कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वात्सक

vātsakaक्ली · neut.

In 10 kośas: 10 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1417 · p. 54
उक्षादेरौक्षक मानुष्यकं वार्द्धकमौष्ट्रकम् ॥ १४१६ ॥स्याद्राजपुत्रकं राजन्यकं राजकमाजकम् ।वात्सकौरभ्रके कावचिकं कवचिनामपि ॥ १४१७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.60
गव्या गोत्रा गवां वत्सधेन्वोर्वात्सकधैनुके ॥ ६० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.443 · p. 182
उक्ष्णां स्यादौक्षकं चाथ वत्सानां वात्सकं पुनः ।सद्योजातस्तर्णकः स्याद्दोग्धा वत्सः शकृत्करिः ॥ ४४३ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.37 · p. 285
धेनूनां धैनुकं वृन्दे वत्सानां वात्सकं गणे ।आधेनवं त्वधेनूनां स्याद्धेन्वनडुहं पुनः ॥ ३७ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.309 · p. 90
यौवतं गार्भिणं क्लीबे युवतीगर्भिणीचये ।तथौपगवम[50]प्युक्तमौक्षकं वात्सकं पुनः ॥ ३०९ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.487 · p. 88
गवीनं चाथ वृषभे तूक्षा गौः सौरभेयकः ।गव्या गोत्रा चौक्षकं च गोवृन्दे वात्सकं त्विह ॥ ४८७ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2574 · p. 415
आजकं कथ्यते लोकेऽजकानां प्रकरे बुधैः ।वात्सकं वत्सकव्यूहे मन्यते साक्षरैः पुनः ॥ २५७४ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.121 · p. 145
उक्ष्नां बृन्दे चौक्षकं स्याद् गव्या गोत्रा गवां स्त्रियाम् ।वत्सबृन्दे वात्सकन्तु धेनुवृन्दे च धैनुकम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.749 · p. 95
शुनकी विश्वकद्रुस्तु शुनको मृगयापटुः ।अर्जुन्यघ्न्या रोहिणी सौरभेयीमाहेय्युस्रा शृङ्गिणी गौश्च माता ।गव्या गोत्रा गोगणे वत्सधेन्वो-र्वृन्दे स्यातां वात्सकं धैनुकं द्वे ॥ ७४९ ॥
अनुष्टुप्two metres in one verse
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.10 · p. 186
हास्तिकमौष्ट्रकमौक्षकमौरभ्रकमाजकं गजादीनाम् ।एवं धैनुकवात्सकमाश्वीयं त्वाश्वमश्वानाम् ॥ १० ॥
आर्या
genderक्लीneut.