कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शंभु

śaṃbhuपुं · masc.

In 7 kośas: 8 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.25 · p. 5
अर्हञ्जिनः पारगतस्त्रिकालवित्क्षीणाष्टकर्मा परमेष्ठ्यधीश्वरः ।शंभुः स्वयंभूर्भगवाज्जगत्प्रभुस्तीर्थंकरस्तीर्थकरो जिनेश्वरः ॥ २४ ॥स्याद्वाद्यभयदसार्वाः सर्वज्ञः सर्वदर्शिकेवलिनौ ।देवाधिदेवबोधिदपुरुषोत्तमवीतरागाप्ताः ॥ २५ ॥
इन्द्रवंशा
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 6 · p. 1
विष्णुः सुदर्शनः शंभुर्बन्धुर्भानुरितीर्यते ।सुग्रीवो मन्मथः स्वामी विष्णुपुत्रो भवः शिवः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.6 · p. 8
शंभुः स्वयंभूर्ब्रह्मण्यः प्रजानाथः सुराग्रजः ।भारतीपतिरिन्द्रेन्द्रः पद्मयोनिः पुरन्दरः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.64 · p. 14
[10b] शंभुः शूली भगाली गिरिश-पशुपति-स्थाणु-सर्वज्ञ-सर्व-श्रीकण्ठ-श्यामकण्ठ-स्मरहर-मखभिद्-भर्ग-भालेक्षणेशाः ।कण्ठेकालः कपर्द्दि-त्रिपुरहर-हरेशान-शर्वाम्बिकेशाभूतेश-व्योमकेशान्धकरिपु-शमिर-त्र्यक्ष-गङ्गाधराह्वः ॥ ६४ ॥
स्रग्धरा
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.25 · p. 9
स्वयंभूर्द्रुहिणो विश्वरेता हंसगसात्त्विकौ ।ध्रुवः पुराणगः शंभुर्वेदगर्भः पितामहः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.28 · p. 9
[6] ईश्वरः शंभुरीशानो महादेवो महानटः ।महेश्वरमृडौ शर्वः स्थाणुः शंकरधूर्जटी ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.19 · p. 3
महेश्वरो महादेवः श्रीकण्ठः शंकरः शिवः ।उग्रः शूली मृडः शंभुस्त्र्यम्बकश्चन्द्रशेखरः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.43 · p. 6
शंभुः शंकर ईश्वरः पशुपतिः शर्वः शिवस्त्र्यम्बकोभूतेशः परमेश्वरः पुररिपुः शूली हरो धूर्जटिः ।ईशानः शशिशेखरस्त्रिनयनो भीमः पिनाकी मृडोरुद्रः स्थाणुरुमापतिः स्मरहरो भर्गः कपर्दी भवः ॥ ४३ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.

शंभु as a meaning in nānārtha verses

  • कोषकल्पतरु भैरवस्यात्कैरवो हंससपत्नधूर्ते- ऽथो कैरवं स्यात्कुमुदे स्त्रियां तु । ज्योत्स्नाभिधानेऽप्यथ भैरवः स्या- च्छंभौ त्रये भीषणभन्न( ? )योश्च ॥ २० ॥ Koṣakalpataru 6.29.20
  • कोषकल्पतरु अम्बरीषनरकान्तरे तथाम्रातकेऽनुतापे च शंभौ वा । परिघोष इहातिघोषे स्त्रियां भवेत्कर्कटशृङ्गिकायाम् ॥ ६० ॥ Koṣakalpataru 6.30.60