कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

सामान्यकाण्डः · गणाध्यायः

इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां पातालकाण्डे भूताध्यायः

पातालकाण्डस्समाप्तः

पूगप्रकरसंघातविसरव्रातसंचयाः ।वारस्कन्धगणस्तोमसमवायचयव्रजाः ॥ १ ॥
5.1.1 · p. 186
अनुष्टुप्
सन्दोहनिवहव्यूहसमूहनिकराकराः ।समुदायः समुदयो निकुरुंबं कदम्बकम् ॥ २ ॥
5.1.2 · p. 186
अनुष्टुप्
बृन्दं जातं चक्रवालं जालकं पेटकं जटा ।धान्यादिबृन्दे कूटोऽस्त्री राशिपुंजोत्करा नरि ॥ ३ ॥
5.1.3 · p. 186
अनुष्टुप्
बृन्दे तिरश्चां यूथोऽस्त्री निकायस्तु सधर्मणाम् ।संघसार्थौ तु जन्तूनां वर्गस्तु सदृशां गणे ॥ ४ ॥
5.1.4 · p. 186
अनुष्टुप्
पशूनां समजोऽन्येषां समाजो धीमतां सभा ।उद्भिज्जानां तु षण्डोऽस्त्री स्कन्धोऽश्वनरहस्तिनाम् ॥ ५ ॥
5.1.5 · p. 186
अनुष्टुप्
पटल्यपुं सुश्लिष्टानां सजातीयगणे कुलम् ।शौककापोतशाबाद्याः शुकादीनां गणे नपुम् ॥ ६ ॥
5.1.6 · p. 186
अनुष्टुप्
क्ली गोत्रप्रत्ययान्तेभ्यः स्यादौपगवकादिकम् ।माणवानां तु माणव्यं बाडब्यं तु द्विजन्मनाम् ॥ ७ ॥
5.1.7 · p. 186
अनुष्टुप्
राजन्यकं मानुष्यकं राजकं च पृथक् पृथक् ।गार्भिणं यौवनं तासां गाणिक्यं गणिकागणे ॥ ८ ॥
5.1.8 · p. 186
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नु (wrong syllable)
जनबन्धुगजग्रामसहायानां गणे स्त्रियः ।जनताबन्धुतेत्याद्या बाडवं बडबागणे ॥ ९ ॥
5.1.9 · p. 186
अनुष्टुप्
हास्तिकमौष्ट्रकमौक्षकमौरभ्रकमाजकं गजादीनाम् ।एवं धैनुकवात्सकमाश्वीयं त्वाश्वमश्वानाम् ॥ १० ॥
5.1.10 · p. 186
आर्या
सवर्मणां कावचिकं पादातं पादचारिणाम् ।आपूपिकं शाष्कुलिकमित्यादिकमचेतसाम् ॥ ११ ॥
5.1.11 · p. 186
अनुष्टुप्
कैदारिकं तु कैदार्यं क्षैत्रं कैदारकं समम् ।केशानां कैशिकं कैश्यं खल्या तु खलिनी समे ॥ १२ ॥
5.1.12 · p. 187
अनुष्टुप्
भैक्षसाहस्रकारीषवार्मणानि च तद्गणे ।रथकड्या तु रथ्या स्याद् गोत्रा गव्या च गोगणे ॥ १३ ॥
5.1.13 · p. 187
अनुष्टुप्
धूम्या वात्या पाश्या हल्या गल्या नट्या वन्या तृण्या ।पृष्ठ्यं तत्तद्वृन्दे सर्वं पार्श्वं बृन्दे पर्शूनां स्यात् ॥ १४ ॥
5.1.14 · p. 187
metre not recognised
मिथुनं द्वितयं द्वैतं द्वयं द्वंद्वं युगं यमम् ।यमलं युगलं युग्मं युतकं च द्वयोर्गणे ॥ १५ ॥
5.1.15 · p. 187
अनुष्टुप्
त्रयं त्रयाणां त्रितयं मिथुनं तद्वति त्रिषु ।स्त्रीपुंसयोस्तु मिथुनं कशिपुः स्त्र्यन्नवस्त्रयोः ॥ १६ ॥
5.1.16 · p. 187
अनुष्टुप्
औशीरं शय्यासनयोर्लिंगं बुद्ध्यादिसंगतौ ।ग्रामः परोऽस्त्राद्विषयात् (गुणाद्) भूतेन्द्रियार्थकात् ॥ १७ ॥
5.1.17 · p. 187
अनुष्टुप्metre not read in every line
पक्षः पाशश्च हस्तश्च केशार्थेभ्यः परो गणे ।पशूनां गोयुगं युग्मे तत्तदाह्वयपूर्वकम् ॥ १८ ॥
5.1.18 · p. 187
अनुष्टुप्
गणपूरणं गणतिथं पूगतिथं चैवमेव संघतिथम् ।बहुतिथसंवत्सरतममासतमान्यर्धमासतमम् ॥ १९ ॥
5.1.19 · p. 187
आर्या
यावतिथैतावतिथे तावतिथं कतिथमपि च कतिपयथम् ।पंचमसप्तमनवमान्यष्टमदशमद्वितीयानि ॥ २० ॥
5.1.20 · p. 187
आर्या
षष्ठं प्रथमतृतीये तुरीयतुर्ये चतुर्थं च ।द्वादशमेकादशमिति रूपं स्याद्विंशतेरर्वाक् ॥ २१ ॥
5.1.21 · p. 187
metre not recognised
विंशं विंशतितममेकविंशमितिवत्परं द्विधा सर्वम् ।षष्टितममितिवदेकं रूपमसंख्यादिषष्ट्यादेः ॥ २२ ॥
5.1.22 · p. 187
आर्या
शततममेकशततमं सहस्रतममिति च सर्वमेकविधम् ।ओजमयुग्मं युग्मं युगिति द्वितीयतुर्यादि ॥ २३ ॥
5.1.23 · p. 187
आर्याmetre not read in every line
त्रिष्वेते पूरणार्थाः स्युः शब्दा गणतिथादयः ।आवलिः पद्धतिः पङ्क्तिरालिर्लेखा च मालिका ॥ २४ ॥
5.1.24 · p. 188
अनुष्टुप्
एकादयश्च संख्येये शब्दाः प्राग्विंशतेस्त्रिषु ।द्वित्रा द्वौ वा त्रयो वा स्युरेवं त्रिचतुरा अपि ॥ २५ ॥
5.1.25 · p. 188
अनुष्टुप्
चतुःपंचाः पंचषाश्च षट्सप्ताद्याश्च तादृशाः ।स्त्री पड्क्तिर्विंशस्त्रिंशच्चत्वारिंशच्च पंचाशत् ॥ २६ ॥
5.1.26 · p. 188
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 र्विं (syllables merged); pāda 4, syllable 7 चा (wrong syllable)
षष्टिः सप्तत्यशीतिश्च नवतिश्च दशोत्तराः ।क्रमेणाथ परेणाथ परे दशगुणोत्तराः ॥ २७ ॥
5.1.27 · p. 188
अनुष्टुप्
शतं सहस्रमयुतं नियुतं प्रयुतार्बुदे ।न्यर्बुदं बृन्दखर्वे च निखर्वं शंखमंबुजम् ॥ २८ ॥
5.1.28 · p. 188
अनुष्टुप्
समुद्रो मध्यमन्तं च परार्धं च यथाक्रमम् ।परं परार्धाद्द्विगुणमथ स्त्री कोटिरर्बुदे ॥ २९ ॥
5.1.29 · p. 188
अनुष्टुप्
व्यत्यासेन तु दृश्येते नियुतप्रयुते क्वचित् ।बृन्दादिषु तु षट्स्वन्ये निखर्वं बद्धमक्षितम् ॥ ३० ॥
5.1.30 · p. 188
अनुष्टुप्
व्योम चांतश्च सर्वश्च समुद्राद्यास्तु वा त्रिषु ।अन्ये त्वाहुः शतं कोटिः शंकुर्बृन्दं महागणः ॥ ३१ ॥
5.1.31 · p. 188
अनुष्टुप्
पद्मं महांबुजं चेति क्रमाल्लक्षगुणोत्तरम् ।सहस्राणां शते लक्षा लक्षं च नियुतं च तत् ॥ ३२ ॥
5.1.32 · p. 188
अनुष्टुप्
पङ्क्त्यादयः स्युः संख्यायां संख्येयेषु च वस्तुषु ।संख्यायां द्व्येकबहुताः संख्येयेषु सदैकता ॥ ३३ ॥
5.1.33 · p. 188
अनुष्टुप्
तद्यथा विंशतिर्गावः स्वावृत्तौ जातु नैकता ।तद्यथा विंशतिर्विप्रास्तिस्रो विंशतयो भटाः ॥ ३४ ॥
5.1.34 · p. 188
अनुष्टुप्
बहुव्रीहौ बहुवचो वाच्यलिंगं च तद्यथा ।उपविंशैर्भुजैर्भुक्तमुपत्रिंशा अजा इति ॥ ३५ ॥
5.1.35 · p. 188
अनुष्टुप्
कला गणनसंख्याने हननं ताडनं समे ।वर्गस्तावत्कृतिश्चेति तावत्कृत्वः कृतेर्द्वयम् ॥ ३६ ॥
5.1.36 · p. 189
अनुष्टुप्
तन्मूले तु पुमान्हेतुर्गच्छा वांछितराशयः ।गंडः कपर्दाश्चत्वारस्ते बोध्री पंच तद्वयम् ॥ ३७ ॥
5.1.37 · p. 189
अनुष्टुप्
बिन्दुकोऽस्त्री तद्द्वये तु पणपाणिकपादिकाः ।क्रमात्ततोंऽगजो रुच्यः कार्षिकश्च चतुर्गुणाः ॥ ३८ ॥
5.1.38 · p. 189
अनुष्टुप्
कार्षापणः कार्षिकः स्यात् स षोडशपणः क्वचित् ।लोहे विंशतिमाषोऽसौ कार्षिके ताम्रिके पणः ॥ ३९ ॥
5.1.39 · p. 189
अनुष्टुप्
ताम्रकर्षकृता मुद्रा क्वचित्कार्षापणः पणः ।स एव चाधिकेत्युक्तो धानका तच्चतुष्टयम् ॥ ४० ॥
5.1.40 · p. 189
अनुष्टुप्
ता द्वादश सुवर्णोऽस्त्री निष्को दीनार इत्यपि ।साशीतिपणसाहस्रो दण्ड उत्तमसाहसः ॥ ४१ ॥
5.1.41 · p. 189
अनुष्टुप्
त्रसरेणुभिरष्टाभिर्लिक्षा सैव मरीचिका ।रथरेणुश्च रेणुश्च तास्तिस्रो राजसर्षपः ॥ ४२ ॥
5.1.42 · p. 189
अनुष्टुप्
धुरणश्च यवाग्रश्च ते त्रयो गौरसर्षपः ।तेऽष्टौ यवः षोडश तु यवा माषोऽथवा त्रिभिः ॥ ४३ ॥
5.1.43 · p. 189
अनुष्टुप्
यवैर्गुंजा पंच गुंजा माषः कुप्ये तु सप्त ताः ।रूप्यमाषो द्विगुंजो वा धरणं षोडशैव ते ॥ ४४ ॥
5.1.44 · p. 189
अनुष्टुप्
शतमानं तु दशभिर्धरणैः पलमेव च ।माषस्तण्डुलमात्रो वा हेम्नस्तैरष्टभिः पणः ॥ ४५ ॥
5.1.45 · p. 189
अनुष्टुप्
निष्कोऽस्त्री विंशतिपणस्तेऽष्ट वा दश वा पलम् ।यः पंचकृष्णलो माषः कुप्ये वा सप्तकृष्णलः ॥ ४६ ॥
5.1.46 · p. 189
अनुष्टुप्
तौ द्वौ माषावर्णिका स्याल्लोहितीकं त्रिमाषकम् ।शाणो मण्डः पिचूलं च माषाः स्युश्चतुरादयः ॥ ४७ ॥
5.1.47 · p. 189
अनुष्टुप्
मक्षुणं सप्तमाषं स्यादण्डिका स्याच्चतुर्यवा ।द्रक्षणं द्रक्षुमं कोलं वटकं चाष्टमाषके ॥ ४८ ॥
5.1.48 · p. 190
अनुष्टुप्
तृतीये ध्वानका शाणभागे माषास्तु षोडश ।सुवर्णोऽक्षः पिचुः पाणिः कर्षोऽस्त्री क्रोडबिंदुके ॥ ४९ ॥
5.1.49 · p. 190
अनुष्टुप्
बिडालपादकं हंसपदं ग्रासग्रहं तलम् ।शतमानं तु कर्षे द्वे शुक्तिरष्टमिका न ना ॥ ५० ॥
5.1.50 · p. 190
अनुष्टुप्
ते द्वे चतुर्थिका वा क्ली निकुंच्याज्यपलानि च ।बिल्वः प्रकुंचं मुष्टिश्च हेम्नोऽक्षे विस्तवारटौ ॥ ५१ ॥
5.1.51 · p. 190
अनुष्टुप्
पादिकं ताम्रकर्षं स्यादिन्दुः स्याद्रजते पले ।कुरुविस्तः पले हेम्नः प्रसृतोऽस्त्री द्विमुष्टिके ॥ ५२ ॥
5.1.52 · p. 190
अनुष्टुप्
प्रसृतौ द्वावंजलिः स्यात् कुडपो वाहिकोऽध्युषः ।तौ द्वौ मान्यष्टमानं च ते द्वे प्रस्थस्स कुप्यके ॥ ५३ ॥
5.1.53 · p. 190
अनुष्टुप्
द्वात्रिंशत्पलकोऽन्येषां द्वादशैव पलानि सः ।चतुष्प्रस्थः पुना राशिर्महोद्रेको बृहाणकः ॥ ५४ ॥
5.1.54 · p. 190
अनुष्टुप्
पात्रं शूर्पावरं पिष्टं सेहिका द्व्याढकोऽस्त्रियाम् ।कंसं चाथ चतुष्के स्युर्द्रोणोऽस्त्री कलशो घटः ॥ ५५ ॥
5.1.55 · p. 190
अनुष्टुप्
अर्मणं नल्वलं शौर्पमुन्मानं तद्द्वयं पुनः ।कुंभः शूर्पोऽस्त्रियां तौ द्वौ गोणी वाहस्तु तद्द्वयम् ॥ ५६ ॥
5.1.56 · p. 190
अनुष्टुप्
तौ द्वौ खारी परे त्वेनां विदुः कुंभीं परे पुनः ।खारीं कंसयुगेनान्ये मानीं वाहं परे विदुः ॥ ५७ ॥
5.1.57 · p. 190
अनुष्टुप्
वाहं केचिच्चतुःखारीं खारीभागं च गोणिकाम् ।वाहं प्रस्थद्वयं केचित् कुंभानां विंशतिर्जटी ॥ ५८ ॥
5.1.58 · p. 190
अनुष्टुप्
दश कुम्भाः पांचमिकः कुंभोऽयमिति केचन ।धारणं तु पलान्यष्टौ हेम्नस्ताम्रस्य सप्ततिः ॥ ५९ ॥
5.1.59 · p. 190
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पां (wrong syllable)
दशान्येषां शतं मानं सार्धै रूप्यपलैस्त्रिभिः ।तुला पलशतं तास्तु दशर्क्षं धटिकोऽस्त्रियाम् ॥ ६० ॥
5.1.60 · p. 191
अनुष्टुप्
तौ तु द्वौ शाकटौ भारः शाकटीनः शलाटवत् ।भारा दश समं संगं धारभारं च शाकटम् ॥ ६१ ॥
5.1.61 · p. 191
अनुष्टुप्
आचितं द्व्याचितं होढं हेलकं समकं समम् ।वाहितं भारितं चाष्टावृक्षाद्दशगुणाः क्रमात् ॥ ६२ ॥
5.1.62 · p. 191
अनुष्टुप्
माषशाणस्तलं मुष्टिरंजलिः प्रस्थ आढकः ।द्रोणो गोणी च खारी च क्रमादेतच्चतुर्गुणम् ॥ ६३ ॥
5.1.63 · p. 191
अनुष्टुप्
पाय्यं हस्तादिभिर्मानं द्रुवयं कुडबादिभिः ।पौतवं तुलया तस्य सूत्रं स्याद्रागसूत्रकम् ॥ ६४ ॥
5.1.64 · p. 191
अनुष्टुप्