कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उक्षन्

ukṣanपुं · masc.

In 18 kośas: 19 synonym verses, 3 as a nānārtha head word, 11 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1257 · p. 48
गर्दभस्तु चिरमेही वालेयो रासभः खरः ।चक्रीवाञ्शङ्कुकर्णोऽथ ऋषभो वृषभो वृषः ॥ १२५६ ॥वाडवेयः सौरभैयो भद्रः शक्वरशाक्वरौ ।उक्षानड्वान्ककुद्मान्गौर्बलीवर्दश्च शांकरः ॥ १२५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.104
त्रिष्वाशितङ्गवीनं तद्गावो यत्राशिताः पुरा ।उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः ॥ ५९ ॥अनड्वान्सौरभेयो गौरुक्ष्णां संहतिरौक्षकम् ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.263 · p. 32
उक्षानड्वान्वलीवर्दः ककुद्मान्वृषभो वृषः ।ऋषभः सौरभेयो गौर्वाडवेयोऽथ शाक्वरः ॥ २६३ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चदशोपदेशः Bālaprabodhikā 15.326 · p. 95
उक्षा गौर्वृषलोऽनड्वान्वाह्यः स्कन्धवहो वसी ।गोमहिष्यादिकं जीवधनं स्यात्पादबन्धनम् ।छागो रङ्गस्तु छगणो लम्बकर्णः स्तबः पशुः ॥ ३२६ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 61 · p. 6
इभराजस्तु भद्रः स्यादुक्षोनड्वानितीर्यते ।गजे तु शुण्डसारः स्यात्पद्मवर्णः सुखाशनः ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.439 · p. 181
गौरनड्वान् सौरभेयः ककुद्मान् पुंगवो वृषा ।उक्षा भद्रो वलीवर्दः शष्करिर्गन्धमैथुनः ॥ ४३९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.28 · p. 284
वृषः ककुद्मानृषभोऽप्यनड्वान्स्याद्वाडवेयो वृषभश्च भद्रः ।गौः सौरभेयो वहतुश्च धाको-ऽप्युक्षा बलीवर्द इहापि शक्वा ॥ २८ ॥
उपजातिः
genderपुंmasc.
स्रगादयः शब्दाः स्त्रियां भवन्ति । तद्यथा । इयं स्रक् माला । इयं स्रुक् यज्ञोपकरणभाण्डम् । इयं स्फिक् कटिप्रदेशः । इयं त्वक् बहिश्चर्म । इयं वाक् वाणी । इयं योषित् बाला । द्यौश्च नौश्च द्युनावौ च स्त्रियां भवतः इयं द्यौः स्वर्गः । इयं नौः जलतरणिः । हिशब्दः पादपूरणे । दीधितिमेकां वर्ज्जयित्वा रश्मिवाचकाः शब्दाः पर्यायाश्च ये ते पुंसि भवन्ति । तद्यथा इमे रश्मयः प्रग्रहाः किरणाः अंशवः पादाः मयूखाः अभीषवः गभस्तयः घृणय इत्येवमादयः । तुशब्दः पादपूरणे ।मूर्द्ध्नोऽक्षतक्षमज्जश्लेष्मात्माश्मयु[यू]वपूषराजभी रहितम् ।सर्वं द्व्यच्कं नान्तं नपुंसकं पुंसि वा भवेद्ब्रह्मा ॥ १९ ॥
metre not recognised
genderपुंmasc.
मूर्द्धन् उक्षन् तक्षन् मज्जन् श्लेष्मन् आत्मन् अश्मन् युवन् पूषन् इत्येतैः शब्दै रहितं वर्जितं यदन्यत् द्व्यच्कं द्विस्व[श्व]रं च नान्तं प्रातिपदिकं तत्सर्वं नपुंसकं भवति । यथा इदं चर्म वर्म शर्म भस्म सद्म लोम इत्येवमादयः । मूर्द्धादयोऽपि नान्तत्वात् द्व्यच्का अतस्तेषामपि नपुंसकता प्राप्नोति । तदर्थमिति प्रतिषेधः कृतः मूर्द्धोऽक्षतक्षेत्यादि पुंल्लिङ्गाधिकारात्पुंसि भवन्ति । यथा अयं मूर्द्धा शिरः । उक्षा वृषभः । मज्जा सारः । तक्षा वर्द्धकिः । श्लेष्मा धातुविकारः । आत्मा शरीरस्थः । अश्मा नीलः । युवा तरुणः । पूषादित्यः पुंसि वा भवेद्ब्रह्मेति । द्वच्कत्वान्नान्तत्वाच्च ब्रह्मशब्दस्य नपुंसकत्वे प्राप्ते पुंस्त्वं वा विधीयते ब्रह्मशब्दो वा नपुंसकलिङ्गो भवति । इदं ब्रह्मा वेदाध्ययनमीश्वरश्च । अयं ब्रह्मा प्रजापतिः । यद्येवं यत् द्व्यच्कं नान्तं तन्नपुंसकम् । एवं सति राजन् शब्दस्यापि नपुंसकता स्यात् पुंस्यन्तर्भावो द्रष्टव्यः ।त्रुटिसीमसन्ध्यारात्रयः स्त्रियां धूलिवेणिखार्यश्च ।पुंसि निशीथो ज्योत्स्नादयाशलाका स्त्रियां नित्यम् ॥ २० ॥
metre not recognised
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.90 · p. 19
आपीनमूधो वृन्तस्तु स्तनो वत्सस्तु तर्णकः ।उक्षा गौर्वृषलोऽनड्वान्वाह्यः स्कन्धवहो वशी ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.166 · p. 72
अनङ्वान्वाडवेयोऽपि उक्षा शक्करशाक्करौ ।सौरभेयः ककुद्मांश्च भद्रो गौः शाङ्करस्तथा ॥ १६६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.167 · p. 72
बलीवर्दोऽथ जातोक्षे उक्षा स्यात्स्कन्धिकस्तथा ।अथोक्षतरमहोक्षौ वृद्धोक्षतु जरद्गवे ॥ १६७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.487 · p. 88
गवीनं चाथ वृषभे तूक्षा गौः सौरभेयकः ।गव्या गोत्रा चौक्षकं च गोवृन्दे वात्सकं त्विह ॥ ४८७ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त चतुःपदमरीचिः Pañcatattvaprakāśa 1.3.129 · p. 9
उक्षा वृषो बलीवर्द्दो वृषभो गौर्विषाणभृत् ।धेनुर्गौः सुरभिर्गृष्टिर्वत्सकस्तर्णकोऽर्णकः ॥ १२९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.160 · p. 17
अयनं सरणिः पथ्या रथ्या वीथी च संचरः ।उक्षा गौर्वृषभोऽनड्वान्भद्रः शार्करशर्करौ ॥ १६० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2269 · p. 369
ऋषभो वृषभोऽनड्वान् भद्रो बलीवर्दो वृषः ।शक्करः शाक्वर उक्षा सौरभेयश्च शाङ्करः ॥ २२६९ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.120 · p. 145
गोमान् गोमी गोपतौ तद्व्रजे गोधनगोकुले ।स्यादाशितं गवीनं तत् तृप्तिस्थानं गवां पुरा ॥गोवृषो वृषभः शृङ्गी वलीवर्दर्षभौ वृषः ।उक्षाऽनड्वान् सौरभेयः ककुद्मान् भद्र इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.758 · p. 97
ऋषभस्तु बलीवर्दः पुंगवो वृषभो वृषः ।उक्षा भद्रः ककुद्मान् गौः सौरभेयश्च शाक्वरः ॥ ७५८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.52 · p. 69
विषाणी वृषभः शृंगी वाहो गौरक्षधूर्तिलः ।उक्षा गौर्वृषलोऽनड्वान्वाह्यः स्कन्धवहो वही ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.10 · p. 43
धनुर्मकरकुम्भानां क्रमाद्द्वादशराशिनि ।ध्वजधूममृगेन्द्राणां श्वोक्षरासभहस्तिनाम् ॥ १० ॥
अनुष्टुप्
meanings
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.107 · p. 52
उक्षा पुंसि बलीवर्दे महति त्रिरुषाः पुनः ।सन्ध्याप्रभातयोर्नप्स्त्री स्यादूर्जः कार्त्तिके पुमान् ॥ १०७ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पर्यायसंयोगन्यायप्रदर्शनाध्यायः Vaijayantī 8.6.5 · p. 281
शर्वर्यास्तु हरिद्रायां प्रियंगुव्रततौ स्त्रियाः ।ध्वजधूममृगेन्द्राणां श्वोक्षरासभहस्तिनाम् ॥ ५ ॥
अनुष्टुप्
meanings

उक्षन् as a meaning in nānārtha verses