वीतराग
vītarāgaपुं · masc.In 10 kośas: 10 synonym verses, 1 as a meaning of another word.
अर्हञ्जिनः पारगतस्त्रिकालवित्क्षीणाष्टकर्मा परमेष्ठ्यधीश्वरः ।शंभुः स्वयंभूर्भगवाज्जगत्प्रभुस्तीर्थंकरस्तीर्थकरो जिनेश्वरः ॥ २४ ॥स्याद्वाद्यभयदसार्वाः सर्वज्ञः सर्वदर्शिकेवलिनौ ।देवाधिदेवबोधिदपुरुषोत्तमवीतरागाप्ताः ॥ २५ ॥
इन्द्रवंशा
genderपुंmasc.
जिनेन्द्रो वीतरागोऽर्हन् केवली च त्रिकालवित् ।अलक्ष्मीर्निर्ऋतिर्ज्ञेया नियतिर्विधिरुच्यते ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
महामुखो विश्वबोधो महाबोधिरहंमुनिः ।द्वादशाक्षो वीतरागः श्वेतकेतुर्महामुनिः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
तीर्थंकरस्तीर्थकरस्तापी पारगतश्च सः ।परमेष्ठा वीतरागः स्वयंभूः पुरुषोत्तमः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
सर्वज्ञो वीतरागोऽर्हन् केवली धर्मचक्रभृत् ।तीर्थङ्करस्तीर्थकरस्तीर्थकृद्दिव्यवाक्पतिः ॥ ११६ ॥
अनुष्टुप्
genderपुंmasc.
देवाधिदेवः सर्वज्ञो वीतरागो जिनेश्वरः ।तीर्थंकरो जगन्नाथो जिनोऽर्हन्भगवान्प्रभुः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
सर्वज्ञः सर्वदर्शी च स्याद्वादी केवलीश्वरः ।आप्तो देवाधिदेवो वै वीतरागोऽप्यधीश्वरः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
केवली वीतरागोऽर्हन्निर्गन्धो मलधारकः ।अथैहिकः स्याच्चार्वाको लोकायतिकनास्तिकौ ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
व्यामाभो द्वादशाख्यश्च वीतरागः सुभाषितः ।सर्वार्थसिद्धस्तु महाश्रमणः कलिशासनः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
गौतमश्चार्कबंधुश्च जिनस्त्वर्हंस्त्रिकालदृक् ।अष्टकर्मपरिभ्रष्टो वीतरागश्च केवली ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
वीतराग as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप विरागवीतरागे विषादस्तु विषस्यात्तरि भेद्यवत् । चित्तावसादे तु पुमान् विश्वस्ता तु स्त्रियामियम् ॥ १७१० ॥ Nānārthārṇavasaṃkṣepa 4.1710