वडवामुख
vaḍavāmukhaपुं · masc.In 10 kośas: 13 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.
और्वः संवर्तकोऽब्ध्यग्निर्वाडवो वडवामुखः ॥ ११०० ॥
अनुष्टुप्
genderपुंmasc.
नोदधिघनवाततनुवातनभःस्थिताः ॥ १३५९ ॥रत्नशर्करावालुकापङ्कधूमतमःप्रभाः ।महातमःप्रभा चेत्यधोधो नरकभूमयः ॥ १३६० ॥क्रमात्पृथुतराः सप्ताथ त्रिंशत्पञ्चविंशतिः ।पञ्च पञ्चदश त्रीणि लक्षाण्यूनं च पञ्चभिः ॥ १३६१ ॥लक्षं पञ्चैव नरकावासाः सीमन्तकादयः ।एतासु स्युः क्रमेणाथ पातालं वडवामुखम् ॥ १३६२ ॥बलिवेश्माधोभुवनं नागलोको रसातलम् ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 धो (wrong syllable)
genderक्लीneut.
वनवह्निर्दवो दावो मेघवह्निरिरंमदः ।और्वः समुद्रवह्निः स्याद्वाडवो वडवामुखः ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
वडवामुखं पातालं वैरोचननिकेतनम् ।तथाधोभुवनं प्रोक्तं नागलोको रसातलम् ॥ ६२३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 खं (wrong syllable)
genderक्लीneut.
अधोभुवनपातालवलिसद्मार्थकानि तु ।वडवामुखपर्यायं रसापर्यायतस्तलम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
संवर्त्तको वाडवः स्याद्वडवामुख इत्यपि ।वनवह्निर्दवो दावः स्कन्धाग्निः स्थूलकाष्ठधक् ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
शुष्माप्पित्ते वाडवौर्वौ सिन्ध्वग्नि-र्वडवामुखः ।संवर्त्तकोऽथ दह्रः स्याद्दवो दावो च संग्गिलः ॥ १२८ ॥
अनुष्टुप्
genderपुंmasc.
अग्निप्रिया स्मृताग्नायी स्वाहापि कथिता स्मृतौ ।संवर्तकः समुद्राग्निर्वडवामुखवाडवौ ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
रसातलं बलेर्वेश्माधोजगद्वडवामुखम् ।रोपं छिद्रं तथा रन्ध्रं विवरं शुषिरं शुषिः ॥ २५३ ॥
अनुष्टुप्
genderक्लीneut.
वडवानल और्वश्च वाडवो वडवामुखः ।संवर्तकः समुद्राग्निर्दवो दावो वनानलः ॥ १७१ ॥
अनुष्टुप्
genderपुंmasc.
ऊर्वश्चौर्वस्तथाऽब्ध्यग्निर्वाडवो वडवानलः ।वडवामुखः पुनर्नाम भवेत् संवर्त्तकस्तथा ॥ १९२७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
पातालं नागलोकश्च बलिवेश्म रसातलम् ।वडवामुखमाख्यातमधोभुवनमित्यपि ॥ २४७७ ॥
अनुष्टुप्
genderक्लीneut.
वडवाग्निस्तु सलिलेन्धनः स्याद्वडवामुखम् ।काकध्वजो वाणिजश्च स्कन्धाग्निः स्थूलकाष्ठधृक् ॥ ६७ ॥
अनुष्टुप्
genderक्लीneut.
वडवामुख as a meaning in nānārtha verses
- तन्त्राभिधान झअ विद्युज्जिह्वा, आ कालवज्री, इ गर्जिनी, ई धूम्रभैरवी, उ कालरात्रिः, ऊ विदारी, ऋ महारौद्री, ॠ भयङ्करी, ऌ संहारिणी, ॡ करालिनी, ए ऊर्ध्वकेशी, ऐ उग्रभैरवी, ओ भीमाक्षी, औ डाकिनी, अं रुद्रराकिणी, अः चण्डिका, क क्रोधीशः, ख वामनः, ग चण्डः, घ विकारी, ङ उन्मत्तभैरवः, च ज्वालामुखः, छ रक्तदंष्ट्रः, ज असिताङ्गः, झ वडवामुखः, ञ विद्युन्मुखः, ट महाज्वालः, ठ कपाली, ड भीषणः, ढ रुरुः, ण संहारी, त भैरवः, थ दण्डी, द बलिभुक्, ध उग्रशूलधृक्, न सिंहनादी, प कपर्दी, फ करालाग्निः, ब भयङ्करः, भ बहुरूपी, म महाकालः, य जीवात्मा, र क्षतजोक्षितः, ल बलभेदी, व रक्तपटः, श चण्डीशः, ष ज्वलनध्वजः, स धूमध्वजः, ह व्योमवक्त्रः, क्ष त्र्यैलोक्यग्रसनात्मकः ॥ Tantrābhidhāna 4.1