कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अयन

ayanaक्ली · neut.

In 14 kośas: 21 synonym verses, 7 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.75 · p. 10
शरद्घनात्ययोऽयनं शिशिराद्यैस्त्रिभिस्त्रिभिः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 य (wrong syllable)
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.983 · p. 39
पदव्येकपदी पद्या पद्धतिर्वर्त्म वर्तनी ।अयनं सरणिर्मार्गोऽध्वा पन्था निगमः सृतिः ॥ ९८३ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.21
द्वौ द्वौ मार्गादिमासौ स्यादृतुस्तैरयनं त्रिभिः ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह भूमिवर्गः Amarakośa 2.1.15
अयनम्वर्त्म मार्गाध्वपन्थानः पदवी सृतिः ।सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.260 · p. 32
अध्वा पन्थाः पद्धतिरेकपदी वर्त्म वर्तनी सरणिः ।अयनं पदवी मार्गः पद्या च निगद्यते निगमः ॥ २६० ॥
आर्या
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.762 · p. 87
आकूतं स्यादभिप्रायो व्याकूतिर्भङ्गिरुच्यते ।स्थण्डिलं संस्कृता भूमिरयनं स्थानमुच्यते ॥ ७६२ ॥
अनुष्टुप्
genderक्लीneut.
गणितनाममाला Gaṇitanāmamālā · हरदत्त ऋत्वयनवर्षसंज्ञा Gaṇitanāmamālā 22.89 · p. 5
पक्षद्वयेन मास स्यात् ऋतुर्मासद्वयेन च ।ऋतुत्रयेणायनः स्यादयनद्वयेन वत्सरः ॥ ८९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.95 · p. 19
अयनं वर्त्तनं वर्त्म क्लीबे स्याच्छरणिर्द्वयोः ।अथाचारो वहो माथोऽपथं क्लीबेऽपथोऽपि वा ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.84 · p. 98
पुंस्युत्कोच उपाचारोदाहार आमिषं द्वयोः ।ग्राह्यं प्रदानमयनमुपादानं च ढौकनम् ॥ ८४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.72 · p. 413
शिशिराद्यैश्च ऋतुभिरयनं स्यात्स्त्रिभिश्च षण् ।अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः ॥ ७२ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.111 · p. 38
कर्के दक्षिणमयनं मकरे तूत्तरमथांशकैः प्राक्चेत् ।संक्रमणं तरणेः स्याच्चलसंक्रम ईरितस्तर्हि ॥ १११ ॥
आर्याmetre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.56 · p. 117
सरणिर्वर्त्मनि-वीथ्यौ शरणिः स्त्री चायनं वर्त्म ।अतिपन्थाश्च सुपन्थाः सत्पथ एते पुमांसः स्युः ॥ ५६ ॥
metre not recognised
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.146 · p. 23
ऋतुभिश्च त्रिभिश्चैकमयनं परिकीर्तितम् ।अयने द्वे भवेद्वर्षं वत्सरो हायनः समाः ॥ १४६ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.81 · p. 10
तमिस्रमन्धतमसं भूछाया तामसं रजः ।क्षणः पलं घटी यामदिनमासर्तवोऽयनम् ॥ ८१ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.160 · p. 17
अयनं सरणिः पथ्या रथ्या वीथी च संचरः ।उक्षा गौर्वृषभोऽनड्वान्भद्रः शार्करशर्करौ ॥ १६० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.156 · p. 22
मेघकालः क्षरी प्रावृट् वरिषास्तु घनात्ययः ।शरत् चैवाऽयनं ज्ञेयं शिशिराद्यैस्त्रिभिस्त्रिभिः ॥ १५६ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.122 · p. 271
अयनं चेति नामानि मार्गस्य संभवन्ति वै ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.276 · p. 19
अथ षड्भिः सौरमासैरयनं परिकीर्तितम् ।अयने द्वे चन्द्रभानोरुत्तरा दक्षिणा गतिः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.24 · p. 47
वर्तन्येकपदी वाटः सरणिर्वत्म वर्तनम् ।अयनं माच-माथौ च विवधो वीवधोऽपि च ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण कालाध्यायः Śabdaratnākara 1.8.247 · p. 34
उत्तरं दक्षिणं यानमुष्णांशोरयने उभे ।चैत्रादयः फाल्गुनान्ता मासा द्वादश वत्सराः ॥ २४७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.400 · p. 53
अथ वर्त्मायनं पन्था मार्गोऽध्वा पदवी सृतिः ।सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ॥ ४०० ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.23 · p. 112
अयनं पथि सूर्यस्याप्युदग्दक्षिणतो गतौ ।पाकस्थानं कुलालस्य पवनं पवनो मरुत् ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.10 · p. 248
दिश्युत्तरस्या[12b]मपि दक्षिणस्यांरवेर्गतौ वर्त्मनि चायनं स्यात् ।सांग्रामिके संनहने हयादि-यागेऽपि सन्तो यजनं वदन्ति ॥ १० ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 र (wrong syllable)
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.3.1 · p. 33
अयनं निलये मार्गे सूर्योदग्दक्षिणागतौ ।स्यात् सांवत्सरिकाद्येषु सत्राख्यक्रतुकर्मसु ॥ १ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.3.2 · p. 33
एषां प्रयोगभेदे च गतिमात्रे च दृश्यते ।अम्बरं वाससि व्योम्नि सुगन्धिद्रव्यकान्तरे ॥ २ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.26 · p. 235
अयनं पथि चण्डांशोर्दक्षिणोदग्रगतो गतौ ।अञ्जना वानरीभेदे ज्येष्ठीदिग्गजयोः पुमान् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2041 · p. 248
अभिख्या त्विड्यशोनामस्वयनं नरके पथि ।सूर्योदग्दक्षिणे यानेऽप्यलीकं त्वप्रियानृते ॥ २०४१ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 7.3.1 · p. 250
अयनं निलये मार्गे सूर्योदग्दक्षिणागतौ ।अंशुकं केवले वस्त्रे सूक्ष्मवस्त्रोत्तरीययोः ॥ १ ॥
अनुष्टुप्

अयन as a meaning in nānārtha verses