All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)
लिङ्गसंग्रहाध्यायः · स्त्रीलिङ्गप्रकरणम्
इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे अव्ययाध्यायः ।
लिङ्गसंग्रहाध्यायः
नाम्नां पूर्वमिहोक्तानामनुक्तानां च कृत्स्नशः ।सामान्यैर्लक्षणैः कैश्चित् क्रियते लिङ्गसंग्रहः ॥ २३०४ ॥
7.1.2304 · p. 280
अनुष्टुप्
अवाधितेऽपि शेषोक्त्या भवेत्सामान्यलक्षणम् ।आबन्ते ङ्यन्त ऊङन्ते क्विबन्ते संपदादिके ॥ २३०५ ॥
7.1.2305 · p. 280
अनुष्टुप्
क्त्यन्ते तल्लन्त ईदूतोरिदुतोश्चोभयोरिति ।नद्याः स्त्रीनामपर्याया लतासौदामिनीभुवाम् ॥ २३०६ ॥
7.1.2306 · p. 280
अनुष्टुप्
निशादिशाभयानाभिमनीषासरितामपि ।वीणाया झल्लिकायाश्च सातितिस्रादयः स्त्रियाम् ॥ २३०७ ॥
7.1.2307 · p. 280
अनुष्टुप्
तुटितृटिकटित्रोटिकुटिकोटिकरोटयः ।गौल्यालिकुहलीपालीमधूलीधूलिकेलयः ॥ २३०८ ॥
7.1.2308 · p. 281
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 तृ (wrong syllable)
शिवमल्ली झिल्लिचुल्ली वल्ली मल्ली मतल्ल्यपि ।दर्विर्वेदिः खनिः श्रोणिरश्रिरङ्गुलिरोषधिः ॥ २३०९ ॥
7.1.2309 · p. 281
अनुष्टुप्
आर्तिः कृत्तिश्छविश्छर्दिः कीर्तिर्जूर्त्यर्तिपूर्तयः ।भ्रूकुटिभ्रुकुटिप्रावृड्विप्रुड्रुट्तृट्त्विषः स्त्रियाम् ॥ २३१० ॥
7.1.2310 · p. 281
अनुष्टुप्
आगूयवागूवाक्सृ(स्र?)क्त्वक्स्फिग्ज्योग्नौदिगृगुष्णिहः ।संध्या कथा[शीः] कन्था द्वाः पूर्धूर्गी[र्विट्] पिपीलिका ॥ २३११ ॥
7.1.2311 · p. 281
अनुष्टुप्
श्यैनंपाता च मृगया तैलंपाता [स्वधेति दिक्] ।वितण्डा धातकी टीकासन्दी पण्डा च पञ्जिका ॥ २३१२ ॥
7.1.2312 · p. 281
अनुष्टुप्
सुरुङ्गा सूचिका श्रोणी पत्रिका गृहकारिका ।झल्लरी चर्चरी पारी हिक्का [का]कुः कुहेलिका ॥ २३१३ ॥
7.1.2313 · p. 281
अनुष्टुप्
लाक्षा लिक्षार्भटी यूका द्रोणी कम्बिर्द्रुणी भ्रमिः ।त्रिफला रोचना भस्त्रा शम्या प्रच्छर्दिका सिरा ॥ २३१४ ॥
7.1.2314 · p. 281
अनुष्टुप्
स्त्रियामिनित्रकट्यन्ता वृन्दार्थे खलगोरथाः ।क्यबन्ता ब्रह्महत्याद्याः अङन्ताश्च भिदादयः ॥ २३१५ ॥
7.1.2315 · p. 282
अनुष्टुप्
इति स्त्रीलिङ्गप्रकरणम् ॥
पुंलिङ्गप्रकरणम्
घञन्तरात्रान्हाहान्ता गोत्रान्तचरणान्तकाः ।अथुजन्ता अबन्ताः स्युस्तथा चेमनिजन्तकाः ॥ २३१७ ॥
7.1.2317 · p. 282
अनुष्टुप्
पथान्ता अपथं हित्वा राजान्तास्तापसाभिधाः ।पुंसि ब्रह्महरीशाख्या [देवाख्या] देवतां विना ॥ २३१८ ॥
7.1.2318 · p. 282
अनुष्टुप्
अप्पित्तवर्जमग्न्याख्या अभ्रवर्जं घनाभिधाः ।न्यूङ्खपुङ्खानुवाक्या(का?)र्थ र(य?)त्ननाडीव्रणा नरि ॥ २३१९ ॥
7.1.2319 · p. 282
अनुष्टुप्
तर्कसंपर्कगल्वर्कालर्कोदर्कार्कमर्कटाः ।भर्गगर्गस्वर्गवर्गसर्गपुत्स(द्ग)लमुद्गराः ।दारबल्बजलाजायु(सु?)प्राणाः पुंसि च भूम्नि च ॥ २३२० ॥
7.1.2320 · p. 282
अनुष्टुप्