कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आरभट

ārabhaṭaपुं · masc.

In 6 kośas: 7 synonym verses.

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.354 · p. 42
शूरो वीरश्च विक्रान्तो भटश्चारभटो भवेत् ।दरितश्चकितो भीतस्त्रस्तो भीरुश्च कातरः ॥ ३५४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.226 · p. 114
सेनान्तः परिधिः पुंसि स्यादारभट इत्यपि ।ये सेनासमवेताः स्युः सैन्यास्ते सैनिका अपि ॥ २२६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.23 · p. 408
आद्यो रौद्रोऽथ द्वितीयोऽहिः सितोऽथाज इत्यपि ।मैत्रोऽथारभटश्चापि पितरः सारटोऽप्यथ ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.5 · p. 263
शूरः सूरश्चारभटो वीरो विक्रान्त इत्यपि ।भडिलौजसिकौ यस्तु याति विद्विषतः प्रति ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.191 · p. 32
शूरो वीरश्च विक्रान्तो भटश्चारभटोऽपि च ।अशूरो हतकः क्लीबो जिष्णौ तु जयजित्वरौ ॥ १९१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.540 · p. 69
स्याद्वै वीरश्च विक्रान्तः शूरश्चारभटस्तथा ॥ ५४० ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.147 · p. 116
शूरो वीरश्च विक्रान्तः पटुश्चारभटोऽपि च ।अशूरो हतकः क्लीबो जिष्णौ तु जयिजित्वरौ ॥ १४७ ॥
अनुष्टुप्
genderविadj.