सेवक
sevakaपुं · masc.In 17 kośas: 15 synonym verses, 4 as a nānārtha head word, 17 as a meaning of another word.
सहायोऽभिचरोऽनोश्च जीविगामिचरप्लवाः ।सेवकोऽथ सेवा भक्तिः परिचर्या प्रसादना ॥ ४९६ ॥शुश्रूषाराधनोपास्तिवरिवस्यापरीष्टयः ।उपचारः पदातिस्तु पत्तिः पद्गः पदातिकः ॥ ४९७ ॥पादातिकः पादचारी पदाजिपदिकावपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 से (wrong syllable)
genderपुंmasc.
genderपुंmasc.
मित्रं सखा वयस्यश्च सुहृत्स्निग्धश्च कथ्यते ।अनुजीवी सहायः स्यात्सेवकोऽनुचरोऽनुगः ॥ ४२८ ॥
अनुष्टुप्
genderपुंmasc.
स्थापत्यः सौविदोऽथ स्याद्भृत्यो भृतक इत्यपि ।सेवकोर्थानुजीवी स्याद्वैर्यरिर्द्वेषणो द्विषत् ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
[109a] सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते ।शण्ढः षण्ढो वर्षधरः सेवकस्तूपजीवकः ॥ ४५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
genderपुंmasc.
क्ली तु तोये सेवनं तु क्लीबं स्यात् स्यूतिसेवयोः ।अना तु सेवयत्यर्थे सेवना सेवकः पुनः ॥ २००१ ॥
अनुष्टुप्
genderपुंmasc.
अत्यन्तीनोऽपि तत्रैव सहायः सेवकः समौ ।अनुप्लवोऽभिगामी चानुगाम्यभिचरस्तथा ॥ १६१ ॥
अनुष्टुप्
genderपुंmasc.
धर्षमायी धषधरो वर्षधर्षोऽपि सम्मतः ।मन्त्रिमुख्येषु कथितः सेवकोऽप्यनुजीवनः ॥ २५८ ॥
अनुष्टुप्
genderपुंmasc.
भटोऽनुजीव्यनुचरः पदातिः पदगोऽनुगः ।पत्तिर्भृत्यः शस्त्रजीवी किङ्करः सेवको जनः ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
सेवका भटिका योधा योधका भटराहुतः(?) ।पदातिपत्तिपादाताः पदातिकपदाजयः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
सेवकः किंकरो भृत्योऽनुजीव्यनुचरोऽनुगः ।दासः प्रेक्षो भृतकश्च चेटः कर्मकरोऽपि च ॥ १६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
genderपुंmasc.
अनुगोऽनुचरश्चैवाऽनुप्लवोऽभिचरस्तथा ।सहायश्चानुगामी चाऽऽनुजीवी स्यात् च सेवकः ॥ ७७३ ॥
अनुष्टुप्
genderपुंmasc.
अनुजीवी सेवकोऽर्थी त्रयं स्यात् परिचारके ।भूमेरव्यवहितो विजिगीषोः समन्ततः ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 1 भू (syllables merged)
genderपुंmasc.
स्रंसनं ध्वंसनं भ्रंशो भ्रेषोऽधःपतनं स्थितेः ।अनीकस्थो रक्षिवर्गोऽनुजीवी सेवकः समौ ॥ १३१० ॥
अनुष्टुप्
genderपुंmasc.
सेवकश्चानुजीवी च यस्तु केलिसहायकः ।वैहासिकः केलिकिलस्तस्मिन् हासनिकोऽपि च ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
सेवक as a meaning in nānārtha verses
- धरणिकोश अर्थिन्अर्थिनः स्युर्याचनका अर्थिनः सेवका अपि । सादिनः स्यन्दनारोहा हस्त्यारोहाश्च सादिनः ॥ Dharaṇikośa 19.2.12
- कोषकल्पतरु अर्थिन्अर्थी विवादिन्यपि सेवके च स्याद्याचकेऽसौ कथितश्च पुंसि । रागी तु रक्ते परवच्च कम्रे ध्वजी तु शैले रथविप्रयोश्च ॥ ८२ ॥ Koṣakalpataru 6.21.82
- नानार्थार्णवसंक्षेप सेपरब्रह्मणि नीरे च वयं ब्रूमो नपुंसकम् । सेशब्दः सेवने स्त्री स्यात् सेवके वाच्यलिङ्गकः ॥ २३ ॥ Nānārthārṇavasaṃkṣepa 1.5.23
- नानार्थार्णवसंक्षेप अर्थिन्शरीरिशेषिणोरङ्गी विशेषादङ्गवत्यपि । सेवके याचकेऽप्यर्थी व्यवहाराभियोक्तरि ॥ २ ॥ Nānārthārṇavasaṃkṣepa 2.4.2
- नानार्थार्णवसंक्षेप अनुगअवरस्त्वप्रशस्ते स्यादर्वाच्यप्यखिलं पुनः । कृत्स्ने गर्ह्येऽनुगस्तु स्यादनुगामिनि सेवके ॥ ३ ॥ Nānārthārṇavasaṃkṣepa 3.4.3
- नानार्थार्णवसंक्षेप जीवकजीवकः स्यात् क्षपणके तथैवासनपादपे । त्रि तु श्रेष्ठे प्राणितरि वृद्धयाजीविनि सेवके ॥ ७९९ ॥ Nānārthārṇavasaṃkṣepa 4.799
- नानार्थार्णवसंक्षेप भटिलमुनिप्रभेदे भव्ये तु त्रिरथो भटिलो द्वयोः । शुनि स्यात् सेवके तु त्रिर्भण्डिलस्तु शुनि द्वयोः ॥ १२७१ ॥ Nānārthārṇavasaṃkṣepa 4.1271
- नानार्थार्णवसंक्षेप भटालभटालं तु कपोले क्ली भेद्यलिङ्गं तु सेवके । भल्लाटस्तु द्वयोरृक्षमृगेऽथो वास्तुवासिनाम् ॥ १२७९ ॥ Nānārthārṇavasaṃkṣepa 4.1279
- नानार्थार्णवसंक्षेप वराटसेवकेऽथ वरालो ना मिश्रवर्णान्तरे भवेत् । सितपिङ्गाणरूपेऽथ तद्वति त्रिषु सा पुनः ॥ १५९० ॥ Nānārthārṇavasaṃkṣepa 4.1590
- नानार्थार्णवसंक्षेप सहायबहुन्यपि सहायस्तु द्वे सख्यौ त्रि तु सेवके । सर्वौघस्तु पुमान् राज्ञां सर्वसन्नहनेऽथ नप् ॥ १८९२ ॥ Nānārthārṇavasaṃkṣepa 4.1892
- नानार्थार्णवसंक्षेप अनुजीविन्सहाये सेवके चाथो आक्षारित इति ध्वनिः । विवादेष्वभियुक्ते चास्राविते चाभिशस्तके ॥ १४ ॥ Nānārthārṇavasaṃkṣepa 6.14
- नानार्थार्णवसंक्षेप अभिप्लवत्रिः पुनः सेवकेऽथ स्यादनुदात्तः पुमान् स्वरे । निघाताख्ये तद्वति तु त्रिरुदात्तात् परत्र च ॥ २५ ॥ Nānārthārṇavasaṃkṣepa 6.25
- परमानन्दीयनाममाला जीवकजीविका वर्तनेऽथोक्तो जीवकः सेवके तरौ । प्राणके चातके व्यालग्राहे वृद्ध्युपजीविनि ॥ २०३ ॥ Paramānandīyanāmamālā 5.13.203
- शब्दरत्नावली जीवकत्रिषु सेवकवृद्याशिजीविषु त्वहितुण्डिके । झल्लिका स्यात् पुटे द्योते तूद्वर्तनमलेऽपि च ॥ Śabdaratnāvalī 7.1.79
- शब्दरत्नावली अर्थिन्अर्थी च सेवके पुंसि याचके च विवादिनि । अर्वा तु घोटके पुंसि कुत्सिते वाच्यलिङ्गकः ॥ Śabdaratnāvalī 7.20.34
- त्रिकाण्डशेष सेधार्मिकाणां तु सम्भूय भोजनं गणचक्रकम् । क्रीडाक्रीडकयोर्देश्च सेवायां सेवके च सेः ॥ ५ ॥ Trikāṇḍaśeṣa 3.2.5
- वैजयन्ती सेसेशब्दः सेवने स्त्री स्यात्सेवके त्वभिधेयवत् । Vaijayantī 8.5.43