तं निराकृते । अभिजातः कुलीने स्यान्न्याय्यपण्डितयोरपि ॥ Dharaṇikośa 15.2.80
  • धरणिकोश बिन्दुबिन्दुः स्याद्दन्तदाने च बिन्दुः पण्डितविप्रुषोः । कन्दानि मूलसस्यानि विदुः कन्दांश्च सूरणान् ॥ Dharaṇikośa 17.2.4
  • धरणिकोश विबुधसंसिद्धिः सहजे सिद्धौ वीरुद्विटपशाखयोः । विबुधः पण्डिते देवे उत्सेधौ वपुरुन्नती ॥ Dharaṇikośa 18.1.5
  • धरणिकोश वृद्धवृद्धं रूढे च शैलेये वृद्धौ स्थविरपण्डितौ । दग्धं प्लुष्टं दिक् च दग्धा रविर्यस्यां न तिष्ठति ॥ Dharaṇikośa 18.2.8
  • धरणिकोश कृतिन्स्वामिनौ गुरुभर्तारौ कृतिनौ योग्यपण्डितौ । वज्री च सुगते शक्रे हलिनौ बलकर्षकौ ॥ Dharaṇikośa 19.1.9
  • धरणिकोश सुमनस्सुमनसः स्मृताः पुष्पमालतीसुरपण्डिताः । प्रचेतसस्त्रयः कृष्णमुनिभेदजलेश्वराः ॥ Dharaṇikośa 31.2.19
  • कोषकल्पतरु सङ्ख्यावत्तार्क्ष्ये खगे गरुत्मान्संख्यावान्पण्डिते वनिने ( ? ) । स्यादंशुमान्दिनकरे शालीपर्ण्यां त्वंशुमत्युक्ता ॥ ७० ॥ Koṣakalpataru 6.17.70
  • कोषकल्पतरु कृतिन्चक्री हरौ स्याच्छकटे कुलाले ग्रामोद्भवे * ककुभद्रुमे तु । धनुर्धरे पार्थविदग्धयोश्च धन्वी कृती पण्डितयोग्ययोः स्यात् ॥ ७७ ॥ Koṣakalpataru 6.21.77
  • कोषकल्पतरु धींवर[55b]तीवरो नाम्बुधौ व्याधवाची तथा जातिभेदेऽप्यथो धींवरो दासके । पण्डिते पण्डितैर्वाच्यवत्कीर्तितः पुष्करं त्वम्बुनि व्योम्नि तूर्यानने ॥ ३१ ॥ Koṣakalpataru 6.27.31
  • नानार्थार्णवसंक्षेप कृतिन्कुशले पण्डिते योग्ये ग्रस्तं वेष्टितभुक्तयोः । लुप्तवर्णपदे वाक्ये गन्तुस्तु पथिकेऽतिथौ ॥ ७ ॥ Nānārthārṇavasaṃkṣepa 2.4.7
  • नानार्थार्णवसंक्षेप कविकविस्तु पुंसि वाल्मीकौ कृतकोटिमुनावपि । त्रिषु तु स्यात् काव्यकारे पण्डिते च स्त्रियां त्वसौ ॥ १६३ ॥ Nānārthārṇavasaṃkṣepa 2.5.163
  • नानार्थार्णवसंक्षेप पक्षिन्पद्मिनी सरसीलक्ष्म्योः पद्मस्तम्बेऽथ पक्षिवाक् । द्वे खगे पण्डिते तु त्रिः पक्षवत्यथ पक्षिणी ॥ ७४३ ॥ Nānārthārṇavasaṃkṣepa 2.5.743
  • नानार्थार्णवसंक्षेप पात्रआढके पण्डिते वित्ते नद्याः कूलद्वयान्तरे । प्रधानाङ्गे च सुगुणे पारस्तु नरि पारणे ॥ ७४७ ॥ Nānārthārṇavasaṃkṣepa 2.5.747
  • नानार्थार्णवसंक्षेप बुद्धधान्ये स्याद्वंशजे तु त्रिर्बीजी बीजवति त्रिषु । ताते तु पुंसि बुद्धो ना सुगते त्रि तु पण्डिते ॥ ८६५ ॥ Nānārthārṇavasaṃkṣepa 2.5.865
  • नानार्थार्णवसंक्षेप सूरिअल्पासु द्वे तु वेश्यायां निषादोत्पन्नमानवे । सूरिः पुनः पुंस्याचार्ये त्रि तु स्तोतरि पण्डिते ॥ १५४७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1547
  • नानार्थार्णवसंक्षेप दोषज्ञसदेवासत्कृतं सभ्यैर्यत् तत्राप्यथ दुर्विधः । नीचे दरिद्रे दोषज्ञः पुनर्भिषजि पण्डिते ॥ २५ ॥ Nānārthārṇavasaṃkṣepa 3.4.25
  • नानार्थार्णवसंक्षेप प्रबद्धप्रबद्धो विरतस्वापे सावधानेऽपि पण्डिते । प्रवृद्धस्त्वेधिते चापि प्रसृतेऽथ प्रसिद्धवाक् ॥ ३४ ॥ Nānārthārṇavasaṃkṣepa 3.4.34
  • नानार्थार्णवसंक्षेप सुमनस्पण्डिते च द्वयोस्तु स्याद् देवे क्ली तु शुभे हृदि । सुमेधा तु स्त्रियां ज्ञेया ++++++++ ॥ १९९३ ॥ Nānārthārṇavasaṃkṣepa 4.1993
  • नानार्थार्णवसंक्षेप अभिजातअभिजातः कुलीने च न्याय्यपण्डितयोरपि । अभिनीतः संस्कृते च न्याय्ये चामर्षवत्यपि ॥ २ ॥ Nānārthārṇavasaṃkṣepa 6.2
  • नानार्थार्णवसंक्षेप लब्धवर्णआढ्येऽथ लब्धवर्णस्त्रिः पण्डिते सादि पूर्ववत् । लम्बोदरस्तु ना विघ्नराजे लिङ्गादि पूर्ववत् ॥ ५३० ॥ Nānārthārṇavasaṃkṣepa 6.530
  • नानार्थार्णवसंक्षेप विचक्षणविचिकित्सा समासादि पूर्ववत् स्त्री विचक्षणा । कृष्णशिम्बौ पण्डिते तु त्रिर्ना तु न विदारणा ॥ ५६९ ॥ Nānārthārṇavasaṃkṣepa 6.569
  • शब्दरत्नावली प्राज्ञअज्ञो जडे च मूर्खे च प्राज्ञः पण्डितदक्षयोः । प्रज्ञा बुद्धिसरस्वत्यो राज्ञी छायानृपस्त्रियोः ॥ Śabdaratnāvalī 7.10.2
  • शब्दरत्नावली वक्तृवक्ता स्यात्पण्डिते पुंसि वावदूके तु वाच्यवत् । व्यक्तं व्याप्ते व्याकुले च व्यक्तः स्यात्पण्डिते स्फुट ॥ Śabdaratnāvalī 7.16.50
  • शब्दरत्नावली अभिजातअथावसितमृद्ध स्याज्ज्ञातेऽवसानगे त्रिषु । अर्थपतिर्धनाधीशे भवेन्नरपतौ पुमान् ॥ अवदातो विशुद्धे स्यात्सिते गौरेऽन्यलिङ्गकम् । अवगीतन्तु दृष्टे स्यान्निर्वादे गर्हितेऽपि च ॥ अन्तर्गतं विस्मृते स्यान्मध्यप्राप्तेऽभिधेयवत् । अङ्गारितं स्यात्पलाशकलिकोद्गमदग्धयोः ॥ अपावृतं स्वतन्त्रे स्यात् पिहितेऽप्यभिधेयवत् । अत्याहितं गुरुभये जीवानपेक्षिकर्मसु ॥ अभिनीतः संस्कृते स्यादमर्षिन्याय्ययोस्त्रिषु । अभिजातः पण्डिते स्यात् त्रिषु न्याय्यकुलीनयोः ॥ Śabdaratnāvalī 7.16.153
  • शब्दरत्नावली संख्यावत्आहितेऽप्युक्तसिद्धान्ते समाधिस्थे शुचौ पुमान् । समाघातः शब्दभेदे वधे युद्धे भये पुमान् ॥ संख्यावान् पण्डिते पुंसि संख्यायुक्तेऽन्यलिङ्गकः । सुधासूतिः पुमान् यज्ञे पद्मे हिमकरेऽपि च ॥ सूर्यभक्तश्चार्कपणे बन्धुके च भवेत्पुमान् । सेनापतिः कुमारे स्यात्सैन्याधिकारिणि पुमान् ॥ हिमारातिर्वीतिहोत्रे पुमान् किरणमलिनि । हैमवती श्वेतवचास्वर्णक्षीर्यभयासु च ॥ Śabdaratnāvalī 7.16.176
  • शब्दरत्नावली विदथब्राह्मीगुडूचीपश्यासु स्त्रियां स्यात्तरुणे त्रिषु । वमथुर्वमने पुंसि स्यात्कुम्भिकरशीकरे ॥ विदिथः पण्डिते योगे शमथुः शान्तिमन्त्रिणोः । षड्ग्रन्थो ना करञ्जे स्याद्वचायामपि च स्त्रियाम् ॥ समर्थः शक्तहितयोः सम्बन्धे चान्यलिङ्गकः । सिद्धार्थः शाक्यसिंहे च सार्थके श्वेतसर्षपे ॥ Śabdaratnāvalī 7.17.14
  • शब्दरत्नावली विशारदविशारदः पुंसि धृष्टे पण्डितेऽपि भवेत्पुमान् । भवेद्विष्णुपदं खेतु क्षीरोदेऽपि च न द्वयोः ॥ तथा भागिरथी सूर्यसंक्रान्तिभेदयोः स्त्रियाम् । शतानन्दः पुमान् कृष्णे मुनि भेदे च पुंस्ययम् ॥ भवेच्छतह्रदा वज्रे सौदामन्यामपि स्त्रियाम् । समर्यादः समीपे ना मर्यादासंयुते त्रिषु ॥ Śabdaratnāvalī 7.18.29
  • शब्दरत्नावली बुद्धनद्धो बद्धे समुद्धृते वधो बन्धकरन्धयोः । बन्धुर्ना बान्धवे मित्रे बन्धूके भ्रातरीत्यपि ॥ बाधा निषेधे दुःखे च बुधः सोमजसूरिणोः । बुद्धो जिने पण्डिते ना बुधितेऽपि च वाच्यवत् ॥ बोधः समाधिभेदे ना तथा पिप्पलभूरुहे । मधु क्लीबं पुष्परसे मर्त्ये क्षौद्रे रसान्तरे ॥ पुंसि मधुद्रुमे चैव वसन्ते द्रैत्यभिद्यपि ॥ Śabdaratnāvalī 7.19.8
  • शब्दरत्नावली कृतिन्कृती योगे पण्डिते स्यात्साधौ पुण्यरतेऽपि च ॥ Śabdaratnāvalī 7.20.48
  • त्रिकाण्डशेष कृतिन्स्थापत्ये वर्मिते सर्पे क्लृप्तौ छेदे च कल्पनम् । कामिनौ स्त्रैणचक्रौ च कृतिनौ थोग्यपण्डितौ ॥ २३४ ॥ Trikāṇḍaśeṣa 3.3.234
  • त्रिकाण्डशेष धीरधारा हरिद्राश्वगतिनिशाम्बुस्रुतिराजिषु । धाराधरो खड्गमेघौ धीरः पण्डितमन्दयोः ॥ ३५८ ॥ Trikāṇḍaśeṣa 3.3.358
  • वैजयन्ती विबुधविस्रंभौ स्नेहविश्वासौ विबुधौ सुरपण्डितौ । विकारौ रोगविकृती विष्किरौ शिखिकुक्कुटौ ॥ ६६ ॥ Vaijayantī 7.1.66
  • वैजयन्ती अभिजातअभिजातः कुलीने च न्याय्यपण्डितयोरपि । अभिनीतः सुयुक्ते स्यादमर्षवति संस्कृते ॥ १ ॥ Vaijayantī 8.4.1
  • वैजयन्ती प्राप्तरूपकुत्सिते वाच्यवक्तव्यौ वदितव्यविहीनयोः । प्राप्तरूपोऽभिरूपश्च पण्डिते रूपवत्यपि ॥ १५ ॥ Vaijayantī 8.4.15