मागधी
māgadhīस्त्री · fem.In 17 kośas: 29 synonym verses, 5 as a nānārtha head word, 6 as a meaning of another word.
वैदेही पिप्पली कृष्णोपकुल्या मागधी कणा ।
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
सितासौ श्वेतसुरसा भूतवेश्यथ मागधी ।गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका ॥ ७१ ॥
अनुष्टुप्
genderस्त्रीfem.
कृष्णोपकुल्या वैदेही मागधी चपला कणा ॥ ९६ ॥उषणा पिप्पली शौण्डी कोलाथ करिपिप्पली ।कपिवल्ली कोलवल्ली श्रेयसी वशिरः पुमान् ॥ ९७ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
नीला झिण्टी भवेद्वाणः पीता सहचरी भवेत् ।मालती कथ्यते जातिर्मागधी यूथिका तथा ॥ २०५ ॥
अनुष्टुप्
genderस्त्रीfem.
सिन्धूत्थं माणिमन्थं च सैन्धवं लवणोत्तमम् ।कृष्णोपकुल्या वैदेही मागधी पिप्पली कणा ॥ ६१४ ॥
अनुष्टुप्
genderस्त्रीfem.
अम्लसारा मालवोत्था मागधी होसणीति च ।स्यादन्द्रपुष्कलीचाथ चूर्णमम्लं सुधार्थकम् ॥ ३३७ ॥
अनुष्टुप्
genderस्त्रीfem.
कृष्णोपकुल्या कारञ्जी स्पृतिः स्यान्मागधी कणा ।पिप्पली पिप्पलिस्तुल्ये ऊषणा चपलापि च ॥ ३४४ ॥
अनुष्टुप्
genderस्त्रीfem.
तदुद्भवं प्राकृतं तन्मागधी सूरसेन्यपि ।अपभ्रंशो भूतभाषा भाषाः षडथ वृत्तयः ॥ ५५ ॥
अनुष्टुप्
genderस्त्रीfem.
संस्कृता सौर[56a]सेनी च पैशाची मागधी तथा ।राक्षसी दैशिकी चेति भाषाभेदाः षडीरिताः ॥ ११४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
मागधी गणिकाम्बष्ठा यूथिका बलि(बाल?)पुष्पिका ।गुणोज्ज्व(?)ला पुण्यगन्धा हसन्ती च शिखण्डिनी ॥ ९६ ॥
अनुष्टुप्
genderस्त्रीfem.
कणामूलं च पत्राङ्गं विरूपं मागधं तथा ।पिप्पली मागधी कृष्णा वैदेही चपला कटुः ॥ ७१ ॥
अनुष्टुप्
genderस्त्रीfem.
यूथिकायां बालपुष्पी मागधी गन्धयूथिका ।गुणोज्ज्वला पुण्यगन्धा चारुमोटा शिखण्डिनी ॥ २३८ ॥
अनुष्टुप्
genderस्त्रीfem.
यवनेष्टं शिरोवृत्तमूषणं कोलकं च तत् ।पिप्पल्यां चपला कृष्णा वैदेही मागधी कणा ॥ ३०४ ॥
अनुष्टुप्
genderस्त्रीfem.
ज्योत्स्ना स्वल्पफला ग्राम्या मृदङ्गः कृतवेधनः ।अथ श्रृङ्ग्यां दीर्घफला मागधी मनलोत्तमा ॥ ५६ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्री शुण्ठिरूषणं विश्वभेषजं सिंहलं कटुः ।पिप्पली मागधी शौण्डी ग्रन्थिनी तीक्ष्णतण्डुला ॥ २२० ॥
अनुष्टुप्
genderस्त्रीfem.
सिन्दुवारे च निर्गुण्डी वासन्ती माध[34]वी लता ।मल्लिका मालती तुल्ये यूथिका मागधी स्मृता ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
मागधी पिप्पली कृष्णा कणा स्यादुपकुल्यया ।वैदेही पिप्पलीमूले ग्रन्थिकं कथितं बुधैः ॥ १०२ ॥
अनुष्टुप्
genderस्त्रीfem.
यूथिका गणिकाऽम्बष्ठा मागधी बालपुष्पिका ।युवतीष्टा हेमयूथी शिखण्डी नागपुष्पिका ॥ २०९ ॥
अनुष्टुप्
genderस्त्रीfem.
षट् संस्कृतादिकाः भाषाः कथ्यन्ते क्रमशो यथा ।संस्कृतं प्राकृतं शौरसेनी पैशाचमागधी ॥ ४१२ ॥
अनुष्टुप्
genderस्त्रीfem.
ऊषणा चोषणा चापि चपला मागधी तथा ।हि तण्डुलफला चेति कृष्णानामानि कथ्यते ॥ ६३४ ॥
अनुष्टुप्
genderस्त्रीfem.
मागधी यूथिकाऽम्बष्ठा गणिकापि च तद्भिदा ॥ २०४४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
यूथिका गणिका यूथी प्रसहन्ती च मागधी ।अम्वष्टेत्यपि सा पीता हेम स्यात् हेमपुष्पिका ॥
अनुष्टुप्
genderस्त्रीfem.
कृष्णफला पूतिफली वाण्डजा सोमराजिका ।पिप्पली पिप्पलिः कृष्णा वैदेही मागधी कणा ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ष्ण (wrong syllable)
genderस्त्रीfem.
शतपर्वा च पौलोमी सा तु हैमवती सिता ।ऊषणा पिप्पली शौण्डी वैदेही मागधी कणा ॥ ५७५ ॥
अनुष्टुप्
genderस्त्रीfem.
श्वेतकङ्गुस्तु मसुटी पीतकङ्गुस्तु मागधी ।उदारः काककङ्गुः स्त्री कोरदूषस्तु कोद्रवः ॥ १४२० ॥
अनुष्टुप्
genderस्त्रीfem.
दैत्येचैत्रवसन्तेषु द्रुमभेदे च ना मधुः ।मिद्धं चिन्तातिसंक्षेये निद्रायां चाऽथ मागधी ॥ २२० ॥
अनुष्टुप्
genderस्त्रीfem.
ज्योत्स्न्यां स्वल्पफला ग्राम्या मृदंगः कृतवेधनः ।अथ जिंगी दीर्घफला मागधी मलनोत्तमा ॥ १६० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दी (wrong syllable)
genderस्त्रीfem.
शृंगिबेरं महाकन्दं हंसच्छत्रं कलापकम् ।पिप्पली मागधी शौण्डी वृषलं चोषणा बला ॥ ७६ ॥
अनुष्टुप्
genderस्त्रीfem.
doubtful
doubtful
पिप्पल्यां यूथिकायां ना लग्ने मगधजे त्रिषु ।लशुनेऽतिविषायां च शुण्ठ्यामपि महौषधम् ॥ २२१ ॥
अनुष्टुप्
doubtful
मागधी as a meaning in nānārtha verses
- कोषकल्पतरु बोधनीमागध्यांबुधि(?)बोधनी तु रजनी तद्वद्धरिद्रार्थका- याम्भोजे नलिनी भवेत्क[19b]मलिनी स्वःसिन्धुकासारयोः ॥ ९६ ॥ Koṣakalpataru 6.21.96
- नानार्थार्णवसंक्षेप यूथीमागधीसंज्ञके पुष्पवल्लिभेदेऽथ यूषवाक् । व्यञ्जनस्य रसे न स्त्री छायायां तु स्त्रियामियम् ॥ १०७० ॥ Nānārthārṇavasaṃkṣepa 2.5.1070
- नानार्थार्णवसंक्षेप अमृतमागध्यां चाह सूर्यस्य पुनस्तेषु गभस्तिषु । ये वृष्टिसर्जने प्रोक्ता येषा सङ्ख्या चतुःशती ॥ ४ ॥ Nānārthārṇavasaṃkṣepa 4.4
- परमानन्दीयनाममाला अमृताअमृता मागधीपथ्यामलकीषु गुडूच्यपि । अनयः पामरे नाशे व्यसनेऽथावधिर्बिले ॥ २९ ॥ Paramānandīyanāmamālā 5.1.29
- शिवकोष मधुरामसूरमसुरौ पुंसि द्वावेतावपि चैतयोः । मधुरं विषे स्त्रियां द्राक्षामिश्रेयामागधीषु च ॥ ४०७ ॥ Śivakoṣa 22.3.407
- शब्दरत्नावली अमृताअमृतामलकीपथ्यागुडूचीमागधीषु च । अमृतन्तु भवेत्कृष्यामसत्ये च नपुंसकम् ॥ Śabdaratnāvalī 7.16.72