अनुप्लव
anuplavaपुं · masc.In 11 kośas: 11 synonym verses.
सहायोऽभिचरोऽनोश्च जीविगामिचरप्लवाः ।सेवकोऽथ सेवा भक्तिः परिचर्या प्रसादना ॥ ४९६ ॥शुश्रूषाराधनोपास्तिवरिवस्यापरीष्टयः ।उपचारः पदातिस्तु पत्तिः पद्गः पदातिकः ॥ ४९७ ॥पादातिकः पादचारी पदाजिपदिकावपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 से (wrong syllable)
genderपुंmasc.doubtful
genderविadj.
अभिहारस्त्वभिचरः सहायोऽनुप्लवोऽनुगः ।क्षुद्रोपकरणे चास्य अध्यक्षः पारिकर्मिकः ॥ ३३५ ॥
अनुष्टुप्
genderपुंmasc.
चर्मी फलकपाणिः स्यात् पताकी वैजयन्तिकः ।अनुप्लवः सहायश्च चतुराभिचरौ समौ ॥ २४० ॥
अनुष्टुप्
genderपुंmasc.
सहकृत्वा सहायः स्यादनुगाम्यप्यनुप्लवः ।भवेदनुचरश्चाभिसरः पत्त्यादयस्त्रिषु ॥ ९५ ॥
अनुष्टुप्
genderविadj.
अत्यन्तीनोऽपि तत्रैव सहायः सेवकः समौ ।अनुप्लवोऽभिगामी चानुगाम्यभिचरस्तथा ॥ १६१ ॥
अनुष्टुप्
genderपुंmasc.
अथ प्रोक्तस्त्वनुचरेऽभिचरोऽनुप्लवो वशी ।सहायश्च पुरोगे तु प्रतिष्ठश्च पुरःसरः ॥ ३३५ ॥
अनुष्टुप्
genderपुंmasc.
अनुगोऽनुचरश्चैवाऽनुप्लवोऽभिचरस्तथा ।सहायश्चानुगामी चाऽऽनुजीवी स्यात् च सेवकः ॥ ७७३ ॥
अनुष्टुप्
genderपुंmasc.
चर्मी फलकपाणिः स्यात् चर्मीणः फलकालकः ।पताकाधारके पुंसि पताकी वैजयन्तिकः ॥सहायोऽनुप्लवश्चानुचरोऽभिसर इत्यपि ।प्रतिक्षसः सदारक्षः प्रतिष्कशश्च कुत्रचित् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्क (wrong syllable)
genderपुंmasc.
अभिद्विषो यानमभिक्रमः स्यात् समौ रणे भङ्गपराजयौ द्वौ ।अनुप्लवस्त्वनुचरः सहायोऽभिसरोऽनुगः ॥ १३६३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
छत्रं स्यादातपत्रं तन्नृपलक्ष्म नृपस्य चेत् ।अभिसारस्त्वनुचरः सहायोऽनुप्लवोऽनुगः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.