कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Suśīlanāmamālā

सुशीलनाममाला Suśīlanāmamālā

3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)

तिर्यग्विभागः · तेजस्कायनामानि

॥ इत्यप्कायः समाप्तः ॥

* अथ तेजस्कायनामानि *

* अग्निनामानि *

अग्निर्वह्निः स्वनिः शिखी शुक्रः शुष्मा शुचिर्वसुः ।आशयाशः शमीगर्भः शोचिष्केशस्तथाऽऽशिरः ॥ १९१७ ॥
5.3.1917 · p. 315
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 शि (wrong syllable)
आश्रयाशः कृशानुश्च वैश्वानरो वृषाकपिः ।कृष्णवर्त्मा तथाऽर्चिष्मान् कुषाकुः आशुशुक्षणिः ॥ १९१८ ॥
5.3.1918 · p. 315
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
सप्तार्चिः सप्तजिह्वश्च ज्वालाजिह्वश्च जागृविः ।ज्वलनो जातवेदाश्च जुहुराणो भुजिर्वमिः ॥ १९१९ ॥
5.3.1919 · p. 315
अनुष्टुप्
उदर्चिश्चित्रभानुश्च बृहद्भानुः समन्तभुक् ।घृतार्चिर्घसुरिर्घासिर्धूमध्वजो धनञ्जयः ॥ १९२० ॥
5.3.1920 · p. 315
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध्व (wrong syllable)
तनूनपात् तमोघ्नश्च कृपीटयोनिरञ्चतिः ।उषर्बुधः पृथुः पुष्टः वीतिहोत्रश्च वञ्चतिः ॥ १९२१ ॥
5.3.1921 · p. 315
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ट (wrong syllable)
बर्हिकत्को बर्हिर्ज्योतिः बर्हिरुत्थस्तथाऽनलः ।बर्हिःशुष्मा च हिरण्यरेताः पवनवाहनः ॥ १९२२ ॥
5.3.1922 · p. 315
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ब (wrong syllable); pāda 3, syllable 6 हि (wrong syllable)
पीथोऽनिलसखो हव्यभुग्घविरशनो हविः ।हवनो हव्यवाहश्च हव्याशनो हुताशनः ॥ १९२३ ॥
5.3.1923 · p. 316
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 ग्घ (wrong syllable); pāda 4, syllable 3 श (wrong syllable)
बहुलो मन्त्रजिह्वश्च रोहिताश्वो विभावसुः ।दमूनाः दमुनाः दीप्रः पृदाकुर्दहनः पविः ॥ १९२४ ॥
5.3.1924 · p. 316
अनुष्टुप्
भरथो नाचिकेतश्च पर्परीकश्च पावकः ।पृष्ठः छागरथोऽप्पित्तं हुतवहो विरोचनः ॥ १९२५ ॥
5.3.1925 · p. 316
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
अपित्तं चापि बर्हिश्चेत्यग्नेर्नामानि सन्ति वै ।
5.3.10 · p. 316
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 भ (wrong syllable)

* स्वाहानाम *

पुनरग्नेः प्रिया भवेत् स्वाहाऽग्नायी च नामतः ॥ १९२६ ॥
5.3.1926 · p. 316
अनुष्टुप्metre not read in every line

* वडवानलनामानि *

ऊर्वश्चौर्वस्तथाऽब्ध्यग्निर्वाडवो वडवानलः ।वडवामुखः पुनर्नाम भवेत् संवर्त्तकस्तथा ॥ १९२७ ॥
5.3.1927 · p. 316
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

* दावानलनामानि *

दावानलो दवो दावो वनवह्निरपि स्मृतः ।
5.3.13 · p. 316
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मे (wrong syllable)

* मेघवह्निनामानि *

मेघवह्निः मेघज्योतिर्विद्युताग्निरिरम्मदः ॥ १९२८ ॥
5.3.1928 · p. 316
अनुष्टुप्metre not read in every line

* करीषाग्निनाम *

छागणश्च करीषाग्निः नाम स्यात् छागणस्य हि ।
5.3.15 · p. 317
अनुष्टुप्

* तुषानलनाम *

तुषानलः कुकूलश्च तुषाग्नेर्नाम हि द्वयम् ॥ १९२९ ॥
5.3.1929 · p. 317
अनुष्टुप्

* संज्वरनाम *

सन्तापः संज्वरो नाम वह्निजो दाह उच्यते ।
5.3.17 · p. 317
अनुष्टुप्metre not read in every line

* बाष्पनाम *

ऊष्मा बाष्पश्च नाम वै बाष्पस्य कथ्यते बुधैः ॥ १९३० ॥
5.3.1930 · p. 317
अनुष्टुप्metre not read in every line

* जिह्वानाम *

विश्वे स्युरर्चिषो जिह्वाः तन्नामतः प्रसिद्धकाः ।
5.3.19 · p. 317
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)

* ज्वालानामानि *

अर्चिर्ज्वाला शिखा कोला हेतिः स्याच्चेति वह्निजः ॥ १९३१ ॥
5.3.1931 · p. 317
अनुष्टुप्metre not read in every line
झलक्का झिल्लक्कोलक्का महाज्वालार्थके च वै ।
5.3.21 · p. 317
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल्ल (wrong syllable)

* अग्निकणनाम *

स्फुलिङ्गोऽग्निकणो वह्नेर्निःसरन् लघुभागकः ॥ १९३२ ॥
5.3.1932 · p. 317
अनुष्टुप्metre not read in every line

* अलातज्वालानाम *

उल्काऽलातज्वाला द्वापि निर्ज्वालोऽग्निः हि मन्यते ।
5.3.23 · p. 318
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्वा (wrong syllable)

* अलातनाम *

अलातमुल्मुकं नाम प्रसिद्धं बहु वर्तते ॥ १९३३ ॥
5.3.1933 · p. 318
अनुष्टुप्metre not read in every line

* धूमनामानि *

धूमो जीमूतवाही च दहनकेतनं स्तरीः ।अम्भः सूरग्निवाहश्च वायुवाहः प्रसिद्धकः ॥ १९३४ ॥
5.3.1934 · p. 318
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
करमालश्च नामापि धूमस्य मन्यते खलु ।
5.3.26 · p. 318
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable); pāda 4, syllable 3 च (wrong syllable)

* विद्युत्-नामानि *

विद्युत् तडित् तथा शम्पा सम्पा चलाऽचिरप्रभा ॥ १९३५ ॥
5.3.1935 · p. 318
metre not recognised
चञ्चला चपला चैरावती च जलवालिका ।शतह्रदाऽशनिः सौदामनी सौदामिनी तथा ॥ १९३६ ॥
5.3.1936 · p. 318
अनुष्टुप्
आकालिकी च ह्रादिनी क्षणिका च क्षणप्रभा ।एतन्नामानि मन्यन्ते विबुधैर्विद्युतः सदा ॥ १९३७ ॥
5.3.1937 · p. 318
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ह्रा (wrong syllable)