कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सैन्य

sainyaक्ली · neut.

In 21 kośas: 29 synonym verses, 3 as a nānārtha head word, 33 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.529 · p. 31
वाहिनी पृतना सेना बलं सैन्यमनीकिनी ॥ ७४५ ॥कटकं ध्वजिनी तन्त्रं दण्डोऽनीकं पताकिनी ।वरूथिना चमूश्चक्रं स्कन्धवारोऽस्य तु स्थितिः ॥ ७४६ ॥शिबिरं रचना तु स्याद्व्यूहो दण्डादिको युधि ।
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.763 · p. 31
सेनायां ये समवेतास्ते सैन्याः सैनिका अपि ॥ ७६३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.61
सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.78
ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः ।वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् ॥ ७८ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.457 · p. 53
पृतना सेना ध्वजिनी पताकिनी वाहिनी बलं सैन्यम् ।चक्रं चमूर्वरूथिन्यनीकिनी स्यादनीकं च ॥ ४५७ ॥
आर्या
genderक्लीneut.
पिण्डी स्यात् पिण्डिका तुल्यौ वैनीतकविनीतकौ ।स्यात् कङ्कटकङ्कटकः समानौ सैन्यसैनिकौ ॥ २०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ट (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.226 · p. 114
सेनान्तः परिधिः पुंसि स्यादारभट इत्यपि ।ये सेनासमवेताः स्युः सैन्यास्ते सैनिका अपि ॥ २२६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.248 · p. 116
अथ सेना तु पृतना वाहिनी वाहना चमूः ।वरूथिनी च ध्वजिनी बलं सैन्यं च गुल्मिनी ॥ २४८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.87 · p. 261
सेनारक्षाः सैनिकास्ते सेनायां मिलिता अमी ।सैन्याश्च सैनिका ये तु राजानं योधयन्त्यमी ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.9 · p. 263
तन्त्रं सैन्यं च कटकं चक्रं चाविकमस्त्रियाम् ।स्कन्धावारोऽपि दण्डोऽथ व्यूहो विन्यसनं पृतः ॥ ९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
एते शब्दाः पुंसि भवन्ति । अयं स्थूलो राशिः । अलक्तकः पादादिरागद्रव्यम् । कर्पासः सूत्रद्रव्यम् । सूर्यो रविः । कूर्पासः कञ्चुकम् । सारथिः सूतः । तरङ्गः कल्लोलः । अलकः केशरचना । समुडाः संपुटकः । वराटः कपर्दकम् ।सैन्यायुधमङ्गलनगरवृन्त[त्त]फलमूलहरितालबिम्बमुकुटकुड्मलतस्तृतीयाप्रकृतिः ।पुंस्यवसथस्तथोद्गीथः संवीथः कालगीथश्च ॥ ७१ ॥
metre not recognised
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.162 · p. 28
सैन्यं चक्रं बलं सेना पृतना ध्वजिनी चमूः ।अनीकिनीपताकिन्यौ वाहिनी च वरूथिनी ॥ १६२ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 86 · p. 43
अक्षौहिणी बलानीकं वाहिनी साधनं चमूः ।ध्वजिनी पृतना सेना सैन्यं दण्डो वरूथिनी ॥ ८६ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.365 · p. 147
ध्वजिनी वाहिनी तन्त्रं चमूर्दण्डो वरूथिनी ।अनीकं चक्रसैन्ये च कटकं पृतना पुनः ॥ ३६५ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.322 · p. 66
सैनिके सैनिकः सैन्या सैनी सेनीति च स्मृतः ।बलिनो ये सहस्रेण सहस्राश्च सहस्रिणः ॥ ३२२ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.345 · p. 69
अनीकिनी बलं सन्यमनीकं च वरूथिनी ।अनेकवस्तुरूपेण विन्यस्ते व्यूह इष्यते ॥ ३४५ ॥
अनुष्टुप्
genderक्लीneut.doubtful
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.219 · p. 15
सैन्यं वरूथिनी चक्रं ध्वजिनी चतुरङ्गिणी ।पताकिका ध्वजः केतुर्नासीरः पृतना मुखम् ॥ २१९ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.17 · p. 36
पत्तिः पदातिः पदगः पुरोगामी पदातिकः ।भटा योधाश्च योद्धारः सैन्याश्च सैनिका अपि ॥ १७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.21 · p. 36
परिपन्थी प्रत्यनीको दस्युदुर्हृदरातयः ।अनीकं कटकं सैन्यं चक्रं दण्डो बलं चमूः ॥ २१ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1216 · p. 190
अनीकं कटकं तन्त्रं सेना सैन्यमनीकिनी ॥ १२१६ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1245 · p. 195
प्राहरिकाश्च नामानि प्रहरिणां भवन्ति च ।सेनासु नियुक्तजनाः सैन्याः स्युः सैनिकास्तथा ॥ १२४५ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.284 · p. 130
योद्धा भटश्च योधः स्यात् सेनारक्षस्तु सैनिकः ।अथ सेनासमवेतास्ते तु सैन्याश्च सैनिकाः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.310 · p. 131
वाहना गुल्मिनी सैव वरचक्षुर्वरूथिनी ।अनीकमस्त्रियां सैन्यं बलं चक्रं चतुष्टयम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.256 · p. 209
राजदेयेऽनीकिन्यां तु सेना सैन्यं चमूश्चमुः ।सैन्यपृष्ठे प्रति-परेर्ग्रहः, केतौ तु केतनम् ॥ २५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नी (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.267 · p. 210
तथा भण्डीर-भाण्डीरौ वनेऽपि कथितावमू ।सेनासमवेते सैन्यः सैनिकोऽपि च योद्धृषु ॥ २६७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वे (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1356 · p. 165
वरूथिनीतपाकिन्यावनीकं पुंनपुंसकम् ।चक्रं सैन्यं बलं सैन्यमुखे गुल्मगुणौ समौ ॥ १३५६ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1359 · p. 165
सेनानीर्दण्डनाथश्च सेनारक्षास्तु सैनिकाः ।समवेतास्तु सेनायां सैन्याः स्युः सैनिका अपि ॥ १३५९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.55 · p. 108
सैन्यं चक्रं बलं सेना चमूर्वाहिन्यनीकिनी ।पताकिनी च पृतना ध्वजिनी च वरूथिनी ॥ ५५ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.140 · p. 115
पातिकः पादिकः पद्गो रथिको रथिनो रथी ।सेनास्थाः सैनिकाः सैन्याः सेनारक्षास्तु सैनिकाः ॥ १४० ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1559 · p. 175
सेक्ता पुंसि धवे त्रिस्तु सेचके सैन्यवाक् तु नप् ।सेनाया समवेते तु सेनायां त्रिः पुमान् पुनः ॥ १५५९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1560 · p. 176
चतुर्वश्वेनु कृष्णस्य क्वचिदश्वे नृभूम्नि तु ।सैराः स्युर्मध्यदेशस्थनीवृद्भेदेऽथ रा त्रिषु ॥ १५६० ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.37 · p. 260
गणदेवविशेषे ना साधनीयेऽभिधेयवत् ।सूर्या सूर्यप्रियौषध्योः सूर्येऽर्कपर्णसूरयोः ॥स्थेयः पुरोहिते वादपक्षनिर्णेतरि स्मृतः ।सेव्यं त्रिषु च सेवार्हे क्लीबं वीरणमूलके ॥सैन्यं क्लीबं बले सेनासमवेतेऽभिधेयवत् ।सौम्यो ना ज्ञे तिष्वनुग्रे सोमदेवमनोज्ञयोः ॥हार्यस्त्रिषु च हर्त्तव्ये पुमान् विभीतके द्रुमे ।हृदयं हृदि हिते हृज्जे हृत्प्रिये त्रिषु च द्वयोः ॥भरणे स्त्री वृद्धिनामौषधे मन्त्रान्तरे पुमान् ।
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र्क (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)

सैन्य as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् बलस्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः । Amarakośa 3.3.367
  • हलायुधकोशः (अभिधानरत्नमाला) दण्डसङ्केते चैतन्ये च सूरिभिः कथ्यते तथा संज्ञा । दण्डो दमने सैन्ये कुतपो दर्भेऽपराह्णे च ॥ ८२२ ॥ Abhidhānaratnamālā (Halāyudha) 5.822
  • धरणिकोश अनीकआनकः पटहे भेर्यां सायकः शरखड्गयोः । अनूकं च कुले शीले अनीकं मृधसैन्ययोः ॥ Dharaṇikośa 1.1.6
  • धरणिकोश दण्डदण्डो दमे मानभेदे चण्डाशोः पारिपार्श्वके । दण्डो लगुडमन्थानयमसैन्येषु वाजिनि ॥ Dharaṇikośa 12.2.5
  • धरणिकोश साधनसाधनं मृतसंस्कारे सैन्ये मेढ्रे वघे धने । निवृत्ते दापने सिद्धावुपायेऽनुगमे गतौ ॥ Dharaṇikośa 19.3.20
  • धरणिकोश चक्रचक्रस्तु चक्रवाके स्याच्चक्रं सैन्यरथाङ्गयोः । राष्ट्रे दम्भप्रभेदे च चक्रं प्रहरणान्तरम् ॥ Dharaṇikośa 26.3.8
  • धरणिकोश बलबलं शक्तिश्च सैन्यं च रूपे स्थौल्ये बलोऽसुरे । काके हलिनि शक्ते च बला वाट्यालके स्मृता ॥ Dharaṇikośa 27.3.2
  • कोषकल्पतरु संधानसंधानमाहुर्गमने वधे च निवृत्तिनाशे मृतसंस्कृतौ च । सैन्येऽप्युपायेऽपगमे च मेढ्रे संभारसिद्ध्योर्द्रविणोपपत्तौ ॥ ६९ ॥ Koṣakalpataru 6.21.69
  • कोषकल्पतरु पृतनाईर्ष्यायां कुहना च दम्भचरणेऽथो पूतना राक्षसी- भेदे किं च हरीतकीभिदि विदि त्वाहुः स्त्रियां चेतनाम् । वाच्ये[20a]प्राणिनि सा मताथ पृतना स्यात्सैन्यमात्रे चमू- भेदे चाथ वराङ्गनासु ललना जिह्वाशिराभेदयोः । स्त्रियां प्रसन्ना मदिरासु वाच्ये प्रसादयुक्तेऽथ फणिज्जमल्ल्योः । कम्पिल्लके च प्रमदासलिङ्गं श्लेष्मघ्नमुक्तं कफहृत्सुभेद्ये ॥ १ ॥ Koṣakalpataru 6.21.1
  • कोषकल्पतरु तन्त्रइतिक्रियायां परिवारशास्त्रे प्रधानसिद्धान्त * भेषजेषु । स्याद्वेदशाखाभिदि तन्तुवाये स्यात्साध[47b]कोपायवशित्वसैन्ये ॥ ३७ ॥ Koṣakalpataru 6.27.37
  • कोषकल्पतरु चक्रचक्रस्तु कोके निकरे तु न स्त्री रथाङ्गसैन्येष्वपि राष्ट्रके च । स्याद्ग्रामजालेऽपि कुलालभाण्डे दम्भान्तरेऽस्त्रे सलिलभ्रमे च ॥ ३९ ॥ Koṣakalpataru 6.27.39
  • कोषकल्पतरु बलस्थौल्ये तु गन्धोपलसैन्ययोश्च रूपे च षण्ढे[65a]सहसि स्त्रियां न । वाट्यालके स्त्री पलमस्त्रियां स्या- दुन्मानमांसेऽपि च सूक्ष्मकाले ॥ ४७ ॥ Koṣakalpataru 6.28.47
  • नानार्थार्णवसंक्षेप चक्रहिमोत्सर्गाय कथितास्तेषु चक्रं तु नप्यदः । पुंस्यप्येके रथाङ्गे च संसारे सैन्यराष्ट्रयोः ॥ ३९७ ॥ Nānārthārṇavasaṃkṣepa 2.5.397
  • नानार्थार्णवसंक्षेप कटकसैन्ये च राजधान्यां चामरदत्तस्तु पुंस्यमुम् । हस्तमुष्टावभाषिष्ट स्त्रियां तु कटिका कृते ॥ ३१८ ॥ Nānārthārṇavasaṃkṣepa 4.318
  • परमानन्दीयनाममाला उत्थानऊर्जो बले च मासस्य विशेषे त्र्यक्षरा यथा । उत्थानं पौरुषे सैन्य उद्गमोद्यमयोरपि ॥ ६४ ॥ Paramānandīyanāmamālā 5.3.64
  • परमानन्दीयनाममाला कूलकोष्ठं कुशूलके कुक्षौ कूलं सैन्ये तटेऽपि च । केतुर्दीप्तौ पताकायां कलङ्के च ग्रहान्तरे ॥ १०७ ॥ Paramānandīyanāmamālā 5.7.107
  • परमानन्दीयनाममाला कटककटकं कङ्कणे सैन्ये राजधानीनितम्बयोः । कुलिकस्तु तरौ नागे कुलश्रेष्ठेऽपि कथ्यते ॥ १२५ ॥ Paramānandīyanāmamālā 5.7.125
  • परमानन्दीयनाममाला दण्डदण्डो माने प्रकाण्डे चोपायभेदेऽर्कसेवके । सैन्ये दर्पेऽथ दण्डी स्याद् द्वाःस्थे भूपे यमेऽपि च ॥ २३८ ॥ Paramānandīyanāmamālā 5.16.238
  • शब्दरत्नावली सर्वौघमहार्घो लावके पुंसि महामूल्येऽपि च त्रिषु । सर्वौघो गुरुवेगे स्यात् सैन्यमल्लहनेऽपि च ॥ Śabdaratnāvalī 7.4.9
  • शब्दरत्नावली दण्डदण्डोऽस्त्री लगुडे पुंसि व्यूहभेदे प्रकाण्डके । अग्निकोणे च मन्थाने नाडीमानाभिमानयोः । सैन्ये दमे यमे कालमानभेदे व्रणान्तरे ॥ Śabdaratnāvalī 7.13.16
  • शब्दरत्नावली साधनसावनः क्रतुकर्मान्ते यजमाने प्रचेतसि । साधनं दापने सैन्ये शिश्ने च गमने धने ॥ तथा निर्वर्त्तनोपायमृतसंस्कारयोरपि । समे वेदान्तरोपायभेदयोरपि न द्वयोः(?) ॥ Śabdaratnāvalī 7.20.96
  • शब्दरत्नावली चक्रत्रिलिङ्गं दुर्जरेत्यर्थे महत्यलघुनीत्यपि । गोत्रं कुलास्ययोर्गोत्रः शैले कुगव्ययोः स्त्रियाम् ॥ सम्भावनीयबोधे च विपिनच्छत्रवर्त्मसु । गौरं श्वेतेऽरुणे पीते विशुद्धेऽप्यभिधेयवत् ॥ क्लीबं पद्मकेशरे स्याच्चन्द्रसर्षपयोः पुमान् । गौरीभवानीवसुधाप्रियङ्गुरोचनासु च ॥ असञ्जातरजः कन्या वरुणाणी नदीषु च । घोरो भीमे महेशे च घस्त्रो दिवसहिंस्रयोः ॥ चरश्चारे द्यूतभेदे भौमे च जङ्गमे गमे । चन्द्रः सुधांशुकाम्पिल्लकर्पूरे काञ्चने जले ॥ चक्रमस्त्रे व्रजे सैन्ये रथाङ्गे राष्ट्रदम्भयोः ॥ Śabdaratnāvalī 7.27.10
  • शब्दरत्नावली बलबलं सैन्ये गन्धरसे सामर्थ्यस्थौल्यरूपयोः । बला वाहालके ना तु वायसे दैत्यसामयोः ॥ Śabdaratnāvalī 7.28.27
  • शब्दरत्नाकर चक्रचक्रं राष्ट्रजलावर्तसैन्यच्छद्मसु संहतौ । रथाङ्गे मण्डले वृत्ते संसारायुधभेदयोः ॥ १९२० ॥ Śabdaratnākara 4.1.1920
  • शब्दरत्नाकर दण्डदण्डः सैन्ये दमे यष्ट्यां मेढ्रे पार्श्वचरे रवेः । वने वनानले दावदवौ दन्तस्तु भूभृताम् ॥ १९३५ ॥ Śabdaratnākara 4.1.1935
  • शब्दरत्नाकर बलसहायस्थौल्यसैन्येषु शक्तौ क्लीबे बलौलौषधे । जन्मसंसारसात्तासु भद्रे भूतपतौ भवः ॥ १९६७ ॥ Śabdaratnākara 4.1.1967
  • शब्दरत्नाकर वाहिनीपर्याहाराध्वभारेषु स्यातां विवधवीवधौ । वडवाश्वा ब्राह्मणी च वाहिनी सिन्धुसैन्ययोः ॥ २१६४ ॥ Śabdaratnākara 4.1.2164
  • त्रिकाण्डशेष अनीकअन्तिकं निकटे चुल्ल्यां नाटयोक्तौ चाग्रजन्तिका । अनीकोऽत्री रणे सैन्ये गौर्यां मातरि चाम्बिका ॥ ३ ॥ Trikāṇḍaśeṣa 3.3.3
  • त्रिकाण्डशेष दण्डचण्डौषधिः खरश्चण्डो दण्डौ सैन्यार्कपार्श्वगौ । व्यथा कृपा च पीडे द्वे पाण्डुः कुन्तीपतौ सिते ॥ ११३ ॥ Trikāṇḍaśeṣa 3.3.113
  • त्रिकाण्डशेष चक्रचक्रः कोके व्रजे पुंसि क्लीबे सैन्यरथाङ्गयोः । ग्रामजाले कुम्भकारभाण्डे राष्ट्रे च दृश्यते ॥ ३५१ ॥ Trikāṇḍaśeṣa 3.3.351
  • त्रिकाण्डशेष व्यूहदेहनिर्माणसैन्येषु व्यूहः स्यादथ विग्रहः । सङ्ग्रामे प्रविभागे च देहावतारयोरपि ॥ ४६१ ॥ Trikāṇḍaśeṣa 3.3.461
  • वैजयन्ती चक्रचक्रं सैन्ये जलावर्ते रथांगे चयराष्ट्रयोः । संसारे मण्डले वृत्ते छद्मभेदास्त्रभेदयोः ॥ ७ ॥ Vaijayantī 6.3.7
  • वैजयन्ती कटककलिलं गहने बृन्दे सैन्येऽपि कटकोऽस्त्रियाम् । किञ्जल्कः केसरे खे क्ली कृषकौ फालकर्षकौ ॥ ३१ ॥ Vaijayantī 7.5.31