इति-श्रीतपोगच्छाधिपति-सूरिचक्रचक्रवर्त्ति-भारतीयभव्यविभूति-चिरंतनयुगप्रधानकल्प-सर्वतन्त्रस्वतन्त्र-श्रीकदम्बगिरि-प्रमुखानेक-प्राचीन-तीर्थोद्धारक-पञ्चप्रस्थानमयसूरिमन्त्रसमाराधक-शासन-सम्राट- जगद्गुरु-भट्टारकाचार्य-महाराजाधिराज-श्रीमद्विजय-नेमिसूरीश्वर-सुप्रसिद्ध-पट्टालङ्कार-व्याकरणवाचस्पति-शास्त्र-विशारद-कविरत्न-साहित्यसम्राट्-साधिकसप्तलक्षश्लोक-प्रमाण-नूतन-संस्कृत-साहित्यसर्जक-परमशासन-प्रभावकाचार्य-देवेश-श्रीमद्विजयलावण्यसूरीश्वर-पट्टधर-व्याकरणरत्न-शास्त्रविशारद-कविदिवाकर-देशनादक्ष-शासनप्रभावकाचार्यदेव-श्रीमद्विजयदक्षसूरीश्वर-पट्टधर-साहित्यरत्न-शास्त्रविशारद-कविभूषणपञ्चप्रस्थानमयसूरिमन्त्रसमाराधक-शासनप्रभावकाचार्य-श्रीमद्-विजयसुशीलसूरिणा विरचितायां सुशीलनाममालायां चतुर्थस्तिर्यग्विभागः समाप्तः ॥ ४ ॥
अथ पञ्चमो नारकविभागः
* नैरयिकनामानि *
नैरयिकास्तथा यात्याः नारका अतिवाहिकाः ।परेताः नाकीयाः स्युः प्रेताः नारकिकाः पुनः ॥ २४६५ ॥
6.2465 · p. 399
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 यि (wrong syllable); pāda 3, syllable 4 ना (syllables merged)
* विष्टिनाम *
आजूर्विष्टिर्नाम द्वयं कथ्यते कोविदैः किल ।
6.2 · p. 399
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
* यातनानामानि *
कारणा यातना तीव्रवेदना सदृशार्थिका ॥ २४६६ ॥
6.2466 · p. 399
अनुष्टुप्metre not read in every line
* नरकनामानि *
नरको नारकश्चैव निरयो दुर्गतिस्तथा ।नरकस्येति नामानि कथ्यन्ते पण्डितैः किल ॥ २४६७ ॥
6.2467 · p. 399
अनुष्टुप्
घनोदधिघनवाततनुवातनभःस्थिताः ।तदाधारे तु नरकावासाः सन्ति महीतले ॥ २४६८ ॥
6.2468 · p. 399
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable)
* नरकभूमिनामानि *
घर्मा रत्नप्रभा स्याद्वै वंशा च शर्कराप्रभा ।स्याद्वालुकाप्रभा शैला पङ्कप्रभाऽञ्जना भवेत् ॥ २४६९ ॥
6.2469 · p. 399
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable); pāda 4, syllable 3 प्र (wrong syllable)
रिष्टा धूमप्रभा स्याद्वै माधव्या च तमःप्रभा ।महातमःप्रभा नाम चरमं माधवी भवेत् ॥ २४७० ॥
6.2470 · p. 399
अनुष्टुप्
इत्यधोऽधो क्रमाज्ज्ञेयाः सप्तनरकभूमयः ।विख्याता सर्वदाः सर्वाः नरकभूमयो भुवि ॥ २४७१ ॥
6.2471 · p. 400
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 प्त (wrong syllable); pāda 4, syllable 3 क (wrong syllable)
सन्ति रत्नप्रभायां वै त्रिंशल्लक्षाणि संख्यया ।द्वितीयायां शर्करायां लक्षाणां पञ्चविंशतिः ॥ २४७२ ॥
6.2472 · p. 400
अनुष्टुप्
बालुकायां तृतीयायां पञ्चदशलक्षाणि वै ।सन्ति पङ्कप्रभायां तु दशलक्षाणि संख्यया ॥ २४७३ ॥
6.2473 · p. 400
अनुष्टुप्metre not read in every line
पञ्चम्यां धूमप्रभायां त्रीणि लक्षाणि संख्यया ।षष्ठ्यां तमःप्रभायां तु पञ्चन्यूनमेकं लक्षम् ॥ २४७४ ॥
6.2474 · p. 400
metre not recognised
महातमःप्रभानाम्न्यां भूमौ पञ्चैव निश्चिताः ।सन्ति वै नरकावासाः सीमन्तकादयः किल ॥ २४७५ ॥
6.2475 · p. 400
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)
एतासु स्युः क्रमेणैव तत्तन्नरकवासिनः ।शास्त्रेषु कथिताः प्राज्ञैः लोकेऽपि सन्ति सर्वदा ॥ २४७६ ॥
6.2476 · p. 400
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
* पातालनामानि *
पातालं नागलोकश्च बलिवेश्म रसातलम् ।वडवामुखमाख्यातमधोभुवनमित्यपि ॥ २४७७ ॥
6.2477 · p. 400
अनुष्टुप्
* बिलनामानि *
निम्नं निर्व्यथनं रन्ध्रं विवरं च वपाऽन्तरम् ।रोकं रोपं बिलं छिद्रं सुषिरं शुषिरं शुषिः ॥ २४७८ ॥
6.2478 · p. 400
अनुष्टुप्
कुहरं च सुषिरश्चेति नामानि विवरस्थ वै ।कथ्यन्ते कौविदैरत्र पुनर्वै खातमुच्यते ॥ २४७९ ॥
6.2479 · p. 401
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गर्तो वटोऽवटिः श्वभ्रं दरोऽगाधश्च खातकम् ।एतन्नामानि गर्तस्य मन्यन्ते हि महीतले ॥ २४८० ॥
6.2480 · p. 401
अनुष्टुप्