औक्षक
aukṣakaक्ली · neut.In 10 kośas: 10 synonym verses.
उक्षादेरौक्षक मानुष्यकं वार्द्धकमौष्ट्रकम् ॥ १४१६ ॥स्याद्राजपुत्रकं राजन्यकं राजकमाजकम् ।वात्सकौरभ्रके कावचिकं कवचिनामपि ॥ १४१७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
त्रिष्वाशितङ्गवीनं तद्गावो यत्राशिताः पुरा ।उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः ॥ ५९ ॥अनड्वान्सौरभेयो गौरुक्ष्णां संहतिरौक्षकम् ।
अनुष्टुप्
genderक्लीneut.
उक्ष्णां स्यादौक्षकं चाथ वत्सानां वात्सकं पुनः ।सद्योजातस्तर्णकः स्याद्दोग्धा वत्सः शकृत्करिः ॥ ४४३ ॥
अनुष्टुप्
genderक्लीneut.
गलिः शक्तोऽप्यधूर्वोढा त्रिषु स्युः स्कान्धिकादयः ।औक्षकं तूक्षवृन्देऽन्त्येऽथोक्ष्णः स्यादिदमादिषु ।औक्षमौक्ष्णं त्वपत्येऽस्य गव्या गोत्रे गवां व्रजे ॥ ३६ ॥
अनुष्टुप्
genderक्लीneut.
यौवतं गार्भिणं क्लीबे युवतीगर्भिणीचये ।तथौपगवम[50]प्युक्तमौक्षकं वात्सकं पुनः ॥ ३०९ ॥
अनुष्टुप्
genderक्लीneut.
गवीनं चाथ वृषभे तूक्षा गौः सौरभेयकः ।गव्या गोत्रा चौक्षकं च गोवृन्दे वात्सकं त्विह ॥ ४८७ ॥
अनुष्टुप्
genderक्लीneut.
उक्षादेरौक्षकं मानुष्यकं तु मनुष्यव्रजे ।वार्द्धकं वृद्धवृन्दे स्यादौष्ट्रकमुष्ट्रकव्रजे ॥ २५७२ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 नु (wrong syllable); pāda 4, syllable 3 क (wrong syllable)
genderक्लीneut.
उक्ष्नां बृन्दे चौक्षकं स्याद् गव्या गोत्रा गवां स्त्रियाम् ।वत्सबृन्दे वात्सकन्तु धेनुवृन्दे च धैनुकम् ॥
अनुष्टुप्
genderक्लीneut.
पृष्ठ्यस्तु पृष्ठवाहः स्यात् प्रष्ठवाड्युगपार्श्वगः ।औक्षकं संघ उक्ष्णां स्याद्गोशकृद्गोमयोऽस्त्रियाम् ॥ ७६६ ॥
अनुष्टुप्
genderक्लीneut.
हास्तिकमौष्ट्रकमौक्षकमौरभ्रकमाजकं गजादीनाम् ।एवं धैनुकवात्सकमाश्वीयं त्वाश्वमश्वानाम् ॥ १० ॥
आर्या
genderक्लीneut.