कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सेवा

sevāस्त्री · fem.

In 14 kośas: 15 synonym verses, 1 as a nānārtha head word, 23 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.206 · p. 23
सहायोऽभिचरोऽनोश्च जीविगामिचरप्लवाः ।सेवकोऽथ सेवा भक्तिः परिचर्या प्रसादना ॥ ४९६ ॥शुश्रूषाराधनोपास्तिवरिवस्यापरीष्टयः ।उपचारः पदातिस्तु पत्तिः पद्गः पदातिकः ॥ ४९७ ॥पादातिकः पादचारी पदाजिपदिकावपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 से (wrong syllable)
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.2
स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः ।सेवा श्ववृत्तिरनृतं कृषिरुञ्छशिलं त्वृतम् ॥ २ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.129 · p. 16
वरिवस्या परिचर्या शुश्रूषोपासना परीष्टिः स्यात् ।सेवा भक्तिरुपास्तिः प्रसादनाराधनोपचाराश्च ॥ १२९ ॥
गीतिः
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.43 · p. 456
मधुपर्यायपुष्टार्थः स्वरोचिश्चास्य तु प्रिया ।केलती से रागलता सेवा केलिकला रतिः ॥ ४३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रा (wrong syllable)
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.85 · p. 239
सेवोपास्तिश्च भजनं सेवनं चाप्युपासनम् ।उपचर्योपचारोऽथ प्रतिपत्तिश्च गौ[102b]रवम् ॥ ८५ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.1280 · p. 248
अनुजीवी चोपजीवी स्यादर्थी च त्रिलिङ्गगाः ।संवाहकोऽङ्गमर्द्दी स्याच्छायाकृच्छत्रधारकः ।सेवा श्ववृत्तिर्दुर्वृत्तिरतिश्वी च निगद्यते ॥ ॥
अनुष्टुप्metre not read in every linedoubled daṇḍa: ॥ ॥
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.162 · p. 122
सेवा प्रसादना भक्तिः सेवनं परिचर्यया ।परीष्ट्याराधनोपास्तिः शुश्रूषा वरिवस्यया ॥ १६२ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.122 · p. 31
भक्तिः सेवा च सु[शु]श्रूषा परिचर्या प्रसादना ।वरिवस्याराधनोपास्तिर्विनयः समुपासनम् ॥ १२२ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 2 र्विन (syllable split)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.774 · p. 111
सेवा भक्तिश्च शुश्रूषा परिचर्या प्रसादना ।उपास्तिरुपचारश्च परीष्टिः स्यादुपासना ॥ ७७४ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1359 · p. 230
श्वजीविका च सेवा च सेवावृत्तिरिहोच्यते ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ति (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.66 · p. 115
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.2 · p. 138
वाणिज्यं पाशुपाल्यञ्च कृषिश्चैवेह वृत्तयः ।अथ सेवाश्ववृत्तिः स्यात् स्त्रियां कृषिश्च कर्षणम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कृ (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1247 · p. 152
महोऽञ्चनमुपास्तिस्तु भक्तिः सेवा समाश्रयः ।आप्लाव आप्लवः स्नानमवगाहनमज्जने ॥ १२४७ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.38 · p. 86
वरिवस्या तु शुश्रूषा सेवा भक्तिरुपासना ।परिचर्याराधनञ्च सेवनञ्च प्रसादनम् ॥ ३८ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.7 · p. 123
सेवा श्ववृत्तिरेताश्च याजनाद्याश्च वृत्तयः ।त्रिष्वालेखात्कुडुंबी तु क्षेत्राजीवः कृषीवलः ॥ ७ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.97 · p. 45
शटति स्यात्क्षयति च तथा मटति नन्दति ।वेति प्राप्तौ त्वाङ्परः स्यात्सीदतिश्चासने नितः ॥उदो विनाशेऽवाद्ध्रासेऽनुत्साहेऽपादनुग्रहे ।शुद्धावुपादानुकूल्ये प्रतिपादन-सेवयोः ॥ ९७ ॥
अनुष्टुप्
meanings

सेवा as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् भिक्षाप्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः ॥ २२५ ॥ Amarakośa 3.3.225
  • धरणिकोश क्लिष्टिव्युष्टिः फले समृद्धौ च क्लिष्टिः स्यात्क्लेशसेवयोः । सृष्टिः स्वभावे निर्माणे दृष्टिर्धीदर्शनाक्षिषु ॥ Dharaṇikośa 10.1.1
  • धरणिकोश उपसत्तिनिराकृतिः प्रतिक्षेपेऽप्यस्वाध्यायेऽप्यनाकृतौ । उपसत्तिस्तु सेवायां संगमात्रे च कीर्तिता ॥ Dharaṇikośa 15.2.66
  • धरणिकोश भिक्षाध्वाङ्क्षौ काकबकौ ख्यातौ ध्वाङ्क्षस्तर्ककभिक्षुकाः । मिक्षा याच्ञा भृतिः सेवा भिक्षा भिक्षणवस्तु च ॥ Dharaṇikośa 33.2.3
  • कोषकल्पतरु परि-चर्खेटयति खेडयति ग्रसते ग्लसते च खोटयति । चरति चषतेऽपि चषति गलति तथाभ्यवहरत्यपि । उपाद्भुजिश्चोपभोगेऽथाङः पूर्णत्व-यत्नयोः । समो साभे नुतोमत्यां(?)न तु तङ्मान्स रक्षणे ॥ आङश्चमिरुपस्पर्शे चाभ्यधिभ्यां चरिः क्षये । अनोः सहायकेऽथोपादुपादाराधनार्थकः ॥ रोगस्य च चिकित्सायां शब्दवृत्तेर्विशेषणे । आङः कृतौ परेः सेवे वाच्युदः समुदः परः ॥ सहचारिण्यपावृत्तौ भूयः प्रत्याङ उत्तरः । अतेरुल्लङ्घनानीत्योः प्रात्प्रसिद्धावभेः पुनः ॥ अन्यथात्वेऽथोत्परोऽसौ कर्मवानात्मनेपदी । तथा तृतीयया युक्तः[183b]संपरश्च प्रकीर्तितः ॥ चलनप्राशनार्थेभ्यः स्यात्परस्मैपदं णिचि । आदेस्तु कर्त्रभिप्राये फले स्यादात्मनेपदम् ॥ परेर्मोहयतेर्वादेर्वासेः पाययतेर्दमेः । आङ्यासेरपि तद्वत्स्यात्तथा धापयतेरपि ॥ तद्वद्रोचेर्नर्तयतेर्ण्यन्तानां बुधयुध्नशाम् । प्रुद्रुस्रूणां जनेङोश्च परस्मैपदमीरितम् ॥ इच्छति वाङ्क्षति काङ्क्षति वाञ्छति माङ्क्षति च लष्यते लषति । लष्यति लषते लुभ्यति कामयते वष्टि चाशास्ते । प्रीणाति प्रीणीते गृध्यत्यनुरुध्यते च गर्धयति । आशंसते च हर्यति कनत्यवति खटति तद्वत्स्युः । वरयति लालयते च स्पृहयति लिप्सत्यपि चेच्छार्थाः ॥ २६ ॥ Koṣakalpataru 3.5.26
  • कोषकल्पतरु अन्वास्तेउत्परस्त्वासिरौदास्येऽथोपाच्छुश्रूषणे वधे । शराभ्यासे सेवनेऽनोरनुशोचन-सेवयोः ॥ ४१ ॥ Koṣakalpataru 3.5.41
  • कोषकल्पतरु उपकरोतिअभ्याङुद्भ्योऽप्युदाङ्भ्यां च गन्धेऽथोपादनुग्रहे । सेवोपयोग-भूषासु वाक्याध्याहारवैकृते ॥ ५४ ॥ Koṣakalpataru 3.5.54
  • कोषकल्पतरु प्रकरोतिप्रात्प्रस्तावे प्रकथने सेवासादृश्यसाहसे । भेदोपयोगे परितः परिसर्पे समाहृतौ ॥ ५८ ॥ Koṣakalpataru 3.5.58
  • कोषकल्पतरु उपसत्तिउपगमे च जने स्यादुपपत्तिर्योजने कथिता । उपसत्तिः सेवायां प्रतिपत्तौ सङ्गमात्रे च ॥ ७७ ॥ Koṣakalpataru 6.17.77
  • कोषकल्पतरु भिक्षाअचिक्कणेऽथो भृतियाच्ञयोः स्या- द्भिक्षा तथा भिक्षितसेवयोश्च । प्रेक्षा वितर्के धियि संप्रदिष्टा प्लीक्षा( ? )तु रक्षा किल रक्षणेऽपि । कुक्षिर्द्वयोः स्याज्जठराह्वये च गौडादयस्तूदरमात्र आहुः ॥ ५५ ॥ Koṣakalpataru 6.30.55
  • नानार्थार्णवसंक्षेप भिक्षाभिक्षा तु भिक्षितद्रव्ये देयान्ने ग्रासमात्रके । भृतियाचनसेवासु भित्तिं त्वजय आमनत् ॥ ७५ ॥ Nānārthārṇavasaṃkṣepa 2.1.75
  • नानार्थार्णवसंक्षेप दृश्याबलवत्यप्यथ श्लेष्मसंज्ञे चर्मविकारके । नृशण्डयोरथो दृश्या स्त्री सेवायामथ त्रिषु ॥ ६१३ ॥ Nānārthārṇavasaṃkṣepa 2.5.613
  • नानार्थार्णवसंक्षेप भक्तसेवायामोदने क्ली त्रिः सेविते भक्तिमत्यपि । भटस्तु योधे ना मर्त्यजातिभेदे तु स द्वयोः ॥ ८८५ ॥ Nānārthārṇavasaṃkṣepa 2.5.885
  • नानार्थार्णवसंक्षेप श्ववृत्तिपरिखायां बहिर्भूमौ राज्ञां दन्तान्तरे शुनाम् । श्ववृत्तिस्तु शुनां वृत्तौ सेवायां चाथ शष्कुली ॥ ९३ ॥ Nānārthārṇavasaṃkṣepa 3.1.93
  • नानार्थार्णवसंक्षेप सेवनक्ली तु तोये सेवनं तु क्लीबं स्यात् स्यूतिसेवयोः । अना तु सेवयत्यर्थे सेवना सेवकः पुनः ॥ २००१ ॥ Nānārthārṇavasaṃkṣepa 4.2001
  • शब्दरत्नावली भक्तिभर्ता पत्यौ भवेत्पुंसि त्रिषु पोष्टरि धातरि । भक्तिर्विभागे सेवायां भ्रान्तिर्मिथ्यामतौ गतौ ॥ Śabdaratnāvalī 7.16.31
  • शब्दरत्नावली उपसत्तिउदास्थितः प्रतीहारे प्रव्रज्यावसिते चरे । स्यादुल्लिखितमुत्कीर्णे चित्रिते च तनूकृते ॥ उद्ग्राहितमुदीर्णे स्याद् बद्धग्राहितयोस्त्रिषु । उपसत्तिः सङ्गमात्रे सेवायामपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.16.159
  • शब्दरत्नावली देवनातोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
  • शब्दरत्नावली भिक्षाभिक्षा तु भिक्षितद्रव्ये याञ्चासेवागतिष्वपि । माषो मूर्खे व्रीहिभेदे मानत्वग्दोषयोरपि ॥ मिषं छले क्लीबलिङ्गं स्पर्द्धायां ना मिषाव्ययम् । मेषो भैषज्यभेदे स्यात्पशुभिद्राशिभेदयोः ॥ मोक्षो मुक्तौ मोचने स्यात्पाटलौ भवेत्पुमान् ॥ Śabdaratnāvalī 7.31.11
  • त्रिकाण्डशेष सेधार्मिकाणां तु सम्भूय भोजनं गणचक्रकम् । क्रीडाक्रीडकयोर्देश्च सेवायां सेवके च सेः ॥ ५ ॥ Trikāṇḍaśeṣa 3.2.5
  • त्रिकाण्डशेष भक्तिसेवाविभागयोर्भक्तिर्भवद्युष्मत्सदर्थयोः । पक्षिण्यां वाचि वृत्तौ च भारती भारतं पुनः ॥ १७५ ॥ Trikāṇḍaśeṣa 3.3.175
  • वैजयन्ती भिक्षाभसदौ गुह्यविट्कोष्ठौ भक्तिर्भागे निषेवणे । मिक्षा तु भिक्षितान्नादौ याच्ञायां भृतिसेवयोः ॥ २६ ॥ Vaijayantī 6.2.26
  • वैजयन्ती सेवनसेनांगे यातनायाञ्च सेवनं स्यूतिसेवयोः । मृत्यौ समाप्तौ संस्थानं सन्निवेशे चतुष्पथे ॥ ३७ ॥ Vaijayantī 7.3.37