प्रकृति
prakṛtiस्त्री · fem.In 18 kośas: 36 synonym verses, 14 as a nānārtha head word, 14 as a meaning of another word.
स्वाम्यमात्यः सुहृत्कोशो राष्ट्रदुर्गबलानि च ।राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥ ७१४ ॥
अनुष्टुप्
genderस्त्रीfem.
कारुस्तु कारी प्रकृतिः शिल्पी श्रेणिस्तु तद्गणे ॥ ८९९ ॥
अनुष्टुप्
genderस्त्रीfem.
स्वाद्रूपं लक्षणं भावश्चात्मप्रकृतिरीतयः ।सहजो रूपतत्त्वं च धर्मः सर्गो निसर्गवत् ॥ १३७६ ॥शीलं सतत्त्वं संसिद्धिरवस्था तु दशा स्थितिः ।
अनुष्टुप्
genderस्त्रीfem.
क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम् ।
अनुष्टुप्
genderस्त्रीfem.
अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे ॥ ३७ ॥स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः ।कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः ॥ ३८ ॥
अनुष्टुप्
genderस्त्रीfem.
स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च ॥ १७ ॥राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ।
अनुष्टुप्
genderस्त्रीfem.
शिल्पिनः कारवः प्रोक्ताः प्रकृतिश्च मनीषिभिः ।निर्णेजकः स्याद्रजकः कल्पपालस्तु शौण्डिकः ॥ ५९३ ॥
अनुष्टुप्
genderस्त्रीfem.
सा तु प्राविसमत्युद्भ्यः स्युश्छन्दांस्येकविंशतिः ।स्त्रियां पङ्क्तिः सैव विराट् त्रिष्टुप् तृष्टुबुभे समे ॥ ९१ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
श्रेणिः स्त्रियां च प्रकृतिर्द्वे इमे चाथ षड्गुणाः ।सन्धिर्ना विग्रहो यानमासनं द्वैध आश्रयः ॥ ८० ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रियां प्रकृतिः श्रेणिस्तु द्वयोः स्थाने सजातिभिः ।कुलकश्च कुलश्रेष्ठी कुलबीजः कुलोद्भवः ॥ ११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तिः (wrong syllable)
genderस्त्रीfem.
ब्रह्मास्त्रियां कः स एष पुमर्थः प्रकृतिः स्त्रियाम् ।स्वः षण् प्रधानमव्यक्तमक्षरं बहुधातुकम् ॥ ९५ ॥
अनुष्टुप्
genderस्त्रीfem.
ईहामृगोऽङ्क इत्येते भेदा नाटकजा दश ।स्याद्वेददेवयोर्वाणी संस्कृतं प्रकृतिः स्त्रियाम् ॥ ५४ ॥
अनुष्टुप्
genderस्त्रीfem.
ओमव्ययं तथाथ स्यान्मायाऽजा प्रकृतिः प्रसूः ।प्रधानं बीजमव्यक्तमीशोऽसौ मायया वृतः ॥ १६ ॥
अनुष्टुप्
genderस्त्रीfem.
कार्तं कृतिः प्राकृतं तु प्रकृतिः स्यादथाकृतिः ।आकृतं वैकृतं तु स्याद्वि[कृतिः संकृ]तौ पुनः ॥ ९१ ॥
अनुष्टुप्
genderस्त्रीfem.
भावः स्वभावः सहजो धर्मोऽस्त्री स्वो निसर्गकः ।आजानलक्षणानूकरूपतत्त्वानि शीलकम् ।संसिद्धि-प्रकृती रीतिः शीलीयं शीलजे त्रिषु ॥ १९६ ॥
अनुष्टुप्
genderस्त्रीfem.
स्नेहोऽक्षित्वग्विशां मज्जो मलोऽथौजश्च रेतसः ।शुक्रशोणितसंयोगे प्रकृतिर्दोषभूयजा ॥ ६३ ॥
अनुष्टुप्
genderस्त्रीfem.
राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ।तन्त्रं स्वराष्ट्रचिन्ता स्यादावापस्त्वरिचिन्तनम् ॥ ५७ ॥
अनुष्टुप्
genderस्त्रीfem.
[माहिष्याद्रथकारः] स्यात्करण्यां यस्य संभवः ।कारिः कारुश्च कृत्नुश्च शिल्पी च प्रकृतिः स्त्रियाम् ॥ ६ ॥
अनुष्टुप्
genderस्त्रीfem.
स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च ।राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥ १५५ ॥
अनुष्टुप्
genderस्त्रीfem.
स्वभावः प्रकृतिः शीलं निसर्गो विश्वसो निजः ।योग्या गुणनिकाभ्यासः स्यादभीक्ष्णं मुहुर्मुहुः ॥ १८५ ॥
अनुष्टुप्
genderस्त्रीfem.
श्वःश्रेयसं शिवं शस्तं शुभं कल्याणनाम च ।शुभावहो विधिर्ना यः प्रधानं प्रकृतिः स्त्रियाम् ॥ २७२ ॥
अनुष्टुप्
genderस्त्रीfem.
भावो मतमभिप्रायश्छन्द आकूत आशयः ।शीलं स्वभावः सहजो निसर्गः प्रकृती रुचिः ॥ ८४ ॥
अनुष्टुप्
genderस्त्रीfem.
एतानि सप्त नामानि राज्याङ्गविनिरूपणे ।प्रकृतयस्तु प्रख्याताः पौराणां श्रेणयश्च ताः ॥ ११६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 कृ (wrong syllable)
genderस्त्रीfem.
शिल्पी च प्रकृतिः कारी कारुश्चेत्यपि कथ्यते ॥ १५१३ ॥
अनुष्टुप्
genderस्त्रीfem.
स्वरूपं रूपतत्त्वञ्च सतत्त्वं च स्वलक्षणम् ।आत्मारातिश्च संसिद्धिः प्रकृतिः सहजास्तथा ॥ २५०१ ॥
अनुष्टुप्
genderस्त्रीfem.
सरोषवभ्रुदृष्ट्यान्तु स्याददृष्टिरदृष्टिका ।स्त्रियां प्रकृतिसंसिद्धी स्वभावो भाव एव च ॥
अनुष्टुप्
genderस्त्रीfem.
अवाच्यदेशः प्रकृतिरपथं स्मरकूपकः ।अप्रदेशः पद्धतिः स्यात् पुष्पी संसारमार्गकः ॥
अनुष्टुप्
genderस्त्रीfem.
एताः प्रकृतयस्तद्वत् विजिगीषोरुदाहृताः ।एताः पञ्च तथामित्रं सप्तमः पृथिवीपतिः ॥
अनुष्टुप्
genderस्त्रीfem.
पौरश्रेणीश्च राज्याङ्ग प्रकृतिश्च भवेत् द्वयमम् ।पुंसि सन्धिर्विग्रहः स्याद् यानमासनमा श्रेयः ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 7 श्रे (wrong syllable)
genderस्त्रीfem.
मुक्तिनिर्वाणकैवल्यब्रह्मनिःश्रेयसामृतम् ।मोक्षोऽपवर्गः सत्त्वोऽस्त्री प्रधानं प्रकृतिः स्त्रियाम् ॥ २७५ ॥
अनुष्टुप्
genderस्त्रीfem.
ते मौलभृतकश्रेणीसुहृदाटविकद्विषः ।राज्याङ्गानि तु पौराणां श्रेण्यः प्रकृतयस्तथा ॥ १२७१ ॥
अनुष्टुप्
genderस्त्रीfem.
सकारः शक्तिनामा च चन्द्रपिण्डः शशी तथा ।प्रकृतिर्मूर्तिरेवाशुरीश्वरः शक्तिरूपकः ।जगद्बीजं जलाख्यश्च परमात्माऽमृतः स्मृतः ॥ ५७ ॥
अनुष्टुप्
genderस्त्रीfem.
ना सन्धिरधरोऽवाच्यदेशश्च स्मरकूपकः ।संसारमार्गश्च रतिकुहरं प्रकृतिः स्त्रियाम् ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
परमात्मा परो ब्रह्म जीवः क्षेत्रज्ञ आविशः ।शक्तिस्तु माया प्रकृतिर्व्योमाख्यं मूलकारणम् ॥ १६१ ॥
अनुष्टुप्
genderस्त्रीfem.
स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च ।राज्यांगानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥ ३ ॥
अनुष्टुप्
genderस्त्रीfem.
स्वभावः प्रकृती रीतिरवस्था तु दशा स्थितिः ।प्रभावः प्रभवन्ती स्यात् प्रभुता प्रभविष्णुता ॥ २ ॥
अनुष्टुप्
genderस्त्रीfem.
सत्त्वादीनां साम्यावस्थां प्रकृतिं वदन्ति तत्त्वज्ञाः ।पौरामात्यादीनि च कारणकारुस्वरूपाणि ॥ ८६४ ॥
metre not recognised
स्यान्मूलमायापरमात्मशील-स्वाम्यादिपौरव्रजकारणेषु ।पुंस्त्वादिलिङ्गे प्रकृतिस्तथैवस्यात्प्रत्ययस्यापि पुरोगभागे ॥ ३७ ॥
इन्द्रवज्रा
प्रत्ययात् पूर्वभागे चच्छन्दसोश्चोभयोरपि ।अष्टाक्षरेऽप्यत्युक्ताख्ये तथा सलिलसंज्ञके ॥ ४८ ॥
अनुष्टुप्
doubtful
योन्तैन्विङ्गे पौरवर्गे शक्तौ च योषिति स्त्रियाम् ।पार्वती शल्लकी दुर्गा गोपालपुत्रिकासु च ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable); pāda 4, syllable 3 ल (wrong syllable)
doubtful
प्रतीतस्त्रिषु विख्याते प्रीते प्रत्ययिते बुधे ।प्रतिपत्तिथिबुद्ध्योः स्यात् प्रकृतिर्मूलकारणे ॥ २१२९ ॥
अनुष्टुप्
meaningsमूलकारण
स्वभावजन्त्वमात्यादिच्छन्दोभूतेषु मातरि ।पक्षतिः पक्षमूले स्याद् द्वयोः प्रतिपदोरपि ॥ २१३० ॥
अनुष्टुप्
doubtful
छन्दःकारणगुह्येषु जन्त्वमात्यादिमातृषु ।पक्षतिर्गरुतो मूले द्वयोः प्रतिपदोरपि ॥ १३ ॥
अनुष्टुप्
doubtful
प्रकृति as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) प्रधानपत्न्यामपि द्वितीया दर्भेऽपि पवित्रमवधिरवटेऽपि । प्रकृतावपि प्रधानं विवक्षितं शोभनेऽपि स्यात् ॥ ८०२ ॥ Abhidhānaratnamālā (Halāyudha) 5.802
- कोषकल्पतरु संसिद्धिना विटपे शाखायां प्रकृतौ सिद्धौ च संसिद्धिः । वन्दिनि मागध उक्तः सितजीरे क्षत्रियापुत्रे ॥ ७८ ॥ Koṣakalpataru 6.20.78
- नानार्थार्णवसंक्षेप लिङ्गस्यादुपच्छन्दने लालं गुह्यार्थपरभार्ययोः । लिङ्गं बुद्ध्यादिसंहत्यां साङ्ख्यानां प्रकृतावपि ॥ ५४ ॥ Nānārthārṇavasaṃkṣepa 2.3.54
- नानार्थार्णवसंक्षेप सात्मन्लिङ्गानुशासने तस्य चिन्त्योऽर्थः स्याद्विचक्षणैः । सात्मा ना प्रकृतावात्मसहिते तु त्रिषु स्मृतः ॥ १५०५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1505
- नानार्थार्णवसंक्षेप प्रधानप्रलम्बने तु नृस्त्री स्यात् प्रलम्बितरि तु त्रिषु । प्रधानं साङ्ख्यतत्त्वे क्ली प्रकृत्याख्येऽजयः पुनः ॥ १०८९ ॥ Nānārthārṇavasaṃkṣepa 4.1089
- परमानन्दीयनाममाला कारुवृषलोऽन्त्यवर्णशूद्रौ च कारुः प्रकृतिकारिणौ । [85] शिल्पी शिल्पं कला ज्ञानं विपूर्वं लिखनादि तत् ॥ ४१९ ॥ Paramānandīyanāmamālā 4.419
- परमानन्दीयनाममाला प्रधानपरुषं कर्कशे रूक्षे पुद्गलः कायवित्तयोः । प्रधानं प्रकृतौ पूज्ये महामात्रात्मनोरपि ॥ ३०८ ॥ Paramānandīyanāmamālā 5.19.308
- शब्दरत्नावली विन्दुवन्दा तु भिक्षुकी वन्द्यालताभेदेष्वपि स्त्रियाम् । विन्दुर्दन्तक्षतभिदि भ्रूमध्ये प्रकृतावपि ॥ रूपकार्थे ज्ञानशीले पृषति च पुमानयम् । वाच्यलिङ्गो वेदितव्ये भन्दं(?) मङ्गलशर्मणोः ॥ Śabdaratnāvalī 7.18.5
- शब्दरत्नावली संसिद्धिसंसिद्धिः स्त्रीमदोग्रायां सिद्धौ च प्रकृतावपि । समाधिर्नियमे ध्याने तथा काव्यगुणान्तरे ॥ Śabdaratnāvalī 7.19.36
- शब्दरत्नावली प्रधानतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
- शब्दरत्नाकर सत्त्वसालोऽश्वकर्णे प्राकारे तरुमात्रे झषान्तरे । सत्तायां प्रकृतौ प्राणे पिशाचादौ पराक्रमे ॥ २०२० ॥ Śabdaratnākara 4.1.2020
- तन्त्राभिधान रउग्ररेखा स्थूलदण्डो वेदकण्ठक(प)ला पुरा । प्रकृतिः सुगतो ब्रह्मशब्दश्च गायको धनम् ॥ १४६ ॥ Tantrābhidhāna 2.44.146
- तन्त्राभिधान सप्रकृतिरीश्वरः शुद्धः प्रभा श्वेतः कुलोज्ज्वलः । दक्षपादोऽमृतं ब्राह्मी परमात्मा परोऽक्षरः ॥ १६० ॥ Tantrābhidhāna 2.49.160
- तन्त्राभिधान रहकारः शिववाची स्यात् रेफः प्रकृतिरुच्यते । महामायार्थ ई-शब्दो नादो विश्वप्रसूः स्मृतः ॥ Tantrābhidhāna 11.8