कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गोत्रा

gotrāस्त्री · fem.

In 16 kośas: 24 synonym verses, 6 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1 · p. 37
भूर्भूमिः पृथिवी पृथ्वी वसुधोर्वी वसुंधरा ।धात्री धरित्री धरणी विश्वा विश्वंभरा धरा ॥ ९३५ ॥क्षितिः क्षोणी क्षमानन्ता ज्या कुर्वसुमती मही ।गौर्गोत्रा भूतधात्री क्ष्मा गन्धमाताचलावनिः ॥ ९३६ ॥सर्वंसहा रत्नगर्भा जगती मेदिनी रसा ।काश्यपी पर्वताधारा स्थिरेला रत्नबीजसूः ॥ ९३७ ॥विपुला सागराच्चाग्रे स्युर्नेमीमेखलाम्बराः ।
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.74 · p. 54
वातूलवात्ये वातानां गव्यागोत्रे पुनर्गवाम् ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह भूमिवर्गः Amarakośa 2.1.1
भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा ।धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः ॥ २ ॥सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा ।गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही ॥ ३ ॥विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा ।भूतधात्री रत्नगर्भा जगती सागराम्बरा ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.60
गव्या गोत्रा गवां वत्सधेन्वोर्वात्सकधैनुके ॥ ६० ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.156 · p. 20
भूर्भूमिर्वसुधावनिर्वसुमती धात्री धरित्री धरा,गौर्गोत्रा जगती रसा क्षितिरिला क्षोणी क्षमा क्ष्माचला ।कुः पृथ्वी पृथिवी स्थिरा च धरणी विश्वम्भरा मेदिनी,ज्यानन्ता विपुला समुद्रवसना सर्वंसहोर्वी मही ॥ १५६ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम भूम्यधिकारस्तृतीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 3.3 · p. 22
धरा गोत्रा गोमती च धारिणी रुणात्मजा ।अगः शैलो दुर्गमश्च पर्वतः सानुमानपि ॥ ३ ॥
metre not recognisednearly अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव अङ्कुरोद्गमः Kalpadrukośa 1.1.16 · p. 2
विश्वंभराद्या जगती गोत्रा पृथ्वीरसा पुनः ।क्षोणी सर्वंसहा क्षोणिः कुम्भिन्यपि च निर्ऋतिः ॥ १६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.442 · p. 181
वृद्धोक्षश्चापि जातोक्षः संजातोक्षश्च नूतने ।गव्या गोत्रा च धेनूनां संहतौ धैनुकं पुनः ॥ ४४२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.3 · p. 113
भूः पृथ्वी पृथिवी रसा च पृथवी धात्री धरित्री धराभूमिर्भूर्णिरिला भुरिग्वसुमती क्षोणी क्षितिः क्ष्मा क्षमा ।गौर्गोत्रा जगती स्थिरा कुरवनिर्विश्वाथ विश्वंभरा-ऽनन्ता ज्या च वसुंधरा च वसुधा सर्वंसहा मेदिनी ॥ ३ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.226 · p. 32
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.37 · p. 215
अन्नाबन्तोत्तरादन्यो द्विगुः सर्वो नपुंसकः ।लिदन्ता ग्रामतागोत्रारथकट्यादयः स्त्रियाम् ॥ ३७ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.487 · p. 88
गवीनं चाथ वृषभे तूक्षा गौः सौरभेयकः ।गव्या गोत्रा चौक्षकं च गोवृन्दे वात्सकं त्विह ॥ ४८७ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.106 · p. 12
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1589 · p. 255
गोत्रा सागरनेमी च गोत्रकीला जगद्वहा ।अवनिश्चावनी गोर्गौः बीजसूः रत्नसूस्तथा ॥ १५८९ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2581 · p. 416
गवां तु समवाये स्याद् गव्या गोत्रा द्वयं पुनः ।पाश्या च पाशसङ्घाते खल्या खलनरव्रजे ॥ २५८१ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.2 · p. 46
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.121 · p. 145
उक्ष्नां बृन्दे चौक्षकं स्याद् गव्या गोत्रा गवां स्त्रियाम् ।वत्सबृन्दे वात्सकन्तु धेनुवृन्दे च धैनुकम् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.17 · p. 309
स्त्रियां ए प्रत्यये गोत्रा वरत्राद्या निपातनात् ।वृन्दादन्यत्र दण्डी च मुख्य इत्यादयोऽन्यवत् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.366 · p. 49
भूर्भूमिर्वसुधा मही वसुमती विश्वंभरा मेदिनीगोत्रा गौर्धरणी समुद्ररशना सर्वंसहोर्वी क्षमा ।पृथ्वी क्ष्मा पृथिवी रसा क्षितिरिलानन्ताचला काश्यपीक्षोणी ज्या जगती स्थिरा कुरुवनी धात्री धरित्री धरा ॥ ३६६ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.749 · p. 95
शुनकी विश्वकद्रुस्तु शुनको मृगयापटुः ।अर्जुन्यघ्न्या रोहिणी सौरभेयीमाहेय्युस्रा शृङ्गिणी गौश्च माता ।गव्या गोत्रा गोगणे वत्सधेन्वो-र्वृन्दे स्यातां वात्सकं धैनुकं द्वे ॥ ७४९ ॥
अनुष्टुप्two metres in one verse
genderस्त्रीfem.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.57 · p. 40
शिखी गोत्रा तोय-शून्ये जवी द्युतीरभिस्मृतः ।भूमी रसो नभश्चैव व्याप्तं दाहो रसाऽम्बु चा ॥ ५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्यु (wrong syllable)
genderस्त्रीfem.
तन्त्राभिधान Tantrābhidhāna · अज्ञात क्ष Tantrābhidhāna 8.52.58 · p. 60
धरा क्ष्मा भूः स्थिरा ज्या कुर्गोत्रा भूमी रसा इला ।दशानां भूमिवर्णानां संज्ञा प्रोक्ता विचक्षणैः ॥ ५८ ॥
अनुष्टुप्
genderस्त्रीfem.
तन्त्राभिधान Tantrābhidhāna · अज्ञात भूमिवर्णाः Tantrābhidhāna 9.3.1 · p. 60
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.13 · p. 187
भैक्षसाहस्रकारीषवार्मणानि च तद्गणे ।रथकड्या तु रथ्या स्याद् गोत्रा गव्या च गोगणे ॥ १३ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास रश्लोकः Dharaṇikośa 26.3.5 · p. 179
गोत्रा विश्वंभरा ज्ञेया गोत्रा गोनिकुरुम्बकम् ।नाम गोत्रं कुलं गोत्रं गोत्रश्च धरणीधरः ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.369 · p. 74
कुत्सितार्थे च गोत्रा तु स्त्री भूमौ गोगणे त्रि तु ।गोत्रातर्यथ गोपस्त्रिर्गोपाले ना तु गोपने ॥ ३६९ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास गकारादयः Paramānandīyanāmamālā 5.9.156 · p. 181
गोत्रो भूध्रेऽथ गोत्रं स्याच्छत्रेऽरण्ये च वर्त्मनि ।नाम्नि क्षेत्रेऽन्वये गोत्रा भूमौ गोनिचये पुनः ॥ १५६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.10 · p. 265
त्रिलिङ्गं दुर्जरेत्यर्थे महत्यलघुनीत्यपि ।गोत्रं कुलास्ययोर्गोत्रः शैले कुगव्ययोः स्त्रियाम् ॥सम्भावनीयबोधे च विपिनच्छत्रवर्त्मसु ।गौरं श्वेतेऽरुणे पीते विशुद्धेऽप्यभिधेयवत् ॥क्लीबं पद्मकेशरे स्याच्चन्द्रसर्षपयोः पुमान् ।गौरीभवानीवसुधाप्रियङ्गुरोचनासु च ॥असञ्जातरजः कन्या वरुणाणी नदीषु च ।घोरो भीमे महेशे च घस्त्रो दिवसहिंस्रयोः ॥चरश्चारे द्यूतभेदे भौमे च जङ्गमे गमे ।चन्द्रः सुधांशुकाम्पिल्लकर्पूरे काञ्चने जले ॥चक्रमस्त्रे व्रजे सैन्ये रथाङ्गे राष्ट्रदम्भयोः ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 4 द्म (wrong syllable); pāda 4, syllable 3 ङ्गु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1910 · p. 233
अभ्यन्तरेऽपवरके सुते केशान्तरस्रजि ।गोत्रं नाम्नि कुले पुंसि शैले स्त्री भुवि गोगणे ॥ १९१० ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.28 · p. 232
मात्रादौ स्त्री बृहत्ख्यातदुर्भरालघुषु त्रिषु ।गोत्रा गोनिचये भूम्यां गोत्रं नाम्नि कुलेऽचले ॥ २८ ॥
अनुष्टुप्