कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शृङ्गाटक

śṛṅgāṭakaक्ली · neut.

In 8 kośas: 6 synonym verses, 3 as a nānārtha head word, 6 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह भूमिवर्गः Amarakośa 2.1.24
अपन्थास्त्वपथं तुल्ये शृङ्गाटकचतुष्पथे ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.289 · p. 35
प्रतोली विशिखा रथ्या मुखं निःसरणं स्मृतम् ।शृङ्गाटकः पथां श्लेषः संस्थानं तु चतुष्पथम् ॥ २८९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.60 · p. 118
द्विपथं स्याच्चारपथस्त्रिपथं त्रिकमित्यपि ।शृङ्गाटकं स्यात्संस्थानं चतुष्कं [च] चतुष्पथम् ॥ ६० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्चा (wrong syllable)
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.201 · p. 14
ग्रन्थिमूलं शिखाकन्दं गृञ्जनं यवनप्रियम् ।शृङ्गाटकः शृङ्गकन्दो जलवल्ली विषाणिकः ॥ २०१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.141 · p. 45
केवलेषु च पत्रेषु तथा च शरपत्रिका ।बीजकोषो वारिकुञ्जः शृङ्गाटकवराटकौ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.27 · p. 47
शृङ्गाटकञ्च शृङ्गाटं चतुष्पथमुदाहृतम् ।प्रान्तरं प्रान्तशून्यञ्च दूरशून्यपथि द्वयम् ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास कार्धश्लोकः Dharaṇikośa 1.2.59 · p. 13
शृङ्गाटकः स्याच्छैवालविशेषे [च] चतुष्पथे ।आकालिकं क्षणध्वंसि यस्य चाकालसंभवः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.30 · p. 154
शृङ्गाटकं वारिजकन्दभेदेचतुष्पथे गोक्षुरके पुनः स्यात् ।गोकण्टकः स्यात्स्थपुटे ग[257b]वां चशफेऽथ मोहोत्कलिकातमःसु ॥ ३० ॥
उपजातिःmetre not read in every line
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.201 · p. 188
त्रासात् पलायने स्त्री तु शिलायाञ्च शृगालिका ।स्याद्वारिकण्टके तुर्यपथे शृङ्गाटकं भवेत् ॥
अनुष्टुप्

शृङ्गाटक as a meaning in nānārtha verses

  • कोषकल्पतरु वारिसूचिमलिम्लुचः स्यान्मलिनेऽपि चौरे- ऽथो वारिसूचिः शिशु[267a]मार उक्तः । कङ्के जलौकःसु झषान्तरे च शृङ्गाटके तद्वदुदाहृता स्त्री । Koṣakalpataru 6.5.14
  • कोषकल्पतरु प्रवणआवर्ते प्रणते च दातरि वहौ क्षीणे क्रमान्निम्नक- क्ष्याभागे प्रवणोऽन्यवत्क्षणगतोऽप्यस्त्री तु शृङ्गाटके । बन्द्यां स्वीकरणे करेऽधिगमने राहूपरागे तथा- दृत्यां च ग्रहणं दृशीक्षणमपि ज्ञाने तथा दर्शने ॥ २३ ॥ Koṣakalpataru 6.15.23
  • कोषकल्पतरु टगरहेलाविलासस्य च गोचरे स्यात् क्षारे तथा शृङ्गत( ? )संज्ञके च । स्यात्केकराक्षे परलिङ्गगामी लोष्टादिभेदिन्यपि मुद्गरः स्यात् ॥ २०० ॥ Koṣakalpataru 6.27.200
  • नानार्थार्णवसंक्षेप क्षीरशुक्लक्षीरंशुक्ला विदार्यां स्त्री ना तु शृङ्गाटकाह्वये । कन्दार्थजलजस्तम्बे लिङ्गाद्यत्रापि पूर्ववत् ॥ १७५ ॥ Nānārthārṇavasaṃkṣepa 6.175
  • नानार्थार्णवसंक्षेप त्रिकण्टकशृङ्गाटक इति ख्याते जलजस्थावरान्तरे । गोक्षुरेऽपि स्त्रियां स्नुह्यामत्राप्यर्थादि पूर्ववत् ॥ २५९ ॥ Nānārthārṇavasaṃkṣepa 6.259
  • शिवकोष त्रिकशृङ्गाटके च क्लीबं तु त्रिफलादित्रिकत्रये । वको वुको वङ्गसेने रक्तैरण्डे वसावपि ॥ ११ ॥ Śivakoṣa 1.2.11