कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कण्ठ

kaṇṭhaपुं · masc.

In 22 kośas: 24 synonym verses, 9 as a nānārtha head word, 7 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.319 · p. 26
गलो निगरणः कण्ठः काकलकस्तु तन्मणिः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.154
कण्ठो गलोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.516 · p. 59
अङ्गुल्यः करशाखाः कर्णः श्रोत्रं श्रुतिः श्रवः श्रवणम् ।ग्रीवा धमनिर्मन्या शिरोधरा कन्धरा गलः कण्ठः ॥ ५१६ ॥
गीतिः
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.166 · p. 38
अस्त्री निगरणः कण्ठो गलः स्यादथ तन्मणिः ।अस्त्रियां काकलं चाथ क्लीबे भुजशिरः पुमान् ॥ १६६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.200 · p. 219
न्यग्रोधकश्च व्यायामस्त्रिषु मानार्थका अमी ।कण्ठो गलो निगरणः क्रोडाग्रो धमनी धरः ।नालोऽथ तदधोवर्ती मणिः काकलको मतः ॥ २०० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.5 · p. 94
इन्द्रियार्थ-रथ-वायु-रदानांकण्ठ-देश-रस-गण्ड-नदानाम् ।ओष्ठ-कोष्ठमिति-धान्य-कचानांपाणि-पाणिज-कुठार-कुचानाम् ॥ ५ ॥
स्वागता
genderपुंmasc.
कण्ठस्तनबाहूनां सञ्ज्ञा पुंसि स्त्रियां भवेद्ग्रीवा ।पृष्ठललाटांशोदरजत्रूणि नपुंसकानि स्युः ॥ १५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कण्ठसञ्ज्ञाः स्तनसञ्ज्ञाः बाहुसञ्ज्ञाश्च पुंसि भवन्ति । अयं कण्ठः । गल इत्यादिः । स्तनसञ्ज्ञाश्च । अयं स्तनः कुचः पयोधर इत्यादिः । बाहुसञ्ज्ञाश्च भुजस्तरणः धरणः चालन इत्यादिः । कण्ठसञ्ज्ञत्वाद्ग्रीवाशब्दस्यापि पुंसि प्रयोगः प्राप्नोतीत्याह । स्त्रियां भवेद्ग्रीवा । ग्रीवाशब्दस्य स्त्रीलिङ्गता भवति । इयं ग्रीवा शिरोधरा कन्धरा इत्येवमादयः । पृष्ठादयः शब्दा नपुंसके स्युः । तद्यथा । इदं पृष्ठं पार्श्वयोर्यष्टिः । इदं ललाटं भ्रुवोरुपरिस्थानम् । इदमंसः[श] स्तनयोरुपरिस्थानम् । इदमुदरं जठरः । इदं जत्रु स्कन्धसम्बन्धि । इत्येवमादयः ।ऊर्म्मिध्वन्यञ्जलयः पुंस्योष्ठकपोलगुल्फसञ्ज्ञाश्च ।घञ्चैरच्च ऋदोरप्च स्याद्बहुलमन्धकारश्च ॥ १६ ॥
metre not recognised
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.92 · p. 19
षण्डस्तु गोपतिः श्रीमान् स कर्मचर ईश्वरः ।कण्ठः कण्ठविहीनः स्यात्षण्डस्तु छिन्नपुच्छकः ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 100 · p. 50
दन्तवासोऽधरोऽप्योष्ठे वर्णितो दशनच्छदः ।शिरोधरो गलो ग्रीवा कण्ठश्च धमनी धमः ॥ १०० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.7 · p. 211
हैमाशनी कुठारोऽपि दिनसर्तुविषाकवः ।निर्यासकण्ठकोष्ठाब्दा एते नरि सनामकाः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.67 · p. 10
स्वरुः शम्भो भिदुर्वज्रं दम्भोलिर्भिदुरं पविः ।पवी झरी गिरी(रि?) कण्ठो(ण्टो?) व्याधावः शबलोऽक्षजः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.87 · p. 7
शिरोधरा गलो ग्रीवा कण्ठो घाटा कृकाटिका ।अंसः स्कन्धो बाहुशीर्शं कक्षास्पृक् बाहुमूलकम् ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.34 · p. 23
जिह्वा रसज्ञा रसना कण्ठो निगरणो गलः ।अंशः स्कन्धो भुजशिरो बाहुर्बाहा च दोर्भुजः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.675 · p. 144
गलो निगरणश्चैव कण्ठः कण्ठस्य कथ्यते ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.305 · p. 102
कण्ठो गले शिरोधिः स्त्री ग्रीवा स्यात् कन्धरेत्यपि ।त्रिरेखासहिता ग्रीवा कम्बुग्रीवा च कम्बुका ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.166 · p. 202
गले कण्ठः कण्ठी कण्ठं शब्द-समीपयोरपि ।अंसे तु स्कन्धः स्कधश्च सान्तं क्लीबमुरोंसयोः ॥ १६६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ण्ठः (syllables merged); pāda 2, syllable 3 ब्द-स (syllable split)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1079 · p. 134
कम्बुग्रीवावटुर्घाटा कृकः पुंसि कृकाटिका ।कण्ठो गलो मुखं वक्त्रं लपनं वदनानने ॥ १०७९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 151 · p. 539
ग्रीवामूले तु कण्ठोऽस्त्री ॥ १५१ ॥
genderपुंक्लीm. n.
तन्त्राभिधान Tantrābhidhāna · अज्ञात अ Tantrābhidhāna 2.2.8 · p. 5
विश्वेशः श्रीविष्णुकण्ठौ प्रतिपत्तिः स्थिरं शिनी ।अर्कमण्डलवर्णाद्यौ ब्राह्मणः कामकर्षिणी ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.3 · p. 35
श्रीकण्ठः केशवः कण्ठो निवृत्तिश्च स्वरादिकः ।अ-कारो मातृकाद्यश्च वात इत्यपि कीर्त्तितः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
… अनुश्चाध ओष्ठः (?) शान्तिको वामजङ्घकः ।तैजसश्चैव कण्ठोष्ठौ नादाक्षश्च सदाशिवः ॥ २३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
स्वराद्यो मातृकाद्यश्च वातः कण्ठोऽमृतेश्वरः ।विश्वेश्वरो निवृत्तिश्च श्रीकण्ठः केशवो लघुः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.83 · p. 179
त्रिषु तु परे चत्वारः पौरुषमुद्बाहुपुंमाने ।गलो निगरणः कण्ठो गरो ग्रीवा तु कन्धरा ॥ ८३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास ठार्धश्लोकः Dharaṇikośa 11.2.3 · p. 41
ज्येष्ठो वृद्धेऽग्रजे श्रेष्ठे ज्येष्ठा च गृहयोधयोः ।कण्ठो गले गलध्वाने कण्ठः फेणसमीपयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ ठान्ताः Koṣakalpataru 6.11.54 · p. 186
पाठस्त्वधीतावथ विद्धकर्ण्यांस्त्रियां च वण्ठस्तु विवाहहीने ।खर्वे च कुन्तेऽथ गले तु कण्ठोध्वनौ समीपे मदनद्रुमे च ॥ ५४ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.20 · p. 22
मुहूर्ते षष्ठभागे च नाड्याः कालेऽतिसूक्ष्मके ।निर्व्यापारस्थितौ चाथ कण्ठः शब्देऽन्तिके गले ॥ २० ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास ककारादयः Paramānandīyanāmamālā 5.7.89 · p. 172
ऋग्भेदे वेदवित्पाठे कण्ठः स्यान्मदनद्रुमे ।घोषे गले समीपे च कार्यं हेतौ प्रयोजने ॥ ८९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ठान्ताः Śabdaratnāvalī 7.12.3 · p. 203
कण्ठो ध्वनौ सन्निधाने गले मदनभूरुहे ।काष्ठा दारुहरिद्रायां कालमाने प्रकर्षके ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1888 · p. 230
कण्ठः शब्दे गले कुम्भो घटद्विपशिरोंऽशयोः ।कूटोऽस्त्री पुञ्जमायाद्रिशृङ्गायोघनवेश्मसु ॥ १८८८ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.106 · p. 127
काष्ठा कालेऽपि कोष्ठस्तु स्वकीयेऽप्यथ सुध्वनौ ।ग्रीवादेशेऽपि कण्ठः स्यात्कुष्ठं रोगौषधीभिदोः ॥ १०६ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.13 · p. 215
कण्ठो गलेऽन्तिके शब्दे कपयोऽर्केभवानराः ।गुडभस्मरसाः क्षाराः क्षोदो रजसि पेषणे ॥ १३ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पर्यायसंयोगन्यायप्रदर्शनाध्यायः Vaijayantī 8.6.22 · p. 282
पञ्चपूर्वास्तु वक्त्रस्य व्याघ्रे सिंहे हरे नरः ।कण्ठस्य नीलनामभ्यो ग्रीवायाश्चेशकेकिनोः ॥ २२ ॥
अनुष्टुप्

कण्ठ as a meaning in nānārtha verses