कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वेषवार

veṣavāraपुं · masc.

In 8 kośas: 8 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.92 · p. 20
काञ्चिकं काञ्जिकं धान्याम्लारनाले तुषोदकम् ।कुल्माषाभिषुतावन्तिसोमशुक्तानि कुञ्जलम् ॥ ४१५ ॥चुक्रं धातुघ्नमुन्नाहं रक्षोघ्नं कुण्डगोलकम् ।महारसं सुवीराम्लं सौवीरं म्रक्षणं पुनः ॥ ४१६ ॥तैलं स्नेहोऽभ्यञ्जनं च वेषवार उपस्करः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.321 · p. 38
मिष्टान्नं व्यञ्जनं ज्ञेयं वेषवार उपस्करः ।दधिमण्डो भवेन्मस्तु करम्भो दधिसक्तवः ॥ ३२१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.99 · p. 183
शाकादिवासनद्भाडं(?) वेषवार उपस्करः ।शुण्ठी कणा च मरिचं कणामूलं च धान्यकम् ॥दाडिमं काञ्जिकं चेति वेसवारीयसप्तकम् ।शाकस्य भवनं क्षेत्रं क्लीबे स्याच्छाकशाकटम् ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.84 · p. 111
स्नेहे तैलाभ्यञ्जने तु वेषवार उपस्करे ।भोजनं निघसो न्यादः खादनं स्वादनाशने ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.453 · p. 84
मरीचिहिङ्गुजीरादिसंभारे स्यादुपस्करः ।वेषवारो वेषकरश्चाथ वृक्षाम्लमिष्यते ॥ ४५३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वे (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.626 · p. 81
वेषवारो वेसवारो वेशवार उपस्करः ॥ ६२६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.73 · p. 142
कलम्वश्च कडम्वोऽपि कडम्बककलम्बकौ ।धान्यसर्षपचूर्णादौ वेषवार उपस्करः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.54 · p. 192
दन्त्य-तालव्य-मूर्धन्यमध्यः स्याद्द्वेषवारकः ।तिन्तिडीक-तन्तिडीके चुक्रे पक्षण्यपि स्मृते ॥ ५४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
genderपुंmasc.