कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कु

kuस्त्री · fem.

In 16 kośas: 18 synonym verses, 8 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1 · p. 37
भूर्भूमिः पृथिवी पृथ्वी वसुधोर्वी वसुंधरा ।धात्री धरित्री धरणी विश्वा विश्वंभरा धरा ॥ ९३५ ॥क्षितिः क्षोणी क्षमानन्ता ज्या कुर्वसुमती मही ।गौर्गोत्रा भूतधात्री क्ष्मा गन्धमाताचलावनिः ॥ ९३६ ॥सर्वंसहा रत्नगर्भा जगती मेदिनी रसा ।काश्यपी पर्वताधारा स्थिरेला रत्नबीजसूः ॥ ९३७ ॥विपुला सागराच्चाग्रे स्युर्नेमीमेखलाम्बराः ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह भूमिवर्गः Amarakośa 2.1.1
भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा ।धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः ॥ २ ॥सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा ।गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही ॥ ३ ॥विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा ।भूतधात्री रत्नगर्भा जगती सागराम्बरा ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.156 · p. 20
भूर्भूमिर्वसुधावनिर्वसुमती धात्री धरित्री धरा,गौर्गोत्रा जगती रसा क्षितिरिला क्षोणी क्षमा क्ष्माचला ।कुः पृथ्वी पृथिवी स्थिरा च धरणी विश्वम्भरा मेदिनी,ज्यानन्ता विपुला समुद्रवसना सर्वंसहोर्वी मही ॥ १५६ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.17 · p. 1
एकेंदु रजनीनाथ कुभु चन्द्रं च मेदिनी ।धरारूप निशानाथ रजनीश निशाकर ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव अङ्कुरोद्गमः Kalpadrukośa 1.1.15 · p. 2
धारणी काश्यपीरा कुर्मेदिनी वसुधा पुनः ।रत्नपर्यायगर्भार्थाऽचलानन्तापि च क्षितिः ॥ १५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.3 · p. 113
भूः पृथ्वी पृथिवी रसा च पृथवी धात्री धरित्री धराभूमिर्भूर्णिरिला भुरिग्वसुमती क्षोणी क्षितिः क्ष्मा क्षमा ।गौर्गोत्रा जगती स्थिरा कुरवनिर्विश्वाथ विश्वंभरा-ऽनन्ता ज्या च वसुंधरा च वसुधा सर्वंसहा मेदिनी ॥ ३ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.17 · p. 121
आनुकूल्ये प्राध्वमथ प्रसह्यार्यहलं हठे ।निःषमं दुःषमं दुष्ठु दुर्दुरोऽपष्ठु निन्दिते ।क्व धिगादह हुं कु अवकीक्र(?)च कुत्सन[238a]वाचिनः ।रुषोक्तौ कुं मुं च रोषे त्वा आं स्यात्तुंकृतौ तु तुम् ।चटु चाटु प्रिये ********** ।तु-पुनर्वैवमेवाद्धा षण्निर्द्धारणवाचकाः ।शङ्के मन्ये तु कं हुं स्वित्किं किमूतापि च ध्रुवम् ।आहो उताहो आहोस्वित्किमुतोत तथा किमु ॥ १७ ॥
अनुष्टुप्metre not read in every line
genderअindecl.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 6 · p. 3
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.226 · p. 32
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.3 · p. 1
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.107 · p. 12
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1586 · p. 255
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.4 · p. 46
भूतधात्री वसुमती क्षमा कुः सागराम्बरा ।उर्वी भूखनी ज्या च काश्यपी वसुधा सहा ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 उ (syllables merged)
genderस्त्रीfem.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.56 · p. 40
प्राणस्तेजः स्थिरा वार्द्युर्वायुश्चापि प्रभा च ज्या ।कमभ्रं नाद-दावौ च कुः पाथो व्योम तो रयः ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 च (wrong syllable)
genderस्त्रीfem.
तन्त्राभिधान Tantrābhidhāna · अज्ञात क्ष Tantrābhidhāna 8.52.58 · p. 60
धरा क्ष्मा भूः स्थिरा ज्या कुर्गोत्रा भूमी रसा इला ।दशानां भूमिवर्णानां संज्ञा प्रोक्ता विचक्षणैः ॥ ५८ ॥
अनुष्टुप्
genderस्त्रीfem.
तन्त्राभिधान Tantrābhidhāna · अज्ञात भूमिवर्णाः Tantrābhidhāna 9.3.1 · p. 60
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव भूमिवर्गः Trikāṇḍaśeṣa 2.1.1 · p. 30
भूर्भूतधात्री गिरिकर्णिकाब्धिद्वीपा समुद्राम्बरमेखला कुः ।क्षमाऽद्रिकीला च जगद्वहा च पुंसि स्मृतौ मध्यमलोकमर्त्यौ ॥ १ ॥
उपजातिः
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.1 · p. 35
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.241
पापकुत्सेषदर्थे कु धिङ्निर्भर्त्सननिन्दयोः ॥ २४१ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.79 · p. 128
लृ मङ्गलेऽथो ए ऐस्तः स्मृत्यामन्त्रण-हूतिषु ।संबुद्ध्याह्वानयोरो औ कुस्तु वारणकुत्सयोः ॥ ७९ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.80 · p. 128
ईषदर्थे दुष्कृते च मनाङ्मन्देषदर्थयोः ।धिग्भर्त्सने च निन्दायामृधक् शीघ्र-समीपयोः ॥ ८० ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.2 · p. 135
भूमौ स्त्रियां कुस्त्रिषु कुत्सिते स्यात्
उपजातिः
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास प्रथमः परिच्छेदः Paramānandīyanāmamālā 1.10 · p. 2
ब्रह्मवायुसुहृत्केकिवह्न्युद्योतमात्मसु ।कुः पापीयसि मह्यां च निवारणकुशब्दयोः ॥ १० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अव्ययैकाक्षराध्यायः Śabdaratnākara 5.1.2252 · p. 273
प्रश्ने क्षेपे विकल्पे किं कुः पापेऽल्पार्थकुत्सयोः ।चान्वाचये समाहारे मिथोयोगे समुच्चये ॥ २२५२ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात एकाक्षरकोषः Tantrābhidhāna 3.7 · p. 23
-----------------------------------पृथिव्यां कुः समाख्याता कुत्सायां कुः प्रकीर्त्तितः ।ख-मिन्द्रियं समाख्यातं खमाकाशमुदाहृतम् ॥ ७ ॥
अनुष्टुप्metre not read in every line
वैजयन्ती Vaijayantī · यादवप्रकाश अनेकार्थाव्ययाध्यायः Vaijayantī 8.7.3 · p. 284
ओं स्याद्ब्रह्मण्यनुज्ञायां के सुखेंऽभसि मूर्ध्नि च ।प्रश्ने क्षेपे विकल्पे किं कु पापेऽल्पार्थकुत्सयोः ॥ ३ ॥
अनुष्टुप्

कु as a meaning in nānārtha verses

  • शब्दरत्नावली गोत्रात्रिलिङ्गं दुर्जरेत्यर्थे महत्यलघुनीत्यपि । गोत्रं कुलास्ययोर्गोत्रः शैले कुगव्ययोः स्त्रियाम् ॥ सम्भावनीयबोधे च विपिनच्छत्रवर्त्मसु । गौरं श्वेतेऽरुणे पीते विशुद्धेऽप्यभिधेयवत् ॥ क्लीबं पद्मकेशरे स्याच्चन्द्रसर्षपयोः पुमान् । गौरीभवानीवसुधाप्रियङ्गुरोचनासु च ॥ असञ्जातरजः कन्या वरुणाणी नदीषु च । घोरो भीमे महेशे च घस्त्रो दिवसहिंस्रयोः ॥ चरश्चारे द्यूतभेदे भौमे च जङ्गमे गमे । चन्द्रः सुधांशुकाम्पिल्लकर्पूरे काञ्चने जले ॥ चक्रमस्त्रे व्रजे सैन्ये रथाङ्गे राष्ट्रदम्भयोः ॥ Śabdaratnāvalī 7.27.10