कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अधीश्वर

adhīśvaraपुं · masc.

In 10 kośas: 11 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.25 · p. 5
अर्हञ्जिनः पारगतस्त्रिकालवित्क्षीणाष्टकर्मा परमेष्ठ्यधीश्वरः ।शंभुः स्वयंभूर्भगवाज्जगत्प्रभुस्तीर्थंकरस्तीर्थकरो जिनेश्वरः ॥ २४ ॥स्याद्वाद्यभयदसार्वाः सर्वज्ञः सर्वदर्शिकेवलिनौ ।देवाधिदेवबोधिदपुरुषोत्तमवीतरागाप्ताः ॥ २५ ॥
इन्द्रवंशा
genderपुंmasc.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र मर्त्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 3.136 · p. 5
दशासु वस्त्रपेश्योऽथ हिमवातापहांशुके ।द्विखण्डको वरकश्च चक्रवर्तिन्यधीश्वरः ॥ १३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.2
राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.4 · p. 89
मण्डलेश्वरपर्यायः सामन्तोथाप्यधीश्वरः ।प्रणताशेषसामन्तश्चक्रवर्ती भयापहः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.5 · p. 244
अधीश्वरोऽप्रतिरथो यं नमन्त्यखिला नृपाः ।चक्रवर्त्ती सार्वभौमस्ते तु स्युर्भरतादयः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.248 · p. 56
राजन्यः क्षत्रिये प्रोक्तो राज्ञि स्यात्तु महीक्षितः ।प्रणताशेषसामन्तराज्ञि प्रोक्तस्त्वधीश्वरः ॥ २४८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.9 · p. 3
सर्वज्ञः सर्वदर्शी च स्याद्वादी केवलीश्वरः ।आप्तो देवाधिदेवो वै वीतरागोऽप्यधीश्वरः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1125 · p. 175
चक्रवर्ती सार्वभौमः सैवाधीश्वर उच्यते ।अस्यामवसर्पिण्यां ते द्वादश भारतेऽजनि ॥ ११२५ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 1 अ (syllables merged); pāda 4, syllable 3 दश (syllable split)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.129 · p. 120
नाभिनाराट् च भूमीन्द्रो नरेन्द्रो नायकोऽधिपः ।प्रणताश्रेषसामन्तो भूपालः स्यादधीश्वरः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1269 · p. 155
मण्डलाधीश्वरो यश्च स सम्राण्मध्यमश्च सः ।अधीश्वरो नताशेषसामन्तो नाभिरित्यपि ॥ १२६९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.2 · p. 104
नरेन्द्रो नरदेवश्च वश्यामात्यस्त्वधीश्वरः ।सार्वभौमश्चक्रवर्ती नृपोऽन्यो मण्डलेश्वरः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.

अधीश्वर as a meaning in nānārtha verses

  • शब्दरत्नावली पतिपंक्तिर्दशाक्षरच्छन्दो दिक्संख्याश्रेणिषु स्त्रियाम् । प्राप्तं समञ्जसे लब्धे पतिः स्वामिन्यधीश्वरे । पातः पुमान् पतने स्यात्त्राते निगदिते त्रिषु ॥ Śabdaratnāvalī 7.16.23
  • वैजयन्ती अधिपतिपुमानधिपतिर्मूध्न आवर्तेऽधीश्वरे त्रिषु । कांचने शारिफलके स्यादष्टापदमस्त्रियाम् ॥ २ ॥ Vaijayantī 8.5.2