कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अपथ

apathaक्ली · neut.

In 11 kośas: 13 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.70 · p. 39
सत्पथे स्वतितः पन्था अपन्था अपथं समे ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह भूमिवर्गः Amarakośa 2.1.24
अपन्थास्त्वपथं तुल्ये शृङ्गाटकचतुष्पथे ।
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.95 · p. 19
अयनं वर्त्तनं वर्त्म क्लीबे स्याच्छरणिर्द्वयोः ।अथाचारो वहो माथोऽपथं क्लीबेऽपथोऽपि वा ॥ ९५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.57 · p. 118
प्राध्वः स्यात्प्रहतः पन्थाः कान्तारोऽस्त्री स दुर्गमः ।प्रान्तरं दूरशून्योऽन्त्येऽथा[पन्था] अपथं भवेत् ॥ ५७ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.266 · p. 37
पदवी वर्त्म मञ्जुः स्यात्सुपन्थाश्चातिपूर्वकः ।अपन्था अपथं चैव उन्मार्गो मार्गवर्जिते ॥ २६६ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.8 · p. 26
पद्या पदगता पाद्या पाद्यं तस्मिन् प्रकीर्तितम् ।कुमार्गे कुपथश्च स्यादपथो नपथः स्मृतः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.124 · p. 271
अपन्थाश्चाऽपथं नाम भवेदुन्मार्ग एव हि ।
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.26 · p. 47
असत्पथः कदध्वा च भवेत् कुत्सितवर्त्मनि ।अपन्थास्त्वपथञ्चैव पथशून्ये भवेद्द्वयम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.276 · p. 101
अवाच्यदेशः प्रकृतिरपथं स्मरकूपकः ।अप्रदेशः पद्धतिः स्यात् पुष्पी संसारमार्गकः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.32 · p. 220
स्वतितः पन्थाः, अपथमपन्था गूढवर्त्मनि ।भूमध्ये तु द्व्युकाराप्ता दन्त-तालव्यपूर्वगा ॥ ३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्थाः (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.402 · p. 53
अपन्थास्त्वपथं दूरशून्ये प्रान्तरमध्वनि ।संक्रमो दुर्गमार्गः स्याच्छृङ्गाटं तु चतुष्पथम् ॥ ४०२ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण स्त्रीलिङ्गप्रकरणम् Śabdaratnākara 7.1.2318 · p. 282
पथान्ता अपथं हित्वा राजान्तास्तापसाभिधाः ।पुंसि ब्रह्महरीशाख्या [देवाख्या] देवतां विना ॥ २३१८ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.50 · p. 39
विपथः कापथो व्यध्वो दुरध्वश्च कदध्वनि ।अपंथास्त्वपथं दूरशून्ये प्रान्तरमध्वनि ॥ ५० ॥
अनुष्टुप्
genderक्लीneut.