कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पारिप्लव

pāriplavaवि · adj.

In 12 kośas: 12 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1455 · p. 55
स्थावरं तु जङ्गमान्यज्जङ्गमं तु त्रसं चरम् ।चराचरं जगदिङ्गं चरिष्णुश्चाथ चञ्चलम् ॥ १४५४ ॥तरलं कम्पनं कम्प्रं परिप्लवचलाचले ।चटुलं चपलं लोलं चलं पारिप्लवास्थिरे ॥ १४५५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable); pāda 3, syllable 6 ग (wrong syllable)
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.127
चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम् ॥ ७४ ॥चञ्चलं तरलं चैव पारिप्लवपरिप्लवे ।
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.695 · p. 80
लोलं चपलं चटुलं प्रचलं तरलं परिप्लवमधीरम् ।पारिप्लवं च धीराश्चलाचलं चञ्चलं च कथयन्ति ॥ ६९५ ॥
गीतिः
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.134 · p. 229
चलं स्यात्तरलं चाथ पारिप्लवपरिप्लवे ।अतिरिक्तः समधिको दृढसंधिस्तु संहतः ॥ १३४ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.15 · p. 23
चलनं चञ्चलं कम्प्रं कम्पनं चटुलास्थिरे ।एजनं वेपनं वेपि पारिप्लव-परिप्लवे ॥ १५ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.343 · p. 94
चपलं चञ्चलं लोलं कम्पनं तरलं चलम् ।पारप्लवं कम्प्रमुक्तं चटुलं चास्थिरे समम् ॥ ३४३ ॥
अनुष्टुप्
genderविadj.doubtful
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.699 · p. 117
तरलं कम्पनं कम्पं(म्प्रं?) पारिप्लवपरिप्लवे ।कठिने तु दृढं क्रूरं जरठं(ठरं?) प्रौढमेधितम् ॥ ६९९ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2646 · p. 427
ज्ञेयं परिप्लवं पारिप्लवमऽस्थिरमेव च ।त्रयोदशैव नामानि चपलस्य भवन्ति वै ॥ २६४६ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.31 · p. 165
चलं पारिप्लवं लोलं चञ्चलञ्च परिप्लवम् ।चलाचलञ्च तरलं भवेत् चलनमात्रके ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.52 · p. 253
चरं चराचरं तद्वच्चरिष्णुवदिहाऽस्थिरे ।परिप्लवं पारिप्लवं चञ्चलं च चलाचलम् ॥ ५२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1595 · p. 192
उदारो दातृभोक्ता स्यादिष्टार्थोद्युक्त उत्सुकः ।स्पन्दनं किंचिच्चलनं पारिप्लवपरिप्लवे ॥ १५९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चि (wrong syllable)
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.79 · p. 207
चिकुरं चटुलङ्कंप्रं पारिप्लवपरिप्लवौ ।स्थास्न्वेकरूपं कूटस्थं स्थेयान् स्थेष्ठोऽप्यतिस्थिरे ॥ ७९ ॥
अनुष्टुप्
genderविadj.