कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आरनाल

āranālaक्ली · neut.

In 9 kośas: 9 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.92 · p. 20
काञ्चिकं काञ्जिकं धान्याम्लारनाले तुषोदकम् ।कुल्माषाभिषुतावन्तिसोमशुक्तानि कुञ्जलम् ॥ ४१५ ॥चुक्रं धातुघ्नमुन्नाहं रक्षोघ्नं कुण्डगोलकम् ।महारसं सुवीराम्लं सौवीरं म्रक्षणं पुनः ॥ ४१६ ॥तैलं स्नेहोऽभ्यञ्जनं च वेषवार उपस्करः ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.318 · p. 38
धान्याम्लमारनालं सन्धानं काञ्जिकं च सौवीरम् ।अभिषवमवन्तिसोमं तुषोदकं शुक्तमिच्छन्ति ॥ ३१८ ॥
आर्या
genderक्लीneut.
वेशवारो वेसवारः काञ्जी काञ्जिक काञ्जीकम् ।आरनालकमुद्दिष्टमारनालं च कोविदैः ॥ २३१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 ञ्जी (wrong syllable)
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.204 · p. 155
कुञ्जनं कुलजं सिद्धसलिलं धातुनाशनम् ।आरनालं च धान्याम्लं यवजं तु यवोदकम् ॥ २०४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.100 · p. 281
भक्तौदनोन्धोमसरारनाल-[133a]प्रसादनान्नानि च जीवनं च ।याजं च वाजं कुरुरोदनोऽस्त्रीकूराशने दीदिवि चात्र भिस्सा ॥ १०० ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 प्र (wrong syllable)
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.82 · p. 111
सम्मृष्टशोधिते तुल्ये वासितं भावितं समम् ।काञ्जिके त्वारनालं स्याद्धान्याम्लं काञ्जिकं तथा ॥ ८२ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.51 · p. 39
घृतमाज्यं हविः सर्पिः नवनीतं तु म्रक्षणम् ।उदश्विन्मथितं तक्रमारनालं तु काञ्जिकम् ॥ ५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 तु (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.624 · p. 81
आरनालं सुवीराम्लं धान्याम्लं च महारसम् ।अवन्तिसोमं सौवीरं रक्षोघ्नं मधुरा तथा ॥ ६२४ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.81 · p. 165
खलिः स्त्री तण्डुलैः पिष्टैर्जले पक्वा घनद्रवा ।सौवीरं काञ्चिकं कुण्डमारनालं गृहोदकम् ॥ ८१ ॥
अनुष्टुप्
genderक्लीneut.

आरनाल as a meaning in nānārtha verses

  • कोषकल्पतरु सौवीरजम्बीर उक्तोऽथ शये च पीठे- प्यौशीरमुक्तं चमरे च दण्डे । सौवीरमन्त्ये बदरारनाले स्रोतोञ्जने पुंसि तु देशभेदे ॥ ५७ ॥ Koṣakalpataru 6.27.57