कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अधीर

adhīraवि · adj.

In 7 kośas: 6 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.26
अधीरे कातरस्त्रस्ते भीरुभीरुकभीलुकाः ॥ २६ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.695 · p. 80
लोलं चपलं चटुलं प्रचलं तरलं परिप्लवमधीरम् ।पारिप्लवं च धीराश्चलाचलं चञ्चलं च कथयन्ति ॥ ६९५ ॥
गीतिः
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.367 · p. 129
अधीरः कातरो भीरुर्भीलुश्चकित इत्यपि ।दरितश्चकिलो भीतस्त्रस्तस्त्रसित इत्यथ ॥ ३६७ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.77 · p. 8
पतिघ्नी पाणिरेखा स्यात्पित्तघ्नं पित्तनाशनम् ।हस्तिघ्नो हस्तिघाती स्याज्जनौः स्याज्जनरक्षकः ॥ओजायमान उक्तोऽसावोजस्वीवाचरेद्धि यः ।अधीरः कातरस्त्रस्नुर्भीरुर्भीरुक-भीलुकौ ॥ ७७ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.32 · p. 160
धृष्टो धृष्णुर्वियातश्च तथा धर्षित इत्यपि ।स्याद्विनीते तु निभृतः प्रश्रितोऽपि निगद्यते ॥स्याद्विलक्षो विलक्ष्यश्च विस्मयान्वित इत्यपि ।अधीरः कातरोऽपि स्यात् द्वयं धैर्यविवर्जिते ॥स्यात् त्रस्नुर्भीरुको भीरुर्भीलुर्भीलुक इत्यपि ।स्यादाशंसुक आशंसुर्भवेदाशंसिता च सः ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.18 · p. 202
अधीरे कातरत्रस्नुभीरुभीरुकभीलुकाः ।दरिते भीतचकितत्रस्ताः स्निग्धस्तु वत्सलः ॥ १८ ॥
अनुष्टुप्
genderविadj.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् वाच्यलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.4.2 · p. 41
अभ्यग्रोऽभिमुखे नव्ये समीपेऽप्यधमः पुनः ।न्यूनेऽपि गर्हितेऽधीरः पुनर्भीरौ च चञ्चले ॥ २ ॥
अनुष्टुप्

अधीर as a meaning in nānārtha verses

  • कोषकल्पतरु एडमूकमङ्गल्यसूत्रेऽपि च मातृयात्रा- संन्यस्तसंदेहशरीरिषु स्यात् । स्यादेडमूकः श्रुतिवाग्विहीने- ऽधीरेऽथ रक्षस्यपि दन्दशूकः ॥ ५२ ॥ Koṣakalpataru 6.1.52