कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

छिद्र

chidraक्ली · neut.

In 17 kośas: 17 synonym verses, 4 as a nānārtha head word, 16 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य नरककाण्डः Abhidhānacintāmaṇi 5.5 · p. 52
रन्ध्रं बिलं निर्व्यथनं कुहरं शुषिरं शुषिः ॥ १३६३ ॥छिद्रं रोपं विवरं च निम्नं रोकं वपान्तरम् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पातालभोगिवर्गः Amarakośa 1.8.1
अधोभुवनं पातालं बलिसद्म रसातलम् ।नागलोकोऽथ कुहरं शुषिरं विवरं बिलम् ॥ १ ॥छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नं (wrong syllable)
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.624 · p. 71
निम्नमगाधो गर्तः श्वभ्रं शुषिरं वपा बिलं विवरम् ।अन्तरमवटुच्छिद्रं निर्व्यथनं रन्ध्ररोककुहरदराः ॥ ६२४ ॥
गीतिः
genderक्लीneut.
गणितनाममाला Gaṇitanāmamālā · हरदत्त राशिसञ्ज्ञा Gaṇitanāmamālā 4.46 · p. 3
निमीलनं च निधनं रंध्रमृत्युर्विनाशनम् ।छिद्रं वसु ततो भाग्यं धर्मं च नवमं तपः ॥ ४६ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव पातालादिप्रकाण्डः Kalpadrukośa 1.15.2 · p. 361
नागपर्यायलोकार्थं स्यादधोऽव्ययमित्यपि ।रोकं विरोकं छिद्रं च रन्ध्रं श्वभ्रं च पुंसि वा ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.4 · p. 302
छिद्रं तु कुहरं रोकं रन्ध्रं[148b] निर्व्यथनं बिलम् ।निम्नं रोपं च विवरं भूकं श्वभ्रं तथान्तरम् ॥ ४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
मांसाभिधानं विवराभिधानं च तीर्थतुण्डे च नपुंसके विद्धि जानीहि । यथा मांसं पलं पललं क्रव्यमित्यादि । इदं विवरं बिलं छिद्रं रन्ध्रं कुहरं सुषिरमित्यादि । इदं तीर्थं पुण्यस्थानम् । तुण्डं वक्त्रम् । यवमाषाद्या व्रीहयः पुंसि । यथा इमे माषाः मुद्गाः कुलत्थाः सोष्टाः गोधूमाः तिलाः कलापाः मसूराः सर्षपाः । प्रियङ्गवश्च स्त्रियामेव । इमाः प्रियङ्गवः ।पल्लव उक्तः पुंसि नपुंसके किसलयं स्त्रियां लाक्षा ।ऋग्रोचना पिडका कण्डूः क्षपा चैव ॥ ५७ ॥
metre not recognised
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 190 · p. 89
शुषिरं विवरं रन्ध्रं छिद्रं गर्ता च गह्वरम् ।श्वभ्रं रस्यं च पातालं नरकं यान्त्यमेधसः ॥ १९० ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.253 · p. 83
रसातलं बलेर्वेश्माधोजगद्वडवामुखम् ।रोपं छिद्रं तथा रन्ध्रं विवरं शुषिरं शुषिः ॥ २५३ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.253 · p. 18
गर्त्तो वटो भूमिखातो भूककुद्भूच्चकस्थलम् ।रन्ध्रं रोकं बिलं छिद्रं सुषिरं विवरं वषा ॥ २५३ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.92 · p. 43
उच्चं प्रांशून्नतं तुङ्गं निम्नं नीचं न्यगानतम् ।विवरं कुहरं छिद्रं रन्ध्रं गर्तावटौ बिलम् ॥ ९२ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि नारकविभागः Suśīlanāmamālā 6.2478 · p. 400
निम्नं निर्व्यथनं रन्ध्रं विवरं च वपाऽन्तरम् ।रोकं रोपं बिलं छिद्रं सुषिरं शुषिरं शुषिः ॥ २४७८ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.3 · p. 37
रन्ध्रं निर्व्यथनं श्वभ्रं च्छिद्रं रोकं दरो बिलम् ।विवरं कुहरञ्चैव शुषिरञ्च वपाशुषिः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.296 · p. 40
कुहरं तु रन्ध्रविवरछिद्रबिलश्वभ्ररोकनिर्व्यथनम् ।अपि सुषिवपे स्त्रियौ स्यादवटो गर्तश्च भूतलश्वभ्रे ॥ २९६ ॥
गीतिःmetre not read in every line
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.18 · p. 124
भूमिश्छिद्रं कृष्ययोग्या प्रहतं नालमुत्थितम् ।खिलं त्वप्रहतं स्थानमूषवत्यूषरेरिणौ ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.2 · p. 148
अगाधो भुवनं रोकं रन्ध्रं निर्व्यथनं बिलम् ।कुहरं सुषिरं छिद्रं श्वभ्रोऽस्त्र्यक्ली सुषिर्वपा ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.144 · p. 213
सुखं दुःखं मलं छिद्रं किलासं सिध्ममर्मरौ ।रभसः पलितं श्वित्रमेतेऽपि त्रिषु धर्मिणि ॥ १४४ ॥
अनुष्टुप्
genderविadj.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.445 · p. 80
छिद्रं रन्ध्रेऽपराधे च दूषणे त्वजयोऽब्रवीत् ।एतेषु क्लीबलिङ्गं स्यात् त्रिषु तुच्छिद्रवत्यदः ॥ ४४५ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास छकारादयः Paramānandīyanāmamālā 5.12.190 · p. 186
छिद्रं व्याजे बिले गर्ते छन्दोऽभिप्रायतन्त्रयोः ।श्रुतौ पद्येच्छयोश्चापि छाया बिम्बार्कयोषयोः ॥ १९० ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1923 · p. 234
छन्दः पद्यश्रूतीच्छासु च्छद्म सद्मनि कैतवे ।छिद्रं तु रन्ध्रावसरापदेशेष्वथ संहतौ ॥ १९२३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्रू (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 6.3.9 · p. 224
छन्दः श्रुतीच्छापद्येषु च्छिद्रं रंध्रापराधयोः ।जालं गवाक्ष आनाये क्षारके कपटे गणे ॥ ९ ॥
अनुष्टुप्

छिद्र as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् अन्तरअन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये ॥ १८७ ॥ छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च । Amarakośa 3.3.352
  • हलायुधकोशः (अभिधानरत्नमाला) अन्तरवस्त्रे मध्ये तथा छिद्रे व्यवधानेऽन्तरात्मनि । अवकाशे बहिर्योगे विशेषेऽवसरेऽन्तरम् ॥ ८७१ ॥ Abhidhānaratnamālā (Halāyudha) 5.871
  • धरणिकोश प्रत्ययप्रत्ययश्च प्रतीते स्यात्प्रकृतेश्च परस्तथा । ज्ञाने च शपथे छिद्रे विश्वासाधीनहेतुषु ॥ Dharaṇikośa 25.3.22
  • धरणिकोश अन्तरअन्तरं स्थानतादर्थ्यछिद्रान्तर्धिविनात्मसु । भेदावसरबाह्येषु मध्यात्मीयावधिष्वपि ॥ Dharaṇikośa 26.3.36
  • कोषकल्पतरु शल्यशरे च वंशादिकवंशिकायां क्ष्वेडेऽन्तिमे तोमरवाचकश्च । छिद्रेऽवधौ मद्रपतौ तु पुंसि गालद्रुमे श्वाविधि तद्वदुक्तः ॥ २९ ॥ Koṣakalpataru 6.26.29
  • कोषकल्पतरु विवरन मन्दिरं ना सदने पुरेऽन्त्ये पुमान्समुद्रे विवरं तु गर्त्ते । स्याच्छिद्ररन्ध्रप्रतिमं च दोषे पूगे पुमान्स्यात्खपुरोऽलसेऽपि ॥ ७ ॥ Koṣakalpataru 6.27.7
  • नानार्थार्णवसंक्षेप खअथ क्लीबे खमाकाशे स्वर्गे छिद्रे गृहेऽभ्रके । नक्षत्रेन्द्रिययोर्ब्रह्मण्यथ हृच्चित्तवक्षसोः ॥ १ ॥ Nānārthārṇavasaṃkṣepa 1.3.1
  • नानार्थार्णवसंक्षेप सुषिरअथो परमशोभायां सुषमा स्त्री त्रि सुन्दरे । सुषिरं तु नपिच्छिद्रे वैजयन्त्यां समीरितम् ॥ १९६६ ॥ Nānārthārṇavasaṃkṣepa 4.1966
  • शब्दरत्नावली अगाधअगाधमतलस्पर्शो त्रिषु छिद्रे तु न द्वयोः । आविद्धः कुटिले मूर्खे वाच्यलिङ्गः पराहते ॥ Śabdaratnāvalī 7.19.23
  • शब्दरत्नावली प्रत्ययआचारशपथाधीनच्छिद्रविश्वासहेतुषु । पर्यायः स्यात्क्रमे पुंसि प्रकारेऽवसरेऽपि च ॥ प्रलयोऽपायकल्पान्तमृत्युमूच्छासु पुंस्ययम् । पर्यण्योऽपि घनस्वाने स्वतद्घनमहेन्द्रयोः ॥ प्रसव्यं प्रतिकूले स्यादनुकूलेऽपि वाच्यवत् । प्रणाय्योऽनभिलाषे स्यात्तथा चासम्मतेऽपि च ॥ Śabdaratnāvalī 7.26.44
  • शब्दरत्नावली रन्ध्ररन्घ्रं छिद्रे भूषणे च रुरुर्ना मृगदैत्ययोः । रेत्रसूतकपीयूषपटवासेषु तेजसि ॥ Śabdaratnāvalī 7.27.40
  • शब्दरत्नावली अन्तरअमरस्त्रिदशे वज्रद्रुमेनेन्द्रपुरि स्त्रियाम् ॥ गुडुच्यामपि दूर्वायां जरायुस्थूनयोरपि । अपरा च जरायौ स्याद्गज(?)पश्चार्द्धके स्त्रियाम् ॥ अर्वाचीने वाच्यलिङ्गमितरस्मिन्नपि त्रिषु । अछरो वसुभेदे स्यात्सावधाने क्रतौ पुमान् ॥ अन्तरे परिधाने स्यादवकाशे परात्मनि । छिद्रतादर्थ्यभेदेषु तुल्येऽवसरमध्ययोः ॥ Śabdaratnāvalī 7.27.52
  • शब्दरत्नावली शुषिरशुषिरं मूषिके च्छिद्रवंश्यादिवाद्यभेदयोः । शुविराप्योषधीभेदे भवेद्रन्ध्रान्विते त्रिषु ॥ शृङ्गारः सुरते नाट्ये रसे ना गजभूषणे । क्लीबं चूर्णे च सिन्दुरे लवङ्गेऽपि च कुत्रचित् ॥ सम्बरो दैत्यभिच्छैलमृगभिन्मीनभित्सु च । बुद्धभेदे पुमान् क्लीबं जले बौद्धव्रतेऽपि च ॥ सङ्करोऽग्निचटत्कारे समार्जन्यवपुञ्जिते ॥ Śabdaratnāvalī 7.27.107
  • शब्दरत्नावली बिलबिलं छिद्रे गुडायाञ्च पुमानुच्चैश्रवोहये । शलो भृङ्गिक्षेत्रभिदोः शलले च विधातरि ॥ शाला वृक्षस्कन्धशाखागृहैकदेशवेश्मसु । शालः स्यान्मत्स्यभेदेऽपि नवभेदेऽपि कुत्रचित् ॥ Śabdaratnāvalī 7.28.35
  • शब्दरत्नाकर अन्तरअवकाशेऽवधौ भेदे विनार्थच्छिद्रयोरपि । अपानः पुंसि देहस्थवायौ पायौ नपुंसके ॥ २०३९ ॥ Śabdaratnākara 4.1.2039
  • वैजयन्ती सुषिरछिद्रे छिद्रान्विते वाद्ये सुषिरं सुषिरो नडः । सुमनाः पुष्पमालत्योः स्त्री देवबुधयोः पुमान् ॥ ९० ॥ Vaijayantī 7.5.90