कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रभु

prabhuपुं · masc.

In 18 kośas: 20 synonym verses, 2 as a nānārtha head word, 36 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.26 · p. 18
दरिद्रो दुर्विधो दुःस्थो दुर्गतो निःस्वकीकटौ ।अकिंचनोऽधिपस्त्वीशो नेता परिवृढोऽधिभूः ॥ ३५८ ॥पतीन्द्रस्वामिनाथार्याः प्रभुर्भर्तेश्वरो विभुः ।ईशितेनो नायकश्च नियोज्यः परिचारकः ॥ ३५९ ॥डिङ्गरः किंकरो भृत्यश्चेटो गोप्यः पराचितः ।दासः प्रेष्यः परिस्कन्दो भुजिष्यपरिकर्मिणौ ॥ ३६० ॥परान्नः परिपिण्डादः परजातः परैधितः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.17
इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता ॥ १० ॥अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः ।
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.343 · p. 41
अर्यः परिवृढः स्वामी प्रभुर्नेता च नायकः ।अधिभूरधिपः प्रोक्तो ह्यधीशोऽधिपतिस्तथा ॥ ३४३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.585 · p. 197
सूतो रसोत्तमो जैत्रश्चपलो रुद्रजः प्रभुः ।शिवाह्वः शिवबीजाह्वो लोकेशो दुर्द्धरोऽमृतः ॥ ५८५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.18 · p. 216
आढ्योस्तिमान् धनी स्वामीभ्येश्वरौ पतिरीशिता ।भर्त्तेशेनेन्द्रनाथार्या नायकस्त्वधिभूः प्रभुः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.36 · p. 4
भर्ता भरण्डो नेतार्यः प्रभुः परिवृढोऽधि[160b]पः ।अधिभूर्नायको नाथः स्वामीन्द्रो विभ्विनौ प्रभुः ॥ ३६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.59 · p. 6
द्वयोः पुंस्त्वे तु खलपूरीर्ष्यालुः कुहनः स्मृतः ।दूढ्यस्तु दुर्ध्यानकरे दूणाशो दूर्वधः स्मृतः ॥दूडाशो दुःखदे[162a]यः स्याद्दुर्दभ्यो दूडभः स्मृतः ।सर्वंसहः सर्वसोढा क्षमः शक्तः सहः प्रभुः ॥समर्थः सहिता सोढा प्रभूष्णुरपि तादृशः ।बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः ॥भक्षको घस्मरो वर्विराशितश्चाद्मराशिनौ ॥ ५९ ॥
metre not recognised
genderविadj.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 10 · p. 5
राजाधिपः पतिः स्वामी नाथः परिवृढः प्रभुः ।ईश्वरो विभुरीशानो भर्तेन्द्र इन ईशिता ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.24 · p. 104
दरिद्रोऽकिंचनो निःस्वो निर्धनः कीकटश्च सः ।दुर्गतो दुर्विधो दुःस्थो नायकोऽथाधिभूः प्रभुः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.6 · p. 1
देवाधिदेवः सर्वज्ञो वीतरागो जिनेश्वरः ।तीर्थंकरो जगन्नाथो जिनोऽर्हन्भगवान्प्रभुः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.10 · p. 35
नाथः प्रभुः पतिः स्वामी विभुः परिवृढोऽधिपः ।ईश्वरो नायको नेता भर्तेन्द्र इन ईशिता ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.531 · p. 67
अथ स्वामी विभुः भर्ताः परिवृढः प्रभुः पतिः ।अधिपश्चाऽधिभूरर्यो नेता नाथश्च नायकः ॥ ५३१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वृ (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.26 · p. 3
सनत् शतधृतिः कञ्जः कञ्जजो द्रुघनः प्रभुः ।चिन्तामणिः पद्मपाणिर्द्रुघनः स्यात् पुराणगः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.31 · p. 3
श्रीगर्भः श्रीकरः श्रीमान् श्रीधरः श्रीनिकेतनः ।श्रीकान्तः श्रीपतिः श्रीशः प्रभु श्रीवत्सलाञ्छनः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.12 · p. 159
धनयुक्ते तु धनवान् इभ्य आट्यो धनीत्यपि ।ईश्वरो नायकः स्वामी प्रभुः परिवृटोऽपि च ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.16 · p. 189
पति-पाती ऋज-रिजाविडीडौ डान्तिमावुभौ ।ह्रस्व-दीर्घादी प्रभुयुग् विभुश्चाप्यथ वेतने ॥ १६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दी (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1592 · p. 192
इभ्यस्त्वाढ्यो धनी स्यात् परिवृढ इन ईशोऽधिभूः स्वास्यधीशो ।नेता नाथोऽधिपोऽपि प्रभुरथ बहुदः स्थूललक्षो वदान्यः ॥ १५९२ ॥
स्रग्धरा
genderविadj.
तन्त्राभिधान Tantrābhidhāna · अज्ञात ॐ Tantrābhidhāna 2.1.4 · p. 5
गायत्री-बीजपञ्चांशौ मन्त्रविद्याप्रसूः प्रभुः ।अक्षरं मातृकासूश्चानादिरद्वैत-मोक्षदौ ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
उग्रः प्रभुर्धृतिर्विष्णुर्विश्वकर्मा महेश्वरः ।शत्रुघ्नश्चेटि(न्धि)का पुष्टिः पञ्चमी वह्निवासिनी ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.57 · p. 205
समृद्धः स्यादुपचितो धनवानस्तिमान् समौ ।आढ्यस्त्विभ्यो धनी नेता त्वीश्वरो नायकः प्रभुः ॥ ५७ ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास भपादः Dharaṇikośa 23.1.1 · p. 137
भूः पृथिव्यां स्थानमात्रे निभो व्याजसदृक्षयोः ।प्रभुर्नित्ये प्रभुः शब्दे स्वभूर्गोविन्दवेधसोः ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 6.4.10 · p. 228
नीचे खर्वे निकृष्टे च समर्थेऽधिपतौ प्रभुः ।प्राप्तं न्याय्ये च लब्धे च विपुलानेकयोर्बहु ॥ १० ॥
अनुष्टुप्

प्रभु as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् इनइनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे ॥ १११ ॥ Amarakośa 3.3.111
  • धरणिकोश इनइनः सूर्ये प्रभौ राज्ञि योनिः स्यादाकरे भगे । हनिन्यूनौ [च?] गर्ह्यार्थौ सूनुः पुत्रेऽनुजेऽपि च ॥ Dharaṇikośa 19.1.5
  • धरणिकोश राजन्राजा नृपे प्रभौ शक्रे राजा क्षत्रियचन्द्रयोः । ग्रावा च प्रस्तरे शैले ग्रावा मेघे च कीर्तितः ॥ Dharaṇikośa 19.2.10
  • धरणिकोश ईशईशः प्रभौ च शम्भौ च राशिर्मेषादिपुञ्जयोः । अंशुर्लेशे च रश्मौ स्यादाशा तृष्णादिशोः स्मृता ॥ Dharaṇikośa 29.1.1
  • कोषकल्पतरु अर्याणीनिःश्रेणिः पुनरधिरोहिणीषु योषित् खर्जूरीविटपिनि तद्वदीरितेयम् । अर्याणी हरिणदृशि प्रभौ तथार्य- स्त्रीजातावथ तरुमूर्ध्न्यपि प्रघाणः ॥ ४६ ॥ Koṣakalpataru 6.15.46
  • कोषकल्पतरु भर्तृखे त्वन्तिमे मानकृतित्रये च पिता तु तातेऽप्यभयादिदे च । भर्ता प्रभौ धातरि चाथ नेता [289a] स्यान्नायके प्राप्तिकरे च भेद्ये ॥ ४१ ॥ Koṣakalpataru 6.16.41
  • कोषकल्पतरु पतिवातिः पुमान्भास्करचन्द्रयोः स्या- द्गतिस्तु यात्राध्वदशाभ्युपाये । नाडीव्रणे स्याच्छरणे च बुद्धौ मतिस्तु वाञ्छास्मृतिबुद्धिषु स्त्री । चि[289b]तिस्तु चित्यागणयोर्दितिस्तु स्याद्दैत्यमातर्यपि( ख )ण्डने च । मूले गतौ चापि पतिः प्रभौ स्वा- श्रये करोद्वोढरि पुंसि दिष्टः ॥ ४८ ॥ Koṣakalpataru 6.16.48
  • कोषकल्पतरु नाथग्रन्थिः पुमान्पर्वणि पर्वरोग- प्रभेदकौटिल्यगतः प्रदिष्टः । नाथः प्रभौ चर्मपुटे पशूनां प्रस्थोऽस्त्रियां सानुनि मानभेदे ॥ १ ॥ Koṣakalpataru 6.18.1
  • कोषकल्पतरु पोषयित्नुपयोधरे तु स्तनयित्नुरुक्तो मेघ[ध्व]नौ मृत्युगदाह्वयोश्च । स्यात्पोषयित्नुः पितरि प्रभौ च दुर्वादिविप्रे गदयित्नुरुक्तः ॥ ४८ ॥ Koṣakalpataru 6.21.48
  • कोषकल्पतरु विभुकस्तूरिकायां गदिता स्त्रियां च विभुः शिवे व्यापिनि तु त्रिषु स्यात् । नित्ये प्रभौ ब्रह्मणि तु स्वभूः स्यात् विष्णौ च शंभुस्तु हरे हरौ च ॥ ४५ ॥ Koṣakalpataru 6.24.45
  • कोषकल्पतरु ईशईशो हरे चापरवत्प्रभौ स्या- त्स्त्रियां शिवालाङ्गलदण्डयोश्च । वेशोऽस्त्रियां स्याद्गृहमात्रकेऽपि नेपथ्यवेश्यागृहयोस्तथैव ॥ ८ ॥ Koṣakalpataru 6.30.8
  • नानार्थार्णवसंक्षेप अर्ययदा तु वृत्तिः पुंयोगात् तदार्यी त्रिषु तु प्रभौ । अर्थ्यस्त्रिष्वनपेतेऽर्थाद् विद्वदात्मवतोरपि ॥ २९ ॥ Nānārthārṇavasaṃkṣepa 2.5.29
  • नानार्थार्णवसंक्षेप नाथप्रभौ स्त्रीपुंसयोस्तु स्याद् याच्ञैश्वर्यादिकेष्वयम् । नाली त्रयी धान्यकाण्डे नाला चाब्जादिदण्डके ॥ ६७९ ॥ Nānārthārṇavasaṃkṣepa 2.5.679
  • नानार्थार्णवसंक्षेप नेतृनीतिक्रियाकर्तरि च प्रभौ चाथ नृशण्डयोः । पद्मं सरोरुहे क्लीबं सङ्ख्याभेदे तथेन्द्रिये ॥ ७०१ ॥ Nānārthārṇavasaṃkṣepa 2.5.701
  • नानार्थार्णवसंक्षेप पत्नीगतौ मूलेऽप्यथो पत्नी भार्यायां स्त्री त्रि तु प्रभौ । वृद्धादिस्तु पतिर्यस्यास्तत्रान्यार्थसमासके ॥ ७२६ ॥ Nānārthārṇavasaṃkṣepa 2.5.726
  • नानार्थार्णवसंक्षेप राजन्राजा ना सोमवल्ल्यां च चन्द्रे च द्वे तु पार्थिवे । क्षत्त्रिये च प्रभौ तु त्रिरस्मिन्नर्थत्रये यदा ॥ ११०६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1106
  • नानार्थार्णवसंक्षेप वशिन्पाठके स्तुतिवाक्यस्य द्वे तु स्तवनजीविनोः । वैदेहे मागधे चापि वशी तु त्रिः प्रभौ स्मृतः ॥ १२१२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1212
  • नानार्थार्णवसंक्षेप आनन्दआवर्त्तोऽम्भोभ्रमे रोमप्रभृतेर्वलिते चये । आवर्त्तनायामावृत्तावानन्दस्तु प्रभौ नृपे ॥ १६ ॥ Nānārthārṇavasaṃkṣepa 3.2.16
  • नानार्थार्णवसंक्षेप ईशानईशानो ना महादेवे पार्वत्यां त्वाह यादवः । ईशानीति स्त्रियां त्रिस्तु प्रभौ तत्र यदा स्त्रियाम् ॥ २३५ ॥ Nānārthārṇavasaṃkṣepa 4.235
  • नानार्थार्णवसंक्षेप नायकनायकस्त्रि प्रभौ ना तु हारमध्यगते मणौ । क्लीबं त्वासनभेदे स्यान्नाकुलं तस्य लक्षणम् ॥ १०११ ॥ Nānārthārṇavasaṃkṣepa 4.1011
  • नानार्थार्णवसंक्षेप मूर्धाभिषिक्तमुर्धाभिषिक्तो ना राज्ञि क्षत्त्रिये तु द्वयोस्त्रि तु । प्रधाने वैजयन्त्यां तु प्रभाविति समीरितम् ॥ ८५ ॥ Nānārthārṇavasaṃkṣepa 7.85
  • परमानन्दीयनाममाला अर्यअर्यो वैश्ये प्रभावण्डं मुष्के कोशेऽप्यनन्तरे । अर्चिः कीलोस्रयोरर्तिः पीडायामटनावपि ॥ १४ ॥ Paramānandīyanāmamālā 5.1.14
  • परमानन्दीयनाममाला इनइनः सूर्य प्रभाविष्टमीप्सिते पूज्ययज्ञयोः । ईहेच्छायां तृषायां चेतिः प्रवास उपद्रवे ॥ ५८ ॥ Paramānandīyanāmamālā 5.2.58
  • शब्दरत्नावली सर्वगसर्वगन्तु जले क्लीबं पुमानम्बहये(?) प्रभौ । सम्भोगः सुरते भोगे हर्षे च वुद्यशासने ॥ Śabdaratnāvalī 7.3.49
  • शब्दरत्नावली राजन्रञ्जनो रागजनने रञ्जनं रक्तचन्दने । नीलीरोचनिकाशुण्डामञ्जिष्ठासु च रञ्जिनी ॥ रजनी रात्रिजतुकाहरिद्रानीलिनीषु च । राधना तोषणे स्त्री स्यात्क्लीबं प्राप्तौ च साधने ॥ राजा नृपे प्रभौ चन्द्रे क्षत्रिये च पुमानयम् । रेचनी कर्कश-दन्ती-रोचनी-त्रिवृतासु च ॥ Śabdaratnāvalī 7.20.69
  • शब्दरत्नावली स्वामिन्स्वामी पुमान् कार्त्तिकेये प्रभौ विष्णौ हरे हरौ । स्थापन्योषधिभेदे स्त्री क्लीबं सवनरोपणे ॥ Śabdaratnāvalī 7.20.95
  • शब्दरत्नावली विभुदम्भः स्यात्कैतवे कल्के साटोपाहङ्कृतावपि । दृन्भूश्चवज्रचक्राहिमुख्यभूतिषु च स्त्रियाम् ॥ नाभिर्ना चक्रमध्ये च क्षत्रिये मुख्यभूपतौ । द्वयोः प्राण्यङ्गमध्ये तु स्त्रियां कस्तूरिकामदे ॥ निभो व्याजे तु पुंलिङ्गः प्रकाशे सदृशे त्रिषु । रम्भः कपौ च वंशे ना कदल्यप्सरसोः स्त्रियाम् ॥ विभुर्वृद्धे प्रभौ राज्ञि ब्रह्मशङ्करयोः पुमान् । शम्भुर्महेश्वरे सिद्धे सुगते परमेष्ठिने ॥ शुभं क्षेमे शुभोयोगे शुभा कान्तीच्छयोः स्त्रियाम् । सभाद्यूते मन्दिरे च गोष्ट्यां सामाजिके स्त्रियाम् ॥ स्वभूर्विष्णौ विधौ पुंसि स्तम्भः स्थूनाजडत्वयोः । Śabdaratnāvalī 7.24.7
  • शब्दरत्नावली ईशअंशुः प्रभायां किरणे आशा तृष्णादिशोः स्त्रियाम् । आशीर्हिताशंसवे स्त्री सर्पदत्ते विषान्तरे ॥ आशुर्धान्यान्तरे पुंसि शीघ्रेऽपि च नपुंसकम् । ईशः प्रभौ महादेवे ईशा लाङ्गलदण्डके ॥ काशः कासे क्षते पुंसि वाराणस्यामपि स्त्रियाम् । अस्त्रियां तृणभेदेऽपि कण्ठकण्डूयणेऽपि च ॥ Śabdaratnāvalī 7.30.2
  • शब्दरत्नाकर राजन्चन्द्रक्षत्रिययोः राजा लताभेदे नृपे प्रभौ । रजः पांस्वार्ताहःसु रहो याभरहस्ययोः ॥ १९८७ ॥ Śabdaratnākara 4.1.1987
  • शब्दार्णव सनाथसनाथं प्रभुमित्याहुः सहिते चित्ततापिनि ॥ २०६ ॥ Śabdārṇava 206
  • शब्दार्णव वित्ताधिपवित्ताधिपः कुबेरः स्यात् प्रभौ धनिकयक्षयोः ॥ २१३ ॥ Śabdārṇava 213
  • त्रिकाण्डशेष ईशप्रभुशङ्करयोरीशः स्त्रियां लाङ्गलदण्डके । दिगम्बरे कपै कीशः केशो वालप्रचेतसोः ॥ ४२७ ॥ Trikāṇḍaśeṣa 3.3.427
  • वैजयन्ती राजन्रश्मी ज्वालाप्रग्रहौ च रदो दन्तविलेखयोः । राजा तु क्षत्रिये चन्द्रे लताभेदे नृपे प्रभौ ॥ ५० ॥ Vaijayantī 6.1.50
  • वैजयन्ती नाथनिष्कोऽस्त्री हेम्नि दीनारे साष्टे कर्षशते पले । वक्षोविभूषणे कर्षे नाथस्त्विंद्रे प्रभावपि ॥ ४५ ॥ Vaijayantī 6.5.45
  • वैजयन्ती मूर्धाभिषिक्तमूर्धाभिषिक्तो ना राज्ञि क्षत्रिये चार्थवत् प्रभौ । हरिचन्दनमस्त्री स्याच्चन्दने देवपादपे ॥ २७ ॥ Vaijayantī 8.5.27
  • वैजयन्ती ईशईशेश्वरौ प्रभौ रुद्रे पार्वत्यामीश्वरेश्वरी । स्वभावे स्यान्निसर्गश्च सृष्टिश्चोत्पादनेऽपि च ॥ ३५ ॥ Vaijayantī 8.5.35