सौरभेयी
saurabheyīस्त्री · fem.In 14 kośas: 13 synonym verses, 3 as a meaning of another word.
गौः सौरभेयी माहेयी माहा सुरभिरर्जुनी ।उस्राघ्न्या रोहिणी शृङ्गिण्यनड्वाह्यनडुह्युषा ॥ ॥ १२६५ ॥तम्पा निलिम्पिका तम्बा सा तु वर्णैरनेकधा ।
अनुष्टुप्doubled daṇḍa: ॥ ॥
genderस्त्रीfem.
माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी ॥ ६६ ॥
अनुष्टुप्
genderस्त्रीfem.
अघ्न्या गौर्माहेयी सुरभिर्बहुला च सौरभेयी च ।उस्रार्जुनी च रोहिण्युक्तानडुही बुधैरनड्वाही ॥ २६८ ॥
गीतिः
genderस्त्रीfem.
करेणुका करिण्यां स्याद्वमथुः करशीकरः ।सौरभेयी शृङ्गिणी गौः शुभार्धा लम्बिका मही ॥ ३२४ ॥
अनुष्टुप्
genderस्त्रीfem.
अनड्वाही सौरभेयी वन्दनीया च शृङ्गिणी ।अर्जुन्यनडुही चेडा रोहिणी जगती महा ॥ ४५५ ॥
अनुष्टुप्
genderस्त्रीfem.
सौरभेयी च माहेयी तम्पा तम्बा निलिम्पिका ।उषा शृङ्गिण्यर्जुनी च रोहिणी सुरभिश्च सा ॥ ४१ ॥
अनुष्टुप्
genderस्त्रीfem.
सौरभेयी शृङ्गिणी गौरर्घ्या महिरुषा शुभा ।तम्पा तम्बा निलिम्पा चोस्रानड्वाहीनिलिम्पिकाः ॥ ८४ ॥
अनुष्टुप्
genderस्त्रीfem.
सुरभिः सौरभेयी तु माहेयी गौस्तथार्जुनी ।निलिम्पा शृङ्गिणी चोषानङ्वाह्यनडुही समा ॥ १७४ ॥
अनुष्टुप्
genderस्त्रीfem.
गोजातीयस्त्रियां प्रोक्ता माहेयी शृङ्गिणी च गौः ।अघ्न्या माहा रोहिणी च सौरभेयापि(य्यपि?) चार्जुनी ॥ ४९६ ॥
अनुष्टुप्
genderस्त्रीfem.
बलीवर्दः सौरभेयः ककुद्माञ्शांकरो वृषः ।सुरभिर्गौरनड्वाही सौरभेयी च रोहिणी ॥ १६१ ॥
अनुष्टुप्
genderस्त्रीfem.
गवी गौः सुरभिर्माता माहेयी शृङ्गिनी महा ।उस्रा निलिम्पा सुरभी सौरभेयी च रोहिनी ॥
अनुष्टुप्
genderस्त्रीfem.
शुनकी विश्वकद्रुस्तु शुनको मृगयापटुः ।अर्जुन्यघ्न्या रोहिणी सौरभेयीमाहेय्युस्रा शृङ्गिणी गौश्च माता ।गव्या गोत्रा गोगणे वत्सधेन्वो-र्वृन्दे स्यातां वात्सकं धैनुकं द्वे ॥ ७४९ ॥
अनुष्टुप्two metres in one verse
genderस्त्रीfem.
नीलशीर्षोऽप्यथ क्ष्विंको वानरो रोहिताननः ।शृंगिणी सौरभेयी गौरर्घ्या माहेय्युषा शुभा ॥ ४१ ॥
अनुष्टुप्
genderस्त्रीfem.
सौरभेयी as a meaning in nānārtha verses
- कोषकल्पतरु धवलसितवर्णे तद्वति तु त्रितये तद्वत्स सुन्दरेऽपि स्यात् । योषिति तु सौरभेय्यां कुवलं त्रिषु चोत्पले बदरे ॥ ३ ॥ Koṣakalpataru 6.28.3
- नानार्थार्णवसंक्षेप सौरभेयगन्धद्रव्ये गन्धकाख्ये वातौ तु स्यान पुमानसौ । सौरभेयस्तु वृषभे ना स्त्री तु सुरभावियम् ॥ ६८९ ॥ Nānārthārṇavasaṃkṣepa 6.689
- नानार्थार्णवसंक्षेप सौरभेयसौरभे(ये?यी) प्रसिद्धे तु धातुभेदे नपुंसकम् । हरितालं स्त्रियां तु स्याद् दूर्वायां हरिताल्यसौ ॥ ६९० ॥ Nānārthārṇavasaṃkṣepa 6.690