यूथिका
yūthikāस्त्री · fem.In 18 kośas: 14 synonym verses, 4 as a nānārtha head word, 11 as a meaning of another word.
genderस्त्रीfem.
सितासौ श्वेतसुरसा भूतवेश्यथ मागधी ।गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका ॥ ७१ ॥
अनुष्टुप्
genderस्त्रीfem.
नीला झिण्टी भवेद्वाणः पीता सहचरी भवेत् ।मालती कथ्यते जातिर्मागधी यूथिका तथा ॥ २०५ ॥
अनुष्टुप्
genderस्त्रीfem.
द्राक्षायां कृष्णिका स्वाद्वी प्रियाला कालमेषिका ।मालत्यां रेवतीजातिर्यूथिकायां मनोज्वला ॥ २४० ॥
अनुष्टुप्
genderस्त्रीfem.
स्यात्तापिञ्जोऽपि ता(त?)पिञ्जो मल्ली मल्लिश्च मल्लिका ।आविग्नः स्यादविग्नोऽपि यूथी स्यादपि यूथिका ॥ ११६ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रहसन्ती महाजाती मध्वाढ्या चाथ यूथिका ।माधवी गणिकाम्बष्ठा मोदिनी बालपुष्पिका ॥ २६२ ॥
अनुष्टुप्
genderस्त्रीfem.
मागधी गणिकाम्बष्ठा यूथिका बलि(बाल?)पुष्पिका ।गुणोज्ज्व(?)ला पुण्यगन्धा हसन्ती च शिखण्डिनी ॥ ९६ ॥
अनुष्टुप्
genderस्त्रीfem.
सिन्दुवारे च निर्गुण्डी वासन्ती माध[34]वी लता ।मल्लिका मालती तुल्ये यूथिका मागधी स्मृता ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
यूथिका गणिकाऽम्बष्ठा मागधी बालपुष्पिका ।युवतीष्टा हेमयूथी शिखण्डी नागपुष्पिका ॥ २०९ ॥
अनुष्टुप्
genderस्त्रीfem.
बन्धुको यूथिका कुन्द इत्याद्याः पुष्पजातयः ।आम्रो रसालो माकन्दः सहकारश्चूतनूतवत् (?) ॥ १४३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 सह (syllable split)
genderस्त्रीfem.
मागधी यूथिकाऽम्बष्ठा गणिकापि च तद्भिदा ॥ २०४४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
यूथिका गणिका यूथी प्रसहन्ती च मागधी ।अम्वष्टेत्यपि सा पीता हेम स्यात् हेमपुष्पिका ॥
अनुष्टुप्
genderस्त्रीfem.
गणिका यूथिकाम्बष्ठा शीतभीरुस्तु मल्लिका ।भूपदी ना विचकिलस्तृणशूल्यं नपुंसकम् ॥ ५४४ ॥
अनुष्टुप्
genderस्त्रीfem.
मालत्यां रेवती जातिर्यूथिकायां मनोज्वला ।मानवी चात्र पीतायां वासन्ती हेमपुष्पिका ॥ १८२ ॥
अनुष्टुप्
genderस्त्रीfem.
अम्लानके स्यादपि यूथिका स्त्रियांकेदाररेखासुरिकासु राजिका ।द्वारस्य पिण्ड्यामपि दूतिकायांसंग्रामभूमौ गदिता च रुण्डिका ॥ ९ ॥
upajati mixed
meaningsअम्लानक
यूथिका as a meaning in nānārtha verses
- कोषकल्पतरु शिखण्डिनीबाणे शिखण्डी च तथा मयूरे गाङ्गेयशत्रौ गदितः कलापे । स्त्री यूथिकायामपि रक्तिकायां तथा मयूर्यामपि संप्रदिष्टः ॥ ४१ ॥ Koṣakalpataru 6.21.41
- नानार्थार्णवसंक्षेप वासन्तीवासन्ती तु स्त्रियां पुष्पवल्लीभेदेऽतिमुक्तके । यूथिकायां च रभसोऽवहिते तु त्रिषु स्मृतः ॥ १६४९ ॥ Nānārthārṇavasaṃkṣepa 4.1649
- नानार्थार्णवसंक्षेप हेमपुष्पीपीतायां यूथिकायां स्याद्धेमपुष्प्यत्र पूर्ववत् । हेमकुड्यं पुनः क्लीबे द्वीपभेदेऽम्बुधीकृते ॥ ६९७ ॥ Nānārthārṇavasaṃkṣepa 6.697
- शिवकोष गणिकावत्सके चाथ गणिका यूथिका वह्निमन्थयोः । ग्रन्थिकं मागधे गूढच्छदनग्रन्थिपर्णयोः ॥ २५ ॥ Śivakoṣa 1.3.25
- शिवकोष अम्बष्ठाअम्बष्ठा माचिकापाठाचाङ्गेरीयूथिकासु च । रामठं हिङ्गुनि स्त्री तु पिण्डायां ना समष्टिले ॥ १४२ ॥ Śivakoṣa 9.2.142
- शिवकोष शिखण्डिनीशिखण्डिनी यूथिकायां काकणन्त्यां च योषिति । श्रीकेतनं तु कनके पुष्पमात्रे सरोरुहे ॥ २८० ॥ Śivakoṣa 16.2.280
- शब्दरत्नावली अम्बष्ठाअम्बष्ठा यूथिका केशी पाठाम्ललीनिकासु च । कमठः कच्छपे वंशे क्लीबं भाण्डविशेषके ॥ कनिष्टाङ्गुलिभेदेऽतियुवात्यल्पानुजेषु ना । जरठः कठिने पाण्डौ जीर्णे तु वाच्यलिङ्गकः ॥ Śabdaratnāvalī 7.12.10
- शब्दरत्नावली मागधीकणायूथिकयोः स्त्री तु वाच्यवद्भगदोद्भवे ॥ Śabdaratnāvalī 7.19.32
- शब्दरत्नाकर गणिकागणिका करिणी वेश्या यूथिका कूटकारिका । गोपतिर्वृषभे प्राज्ञे सूर्ये भूभृति वज्रिणि ॥ २०८५ ॥ Śabdaratnākara 4.1.2085
- त्रिकाण्डशेष अम्बष्ठावैश्याद्विजन्मजेऽम्बष्ठः पाठायूथिकयोः स्त्रियाम् ॥ १०५ ॥ Trikāṇḍaśeṣa 3.3.105
- त्रिकाण्डशेष मागधीपिप्पल्यां यूथिकायां ना लग्ने मगधजे त्रिषु । लशुनेऽतिविषायां च शुण्ठ्यामपि महौषधम् ॥ २२१ ॥ Trikāṇḍaśeṣa 3.3.221