कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कलम्ब

kalambaपुं · masc.

In 17 kośas: 22 synonym verses, 6 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.778 · p. 32
बाणे पृषत्कविशिखौ खगगार्ध्रपक्षौ काण्डाशुगप्रदरसायकपत्त्रवाहाः ।पत्त्रीष्वजिह्मगशिलीमुखकङ्कपत्त्ररोपाः कलम्बशरमार्गणचित्रपुङ्खाः ॥ ७७८ ॥
वसन्ततिलका
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.146
पृषत्कबाणविशिखा अजिह्मगखगाशुगाः ॥ ८६ ॥कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.60
कलम्बश्च कडम्बश्च वेसवार उपस्करः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.466 · p. 53
कङ्कपत्त्रशरमार्गणबाणाश्चित्रपुङ्खविशिखेषुकलम्बाः ।सायकप्रदरकाण्डपृषत्काः पत्त्रिणः खगशिलीमुखरोपाः ॥ ४६६ ॥
स्वागता
genderपुंmasc.
कडम्बश्च कलम्बोऽपि जीरो जीरक उच्यते ।ग्रन्थीकं ग्रन्थिकं च स्यात् शुल्बी शुल्विरुभे समे ॥ २३२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.267 · p. 118
सायकोऽजिह्मगो बाणः पृषत्कोपि शिलीमुखः ।कलम्बो मार्गणो रोपः पत्री स्यात्खग आशुगः ॥ २६७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.76 · p. 157
कदम्ब[38b]स्तु कलम्बः स्यात्प्रावृषेण्यो हलिप्रियः ॥ ७६ ॥
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.45 · p. 179
कलम्बश्च कडम्बश्च द्वयोः स्याच्छाकनाडिका ।कार्षापणोऽस्त्री शाकादि बद्धमुष्टिर्मतो बुधैः ।राजालुर्मूलकोऽस्त्री * हस्तिको हस्तिदन्तकः ॥ ४५ ॥
अनुष्टुप्metre not read in every line
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.22 · p. 265
कङ्कपत्रः पत्रवाहः पृषत्कः सायकश्च सः ।कलम्बः प्रदरोऽस्त्रीकौ बाण-काण्डाविषुस्त्रिषु ॥ २२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीपुंसलिङ्गाधिकारः Koṣakalpataru 4.4.27 · p. 110
कूपः कलम्बः कलशे तु कुम्भोगन्त्र्यङ्गके नाभिरथोर्मिशम्यौ ।भ्रमश्च मोहेऽथ च जित्य-मृत्यूस्याद्भागधेयोऽपि च राजदेये ॥ २७ ॥
उपजातिः
genderपुंस्त्रीm. f.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.384 · p. 149
कलम्बमार्गणौ रोपः कङ्कपत्रशिलीमुखौ ।अजिह्मगश्चित्रपुङ्ख एषणः सर्वलौहकः ॥ ३८४ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.361 · p. 71
उपासनं शराभ्यासे शरः पत्री पुमान्खगः ।अजिह्मगः कलम्बश्च रोदो रोप इषुर्द्वयोः ॥ ३६१ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.452 · p. 83
शाकमात्रे तु शिग्रुः स्याच्छाकं हरितकं तथा ।कडम्बश्च कलम्बश्च कपोतक्यादिनालके ॥ ४५२ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.224 · p. 16
कोदण्डमध्यं तलकः छुरिका खड्गधेनुका ।बाणः कलम्बो विशिखः शरः पत्री शिलीमुखः ॥ २२४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.29 · p. 37
पृषत्कः सायको रोपः कङ्कपत्रः शिलीमुखः ।कलम्बाजिह्मगखगा नाराचश्च क्षुरप्रवत् ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1271 · p. 200
बाणः काण्डः कलम्बश्च कादम्बश्चोऽस्त्रकण्टकः ॥ १२७१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.7 · p. 57
अथ वन्या वनव्यूहे वान्या च कथिता बुधैः ।कडम्बश्च कलम्बः स्यादङ्कूरोऽङ्कुर एव च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.73 · p. 142
कलम्वश्च कडम्वोऽपि कडम्बककलम्बकौ ।धान्यसर्षपचूर्णादौ वेषवार उपस्करः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.275 · p. 211
कलम्ब इव कादम्बो भेर-भेलावमू तथा ।भेकेऽपि कर्तरि पुङ्खे कर्तरी, शरधौ पुनः ॥ २७५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.152 · p. 230
कर्कुन्धूर्घुट्टा घोण्टा च गोपघोण्टातने भवा ।नीपे कदम्ब-कलम्बौ शालस्तालव्य-दन्त्यवान् ॥ १५२ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ट्टा (wrong syllable); pāda 3, syllable 6 क (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1330 · p. 162
पत्रिशरविशिखसायकबाणपृषत्काशुगप्रदराः ।काण्डखगरोपमार्गणनालीकाधोमुखकलम्बाः ॥ १३३० ॥
उपगीतिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1448 · p. 175
कडम्बश्च कलम्बश्च वेशवार उपस्करः ।ऋजीषं पिष्टपचनं निष्ठानं तेमनं समे ॥ १४४८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ बान्ताः Koṣakalpataru 6.24.32 · p. 275
सिद्धार्थके नीपतरौ कदम्बोवृन्देऽन्तिमे बाणकदम्बयोस्तु ।पुमान्कलम्बो वनिता तु शाकेकादम्ब उक्तः कलहंसबाणे ॥ ३२ ॥
इन्द्रवज्राtwo metres in one verse
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.402 · p. 81
कडम्बो व्यञ्जनीभूतशाकनाले द्रुमान्तरे ।क्ली तु तत्प्रसवेऽथो ना कलम्बः शाकनालके ॥ ४०२ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.403 · p. 81
बाणे चाथ कलम्बोऽस्त्री शतपर्वसमाख्यके ।स्तम्बे शाके कदम्बस्तु सर्षपे ना च नीपके ॥ ४०३ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र बत्रिः Śivakoṣa 18.2.317 · p. 29
कलम्बी नाडिकाशाके कलम्बो हरिवल्लभे ॥ ३१७ ॥
शब्दरत्नावली Śabdaratnāvalī · मथुरेश बान्ताः Śabdaratnāvalī 7.23.10 · p. 250
कलम्बी शाकभेदे स्त्री कदम्बे च शरे पुमान् ।कादम्बः पक्षिभेदे स्यात्सायके च भवेत्पुमान् ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.281 · p. 188
गजे ग्रीवालके कम्बुः कलम्बः शरनालयोः ।वृन्दे कदम्बं नीपे ना कादम्बौ शरपक्षिणौ ॥ २८१ ॥
अनुष्टुप्