परिधि
paridhiपुं · masc.In 18 kośas: 18 synonym verses, 10 as a nānārtha head word, 4 as a meaning of another word.
मरीचिका मृगतृष्णा मण्डलं तूपसूर्यकम् ॥ १०१ ॥परिधिः परिवेषश्च सूरसूतस्तु काश्यपिः ।अनूरुर्विनतासूनुररुणो गरुडाग्रजः ॥ १०२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
genderपुंmasc.
परिधिः परिवेषः स्यान्मण्डलं चोपसूर्यकम् ।उच्यते राहुसंस्पर्श उपराग उपप्लवः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
सेनान्तः परिधिः पुंसि स्यादारभट इत्यपि ।ये सेनासमवेताः स्युः सैन्यास्ते सैनिका अपि ॥ २२६ ॥
अनुष्टुप्
genderपुंmasc.
परिधिः परिवेशश्च परिवेषश्च पुंस्ययम् ।परीवेशः परीवेषः परीवेशनमण्डले ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
स्युः पारिपार्श्वका भानोः संज्ञा छाया च तत्स्त्रियौ ।परिवेषस्तु परिधिः परिवेशश्च मण्डलम् ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
अमायुः पृतनाधीशो यन्ताहर्मुखसूचकः ।परिधिः परिवेषः स्यात्स सूर्यावरणोऽपि च ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
खेयं खातं च परिखा वप्रं स्याद्धूलिकुट्टिमम् ।प्राकारः परिधिः सालः प्रतोली गोपुराकृतिः ॥ १३४ ॥
अनुष्टुप्
genderपुंmasc.
अञ्जनं कज्जलं नागं गजपाटलमारुणम् ।सालं परिधि वृक्षं च कुल्यां स्त्रीं सारणीं विदुः ॥ १८१ ॥
अनुष्टुप्
genderपुंmasc.
परिवेषस्तु परिधिरुपसूर्यकमण्डले ।मरीचिका मृगतृष्णा काश्यपिः सूर्यसारथिः ॥ ९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
genderपुंmasc.
चामीकरं तद्धनुः स्यात्तद्धाटी त्वजरामला ।परिवेषस्तु परिधिर्गमनं गारुडं मतम् ॥ ११४ ॥
अनुष्टुप्
genderपुंmasc.
अभ्यन्तरमन्तरालं परिधिः परिवेषकः ।तडित्शतहृदा शम्पा ह्रादिनी चञ्चलाऽल्पभा ॥ ३१४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
genderपुंmasc.
दिलीपः पारवारश्च पारावारः सरित्पतिः ।सव्यापसव्यगमनः परिधिस्तु महास्वनः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
प्रग्रहस्तथा पादः मृगतृष्णा मरीचिका ।मण्डलं परिवेषश्च परिधिस्तूपसूर्यकम् ॥ ८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
परिधिः स्यात् परिवेशः मण्डलमुपसूर्यकम् ।किरणांशुमयुखोस्रघृणिधृष्णिगभस्तयः ॥
metre not recognised
genderपुंmasc.
प्रभा छाया च सप्तैता दयितास्तिग्मदीधितेः ।परिधिः परिवेषः स्यादुपसूर्यकमण्डले ॥ १७१ ॥
अनुष्टुप्
genderपुंmasc.
महावीरः पात्रभेदे होमधेनुररुन्धती ।दर्भैरग्निपरिस्तारः परिधिर्होम आहुतिः ॥ ११८९ ॥
अनुष्टुप्
genderपुंmasc.
गजच्छायाप्यथार्केन्द्वोः परिधिः परिवेषकः ।कुजारमंगलांगारा लोहितांगो धरासुतः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
शाखायामपि परिधिर्वसतिर्जैनाश्रमेऽपि निर्दिष्टा ।अन्वेषणेऽपि मार्गो भद्रो वृषभे वके ध्वाङ्क्षः ॥ ८०७ ॥
आर्या
meaningsशाखा
उपधिं व्याजमिच्छन्ति रथस्यावयवे तथा ।परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ॥
अनुष्टुप्
उपधिर्व्याजे चक्रे परिधिर्नाग्न्यालुपं(?)परितः ।क्षेप्या यज्ञतरूणां शाखा या बाहुमात्री स्यात् ॥ ७५ ॥
metre not recognised
meaningsयज्ञतरुशाखा
उपसूर्यकेऽपि तद्वत्स्यादथ काले बिले सीम्नि ।अवधानेऽप्यवधिर्ना ध्या[9b]ने नियमे च नीवाके ॥ ७६ ॥
metre not recognised
meaningsउपसूर्यक
doubtful
स्याद्वेष्टनेऽथाचमनाप्लवार्थःस्यात्स्पर्शमात्रेऽथ नरे च वैश्ये ।भूमिस्पृगुक्तोऽथ खलेऽन्यवत्स्या-च्छनैश्चरे क्रूरदृगादिलिङ्गः ॥ ३० ॥
उपजातिः
meaningsवेष्टन
doubtful
खड्गधेनुदले फेने परञ्जस्तैलपत्रके ।परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ॥ १५६ ॥
अनुष्टुप्
प्राकारे दृश्यते चापि षट्सु शुक्रियसामसु ।परिधानक्रियायां च परशुस्तु परश्वथे ॥ १५७ ॥
अनुष्टुप्
परिधिः पुंसि यक्षद्रुशाखायामुपसूर्यके ।मागधः क्षत्रिया वैश्यजाते जीरकवन्दिनोः ॥
अनुष्टुप्
परिधिर्यज्ञिये काष्ठे प्राकारे परिवेषणे ।परिघाते मूढगर्भे परिघोऽर्गलदण्डयोः ॥ ४१ ॥
अनुष्टुप्
परिधि as a meaning in nānārtha verses
- कोषकल्पतरु प्रतिष्कशस्यात्पिष्टवर्त्याह्वयभक्ष्यभेदे स्यात्सोमवल्लीरसहोमशेषे । प्रतिष्कशः पुंसि सहायवार्ता- हराग्रगार्थे परिधौ तु पुंसि ॥ २९ ॥ Koṣakalpataru 6.30.29
- शब्दरत्नावली मण्डलमङ्गलो भूमिपुत्रे स्यात्कल्याणे तु नपुंसकम् । मण्डलं परिधौ कोठे देशे द्वादशराजके ॥ Śabdaratnāvalī 7.28.82
- शब्दरत्नावली परिवेषपरिवेषस्तु परिधौ स्वकरे परिवेषणे । पलङ्कषा तु मुण्डीर्यां लाक्षागुग्गुलगोक्षुरे ॥ Śabdaratnāvalī 7.31.33
- त्रिकाण्डशेष मण्डूलमौलिः कङ्केलिवृक्षेऽपि मल्लः पात्रे कपालिनि । बलीयसि च मत्स्ये च मण्डूलं परिधौ गणे ॥ ४०६ ॥ Trikāṇḍaśeṣa 3.3.406