कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

श्वेतसुरसा

śvetasurasāस्त्री · fem.

In 8 kośas: 9 synonym verses, 1 as a nānārtha head word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.71
सितासौ श्वेतसुरसा भूतवेश्यथ मागधी ।गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका ॥ ७१ ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.229 · p. 87
प्रत्यक्पर्णी तु शिधरी त्वपामार्गस्वरेणुका ।सौगन्धी श्वेतसुरसा भारती तुलसी शिवा ॥ २२९ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.86 · p. 159
कृष्णसंज्ञो विषघ्नश्च पवित्रो गिरिसिन्दुकः ।भूपदी श्वेतसुरसा सुगन्धा तत(?)वेशिका ॥तिलकश्छत्रकुसुमः क्षुरकः खुरकोऽपि सः ।मुचिलिन्दो विचित्रश्च स्त्रीनिरीक्षणदोहदः ॥ ८६ ॥
अनुष्टुप्
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.185 · p. 103
सा नीला वनशेफाली सुपुष्पा नीलमञ्जरी ।श्वेता तु श्वेतसुरसा गोलोमी भूतवेश्यपि ॥ १८५ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पञ्चाक्षरकाण्डः Nānārthārṇavasaṃkṣepa 7.12 · p. 88
रोहिण्यां तोयपिप्पल्यां रोहिणी कटुरोहिणी ।इति प्रसिद्धं भैषज्यं स्याच्छ्वेत्सुरसा त्वियम् ॥ १२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 सि (syllables merged)
genderस्त्रीfem.doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.139 · p. 67
सा शुक्ला श्वेतसुरसा भूतवेशी च कीर्तिता ।अथ शेफालिकावृन्तं मसी मसिरिति द्वयम् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.611 · p. 78
अस्मिन् सुगन्धे स्याच्छ्वेतसुरसा सुरसापि च ।मण्डूकपर्णिका भण्डी भण्डीरी चाथ पालकम् ॥ ६११ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.119 · p. 54
सितेऽस्मिन् मञ्जरी तीक्ष्णस्तीक्ष्णगन्धोऽर्जकोऽत्र तु ।सुगन्धौ श्वेतसुरसा भारती तुलसी शिवा ॥ ११९ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.187 · p. 60
सितायां श्वेतसुरसा वासन्त्यां माधवी लता ।निस्संगजा कान्तनाला प्रहसन्ती कुटुंबिका ॥ १८७ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पञ्चाक्षरकाण्डः Nānārthārṇavasaṃkṣepa 7.13 · p. 88
(भवेत् सु)गन्धौ तुलसीसंज्ञके च कठिञ्जरे ।सितशेफालिकायामप्यथो दूत्यां शिरःस्रजि ॥ १३ ॥
अनुष्टुप्metre not read in every line
doubtful