परीष्टि
parīṣṭiस्त्री · fem.In 13 kośas: 12 synonym verses, 5 as a nānārtha head word, 1 as a meaning of another word.
सहायोऽभिचरोऽनोश्च जीविगामिचरप्लवाः ।सेवकोऽथ सेवा भक्तिः परिचर्या प्रसादना ॥ ४९६ ॥शुश्रूषाराधनोपास्तिवरिवस्यापरीष्टयः ।उपचारः पदातिस्तु पत्तिः पद्गः पदातिकः ॥ ४९७ ॥पादातिकः पादचारी पदाजिपदिकावपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 से (wrong syllable)
genderस्त्रीfem.
पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा ।
अनुष्टुप्
genderस्त्रीfem.
वरिवस्या परिचर्या शुश्रूषोपासना परीष्टिः स्यात् ।सेवा भक्तिरुपास्तिः प्रसादनाराधनोपचाराश्च ॥ १२९ ॥
गीतिः
genderस्त्रीfem.
पर्येषणा परीष्टिः स्यादन्वेषणा गवेषणा ।याचनाध्येषणा याञ्चा परीष्टिरपि चार्थना ॥ १११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
genderस्त्रीfem.
पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा ।सनिस्त्वध्येषणा च स्यात्पूज्यानां याग्रतोऽर्थना ॥ ७७ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रणिपातस्त्वनुनयः प्रणतिः स्त्री क्षमापणम् ।वरिवस्या तु शुश्रूषा परिचर्या प्रसादना ।आराधनोपासना च परीष्टिर्भक्तिरित्यपि ॥ ८४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
सेवा प्रसादना भक्तिः सेवनं परिचर्यया ।परीष्ट्याराधनोपास्तिः शुश्रूषा वरिवस्यया ॥ १६२ ॥
अनुष्टुप्
genderस्त्रीfem.
श्राद्धार्थं ब्राह्मणान्वेषणे स्यादन्वेषणापि च ।पर्येषणा परीष्टिश्च परिषेचनमित्यपि ॥ २२८ ॥
अनुष्टुप्
genderस्त्रीfem.
सेवा भक्तिश्च शुश्रूषा परिचर्या प्रसादना ।उपास्तिरुपचारश्च परीष्टिः स्यादुपासना ॥ ७७४ ॥
अनुष्टुप्
genderस्त्रीfem.
दिनेऽष्टममुहूर्तस्तु कुतुपः कुतपोऽस्त्रियाम् ।पर्येषणान्वेषणा च परीष्टिः स्याद्गवेषणा ॥
अनुष्टुप्
genderस्त्रीfem.
भिक्षा च याचना शंसा शासनं विचयो मृगः ।मार्गः परीष्टिरन्विष्टं मृगणान्वेषणा तथा ॥ १२५५ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्याधाताग्रजेऽनग्नौ कृताधानोऽग्रजस्त्वसौ ।पर्याहितस्तथा न्यायः परियष्टृपरीष्टयोः ॥ ७४ ॥
अनुष्टुप्
genderस्त्रीfem.
परीष्टि as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप वरिवस्याअत्रोक्तं सज्जनेनेदं द्व्यर्था इत्यधिकृत्य यत् । वरिवस्या परीष्टौ स्यादिति तत् संशयास्पदम् ॥ ५० ॥ Nānārthārṇavasaṃkṣepa 6.50